श्रीदर्शनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वा मुखरकस्येति लेभे श्रीदर्शनो धृतिम् ।
वैमल्यं मानसं याति सन्मतेः कतकैरिव ॥६९६॥
ततो भुक्त्वा तदानीतं मितं श्रीदर्शनो ययौ ।
तेनैव सह शर्वर्यां देशान्तरमलक्षितः ॥६९७॥
म्लाने माने धने याते स्वजने शत्रुतां गते ।
स्वदेशावस्थितिः पुंसां निदर्शनविडम्बना ॥६९८॥
अट्टहासोऽवदद्दूराददृश्यः श्रेयसे सुतम् ।
इतस्त्वं त्वरितं गच्छ श्रीसेनं मालवेश्वरम् ॥६९९॥
कितवेभ्यः कृतस्तेन सर्वकामप्रदो मठः ।
स्वयं स द्यूतकारोऽभूद्बाल्ये वयसि विप्लुतः ॥७००॥
परव्यथां न जानाति यो ह्यदृष्टस्ववेदनः ।
गृहे निधीकृतं भूमौ मातुस्ते रत्नभूषणम् ॥७०१॥
विद्यते तच्च पाथेयं गृहाण शुभमाप्स्यसि ।
इति पित्रा समादिष्टो यक्षेणादृष्टमूर्तिना ॥७०२॥
स व्रजन्बहुसस्याढ्यं ग्रामं प्राप सुहृद्वृतः ।
तृष्णाकुलस्तत्तडागतटं प्राप्तां सुलोचनाम् ॥७०३॥
सोऽपश्यत्कन्यकां कामकेलिकाननवल्लरीम् ।
सा पृष्टा कौतुकात्तेन बभाषे हरिणेक्षणा ॥७०४॥
सुताहं पद्मगर्भस्य पद्मिष्टाख्या द्विजन्मनः ।
भ्राता मुखरको नाम ममाभूद्गुणिनां वरः ॥७०५॥
द्यूतव्यसनसंतापाद्यते तस्मिन्दिगन्तरम् ।
मया सह तमन्वेष्टुं भ्रान्तस्तातोऽखिलां भुवम् ॥७०६॥
कालेनेमां महीं प्राप्तः स चौरेण हतो निशि ।
इहास्ते चौरराजासौ वसुभूतिर्द्विजाधमः ॥७०७॥
पुत्राय दातुं च हृता तेनाहं पापबुद्धिना ।
स च सार्थप्रमाथाय मत्पुण्यैस्तत्सुतो गतः ॥७०८॥
अस्मिन्ससंशये स्थाने युवयोः किं भविष्यति ।
इत्याप्तदुःखादधिकस्तापो मे हृदि वर्तते ॥७०९॥
श्रुत्वेति तस्याः संकल्पं ज्ञात्वा तामेव सोदराम् ।
ययौ मुखरको मोहं पितृप्रलयदुःखितः ॥७१०॥
श्रीदर्शनेन सहसा संसिक्तः शीतवारिणा ।
संज्ञामवाप्य भगिनीं स तां बालामसान्त्वयन् ॥७११॥
विधाय कृतकास्वास्थ्यं ततः श्रीदर्शनो निशि ।
आनाय्य तस्मै चौरं च तत्सर्वं स्वधनं ददौ ७१२॥
मुमूर्षोः किं वधेनास्य येन मे कल्पितं धनम् ।
तस्मिन्मृते ग्रहीष्यामि चिन्तयित्वेति दस्युपः ॥७१३॥
प्रतिश्रयं गृहोपान्ते ददौ तस्य विधेर्वशात् ।
गृहीत्वा तौ च पद्मिष्ठां जग्मतुः सधनौ निशि ॥७१४॥
ततो महाटवीं प्राप्य भिक्षित्वा यक्षयोषितम् ।
अवाप्य भोजनं यातौ मालवाधिपतेः पुरम् ॥७१५॥
स्वसारमथ यद्दिष्टां प्रीतो मुखरको ददौ ।
श्रीदर्शनाय तौ दृष्ट्वा सानुरागौ परस्परम् ॥७१६॥
ततः प्रविश्य श्रीसेनपुरं वृद्धनिकेतने ।
श्रितास्ते शुश्रुवुर्भूपं यक्ष्मव्याधिनिपीडितम् ॥७१७॥
प्राप्तो मन्त्रधरस्तस्य क्षयव्याधिनिवृत्तये ।
उवाच सिद्धिर्नास्त्येव द्वितीयं साधकं विना ॥७१८॥
इत्युक्ते तेन सततं यत्नेनापि परीक्षितः ।
न लभ्यते यदा वीरस्तदा नृपतिरभ्यधात् ॥७१९॥
कश्चिदन्विष्यतां धीरो द्यूतकारो मठे मम ।
सत्त्वसाहसधैर्याणां कितवः क्षेत्रमेव यत् ॥७२०॥
अत्रान्तरे मठं प्राप्तः स राज्ञे विनिवेदितः ।
श्रीदर्शनो मन्त्रसिद्ध्यै सहायो हेलयाभवत् ॥७२१॥
सह मन्त्रधरेणाथ श्मशानं भीरुमञ्जनम् ।
निशि प्राप्य चकर्षासौ मठकं तदनुज्ञया ॥७२२॥
अपरः कोऽपि चाभ्येत्य तमेव चिरसाधकः ।
बलादुल्लोठितनरस्त्वरितो नेतुमुद्ययौ ॥७२३॥
ताभ्यामाकृष्यमाणोऽसौ रुराव विकृतं शवः ।
( घोरारवेण तेनाभूत्परासुः पूर्वसाधकः ॥७२४॥
श्रीदर्शनः शवं प्राप्य हत्वादाय मृतं च तम् ।
ययौ मन्त्रधराभ्याशं चितावलयभीषणम् ॥७२५॥
विन्यस्ते तेन मठके तत्र यागस्थले क्षणात् ।)
होता तदानने मन्त्री नरास्थ्यसृक्शुचौ व्यधात् ॥७२६॥
ततो ज्वालाकुलमुखश्चक्रे कुहकहारवम् ।
मठकस्तेन सहसा व्यसुर्मन्त्रधरोऽभवत् ॥७२७॥
श्रीदर्शनोऽपि तं घोरं महावेतालमुत्थितम् ।
दृष्ट्वा निगीर्णं तेनैव तं च मन्त्रधरं पुरः ॥७२८॥
ततो गणैः समभ्येत्य तत्र निद्राकुलोऽथ सः ।
नीतः स्वनगरीवेश्म संकल्पैरिव शीघ्रगैः ॥७२९॥
प्रतिबुद्धः स्मरशरैरुत्सृजद्धैर्यविभ्रमः ।
चक्रारूढमिवात्मानं मेने तां सुन्दरीं स्मरन् ॥७३०॥
तामप्यभिनवानङ्गकम्पसंपत्तरङ्गिताम् ।
तत्पिता ज्ञातवृत्तान्तो दृष्ट्वा चिरमचिन्तयत् ॥७३१॥
( नामावली भूषणेषु यस्येयं परिदृश्यते ।
श्रीदर्शनः स नृपतिर्दूरस्थो ज्ञायते कथम् ॥७३२॥
ध्यात्वेति ब्रह्मसोमाख्यं व्रतिनं ज्ञानलोचनम् ।
पुत्र्याः समीहितप्राप्त्यै गूढं राजा व्यजिज्ञपत् ॥७३३॥
अन्येषु सर्वकार्येषु सिद्धिर्न ) सततं भवान् ।
अस्मिन्समीहिते पुत्र्याः प्रसादं कर्तुमर्हसि ॥७३४॥
इति भूमिपतेर्वाक्यात्क्षिप्रमेव स खेचरः ।
श्रीदर्शनपुरीं प्राप्य गणेशायतनं ययौ ॥७२५॥
तत्र प्रणम्य विघेन्शं संपत्कमलिनीरविम् ।
स्तुतिं स चक्रे निर्यन्त्रमन्त्रतन्त्रस्वतन्त्रवाक् ॥७३६॥
गजाननं नमाम्युग्रविघ्नवज्रनिबर्हणम् ।
गजतुण्डाभभुजगावनद्धकटिमण्डलम् ॥७३७॥
मदाम्बुसिक्तदंष्ट्रांशुव्याप्तं स्तौमि गणेश्वरम् ।
जाह्नवीयमुनावारिक्रीडाशौण्डमिवानिशम् ॥७३८॥
नौमि फूत्कारविक्षिप्तकुम्भसिन्दूरसंचयम् ।
दैत्यक्षयाकालसंध्यां सृजन्तमिव शांकरीम् ॥७३९॥
नौमि क्षिपन्तं मधुपान्कर्णतालानिलैर्मुहुः ।
हेरम्बं दन्तचन्द्रांशुदीर्णध्वान्तकणानिव ॥७४०॥
नमामि तं गणाधिशं क्रीदासु गलगर्जितैः ।
ताण्डवाडम्बराचार्यो यः षण्मुखशिखण्डिनः ॥७४१॥
इति स्तुत्वा गणपतिं ब्राह्मणोऽसौ यदृच्छया ।
प्राप्तमुन्मादवणिजं चकार स्वच्छविग्रहम् ॥७४२॥
राजधानीं प्रविश्याथ श्रेदर्शनमवाप्य सः ।
निवेद्य सर्वं वृत्तान्तं हंसद्वीपं निनाय तम् ॥७४३॥
तत्र पित्रा वितीर्णां तामवाप्यानङ्गमञ्जरीम् ।
महोत्सवे स्मरस्मेरः कंचित्कालमुवास सः ॥७४४॥
व्रतिना नभसा नीतः सभार्यः स्वपुरं ततः ।
आकृश्टखङ्गस्तं हन्तुमुद्ययौ कोपकम्पितः ॥७४५॥
प्रसाद्य च ददौ तस्मै वेतालः सितसर्षपान् ।
श्रीदर्शनस्तैर्नृपतिं प्रातर्वीतक्षयं व्यधात् ॥७४६॥
संदर्श्य तं मन्त्रधरं मठकस्योदरे मृतम् ।
स्वस्थोऽथ नृपतिस्तस्मै सत्त्वसाहसशालिने ॥७४७॥
यौवराज्यं ददौ खल्पदानलज्जानताननः ।
सुराज्यसुखसंभोगसंभावितमनोभवः ॥७४८॥
यद्दिष्टावदनाम्भोजषट्पदः सुबभौ तदा ।
कदाचिदथ वित्तेशविभवो वणिजां वरः ॥७४९॥
उपेन्द्रशक्तिनामा तं देशं सार्थैः समाययौ ।
श्रीदर्शनाय स ददौ दर्शनार्थमुपायनम् ॥७५०॥
समुद्रोर्मिसमुत्सृष्टं हेरम्बं हेमविग्रहम् ।
तं प्रतिष्ठाप्य विधिवन्मन्त्रैज्ञैः स द्विजन्मभिः ॥७५१॥
प्रासादे रत्नरचिते चक्रे यात्रामहोत्सवम् ।
साक्षात्संनिहितस्तत्र गणैः सह गणाधिपः ॥७५२॥
( श्रीदर्शनश्रिये तोषादादिदेश गणान्रहः ।
हंसद्वीपाधिनाथस्य तनयानङ्गमञ्जरी ॥७५३॥
मद्वराद्भाविनी भार्या न चिराच्चक्रवर्तिनः । )
अयमेवास्तु दयितस्तस्या मद्विहितोदयः ॥७५४॥
तद्विधाने गणास्तूर्णं वर्तध्वं सहिता इति ।
रत्नपर्यङ्कसंसुप्तो निशि श्रीदर्शनः स तैः ॥७५५॥
हंसद्वीपं क्षणान्नीतो ददर्शानङ्गमञ्जरीम् ।
शशिनः क्षयरक्षायै निर्मितामिव वेधसा ॥७५६॥
पीयूषवापीमम्लानवक्त्रनेत्रसरोरुहाम् ।
हारवल्लीमिव रतेर्विलासहसितोज्ज्वलाम् ॥७५७॥
कटाक्षशबलच्छायां रत्नमालामिव द्युतेः ।
कन्दर्पकेलिहरिणीमिव विस्तीर्णलोचनाम् ॥७५८॥
विलासालससंचारां श्रृङ्गारकरिणीमिव ।
अङ्गजां कान्तितटिनीममलां कान्तिकौमुदीम् ॥७५९॥
अबलां विजितानेकनाकनायककामिनीम् ।
वपुषा सौष्ठवपुषा हारिणीं हरिणीदृशम् ॥७६०॥
लोलालकान्तां तां कान्तां वीक्ष्य सोऽभूदनङ्गभूः ।
तया स्वैरं समागम्य लीलाविनिमयं व्यधात् ॥७६१॥
निजनामाङ्कमणिक्यभूषणां तां सविस्मयः ।
निखिलां पृथिवीं जित्वा चक्रवर्ती बभूव सः ॥७६२॥
कालेन साथ पद्मिष्ठा सा च द्वीपेश्वरात्मजा ।
द्विजेन स्मारिते जातिं यक्षीरूपमवापतुः ॥७६३॥
पद्मदर्शननामानं तथैवानङ्गदर्शनम् ।
धृत्वा राज्ये सुतौ ताभ्यां वनं श्रीदर्शनोऽभ्यधात् ॥७६४॥
ततस्ताभ्यां समभ्येत्य यक्षीभ्यां काननस्थितिः ।
वल्लभः स्मारितो जातिं सोऽभवद्यक्षनायकः ॥७६५॥
अट्टहासानुजः सोऽहं यक्षो दीप्तशिखाभिधः ।
कृतानुयात्रे सर्वत्र ते चेमे मम वल्लभे ॥७६६॥
अस्मिन्नसारे संसारे सततं पुत्र देहिनाम् ।
भवन्ति सुखदुःखानि मा विषादे मनः कृथाः ॥७६७॥
इत्यहं तेन वात्सल्याद्वीतदुःखः शनैः कृतः ।
कालेन तदनुध्यानाद्भवद्भिश्च समागतः ॥७६८॥
विचित्रकथासमागमः । इति श्रीदर्शनाख्यायिका ॥२०॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP