हंसावलीकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मृगाङ्कदत्तः श्रुत्वेति चित्रं श्रुतधिना सह ।
विस्मयं परमं भेजे धृतिं वीरो बबन्ध च ॥२४४॥
स गच्छन्नर्मदां प्राप फेनहासविलासिनीम् ।
माद्यद्विहङ्गवाचालमेखलां नर्मदायिनीम् ॥२४५॥
ददर्श तत्र सलिले युवानं शबराधिपम् ।
स्थानव्यग्रमहाग्राहैर्गृहीतं कुञ्जरोपमैः ॥२४६॥
मृगाङ्कदत्तस्तद्दृष्ट्वा ग्राहं छित्त्वा महासिना ।
वीरो मायाबटुं नाम शबरेन्द्रममोचयत् ॥२४७॥
ततः संजातसौहार्दस्तेनानीतो निजालयम् ।
प्रणम्य पूजितो दूराच्चण्डालैः शबराधिपैः ॥२४८॥
तथा दुर्गपिशाचाद्यैः साक्षाच्छक्र इवागतः ।
मायाबटुगृहे प्रीतः किंचित्कालमुवास सः ॥२४९॥
तत्र पर्जन्यनिर्घोषप्रनृत्तेषु शिखण्डिषु ।
शबरेन्द्रप्रतीहारश्चण्डकेतुरभाषत ॥२५०॥
गृहे मम मयूरोऽस्ति योऽस्तं भानौ गते सदा ।
अनपेक्षितपर्जन्यो नृत्यतीन्द्रायुधच्छविः ॥२५१॥
इत्युक्त्वा शबरेन्द्रेण द्युतकेलिकलापिनम् ।
न चिरादानयामीति चण्डकेतुरभाषत ॥२५२॥
ततः सूर्येऽस्तमायाते वृतासु तिमिरैर्घनैः ।
भिल्लपल्लीषु मायूरपिच्छकच्छादनैरिव ॥२५३॥
नद्धासु दिक्षु सर्वासु कौञ्जरैरिव चर्मभिः ।
आकाशे शबरीकेशयात्रासंकाशशोचिषि ॥२५४॥
एको मृगाङ्कदत्तोऽथ व्रजन्केनापि ताडितः ।
स्कन्धे स्कन्धे सतिमिरे तत्कोपाविदमभ्यधात् ॥२५५॥
अरे दर्षोद्धतः को‍ऽयं मत्कोपाग्निपतङ्गकः ।
श्रुत्वेत्याह प्रतीहारश्चण्डकेतुरलक्षितः ॥२५६॥
चौरोऽहं नापराधो मे चन्द्रस्यैष व्यतिक्रमः ।
यदालोकं विनालोकः सन्नेत्रोऽप्यन्धतां गतः ॥२५७॥
दैवस्य वातिचारोऽ‍यं येन त्रैलोक्यचक्षुषः ।
तस्यापि भानोर्विहिताः संपदां परिवृत्तयः ॥२५८॥
मृगाङ्कदत्तः श्रुत्वेति चौरोऽहमितिवादिनम् ।
तमवादीदमहपि स्तेन एव परस्वहृत् ॥२५९॥
इति तावत्परिज्ञाय मिथः सौहार्दमाश्रितौ ।
सस्रतुः पथि तौ श्यामातमःसंवीतविग्रहौ ॥२६०॥
मायाबटोः प्रतीहारः स हि प्रच्छन्नकामुकः ।
सदा तन्महिषीं रात्रौ भजते गूढरागिणीम् ॥२६१॥  
ततो मृगाङ्कदत्तेन स तेनानुगतः क्षणात् ।
स चण्डकेतुरविशद्विलेनान्तःपुरोदरम् ॥२६२॥
मायाबटुप्रियां तत्र स मञ्जुमतिकाभिधाम् ।
प्राप्य लेभे स्मररसात्तदालिङ्गननिर्वृतिम् ॥२६३॥
अलक्षितो बिलच्छिन्द्रन्यस्तनेत्रो ददर्श तम् ।
मृगाङ्कदत्तो दुःशीलां तां च मायाबटोर्वधूम् ॥२६४॥
ईर्ष्याविवादे स तया प्रतीहारो विरोधितः ।
चकर्ष शस्त्रं रागो हि खलानां कलहोदयः ॥२६५॥
रतोत्सवे प्रस्तुतेऽपि संजाते शस्त्रसंभ्रमे ।
छिन्ना निवारणे तत्र दास्याः करतलाङ्गुलिः ॥२६६॥
ततः क्रुद्धः स निर्गत्य निजवेश्म व्रजन्निति ।
मृगाङ्कदत्तमज्ञात्वा चण्डकेतुरभाषत ॥२६७॥
तूर्णमेह्येहि गच्छावः खिन्नौ दीर्घप्रजागरात् ।
निद्रां प्राप्त्वा निजगृहं विश्रब्धो यास्यसि प्रिय ॥२६८॥
इत्युक्त्वा तेन नीतोऽहं स्वगृहं द्रोहचेतसा ।
दृष्टमच्चरितो वध्यो ममायमिति निश्चयात् ॥२६९॥
मृगाङ्कदत्तस्तद्गेहं प्रविश्यालक्षितो निशि ।
प्रदिष्टस्तेन निद्रार्थं शून्यमन्दिरमाविशत् ॥२७०॥
प्रतीहारगृहे तत्र स्थितो दीपांशुमालिनि ।
केलीशिखण्डिनं दूराद्ददर्श रुचिरच्छविम् ॥२७१॥
सुस्निग्धालोकिनस्तस्य बन्धोरिव गलस्थितम् ।
स गाढबन्धनं सूत्रं कृपयैव व्यमोचयत् ॥२७२॥
कण्ठसूत्रे व्यपगते सोऽभूद्भीमपराक्रमः ।
मृगाङ्कदत्तस्तं दृष्ट्वा हृष्टः पप्रच्छ विस्मयात् ॥२७३॥
सखे हर्षसुधासिन्धुसंभ्रमः किमयं कुतः ।
वृत्तं वा कथ्यतां सर्वं स एवास्मि यतः स्फुटम् ॥२७४॥
श्रुत्वेति तं परित्यज्य प्राह भीमपराक्रमः ।
अप्यहं नागशापेन प्रविष्टो विकटाटवीम् ॥२७५॥
दर्भसूचीचितां घोरां दावाग्निप्लुष्टपादपाम् ।
उद्धूततप्तसंसिक्तां संज्ञातमृगतृष्णिकाम् ॥२७६॥
खिद्यद्वराहमहिषां ताम्यत्तप्तभुजङ्गमाम् ।
शुष्यत्कुरङ्गशशकां तृष्यच्छिखिकुलाकुलाम् ॥२७७॥
तत्र भ्रान्तं चिरं श्रान्तं मूले शाल्मलिशाखिनः ।
प्राणत्यागे कृतोद्योगं मां वृद्धपथिकोऽब्रवीत् ॥२७८॥
परिम्लानमुखच्छायो भद्र किं परितप्यसे ।
संसारदुःखसरणिर्वैक्लव्येन न लङ्घ्यते ॥२७९॥
इत्युक्त्वा मत्कथां श्रुत्वा पुनराह महाद्युतिः ।
वृद्धपान्थो न शोकेन वीराणां स्पृश्यते मनः ॥२८०॥
अवश्यं हि भवत्येव जीवतां संगमः पुनः ।
धैर्यं श्रय विपत्स्फारजलधेः सेतुरेव त त् ॥२८१॥
कोशलायामभूद्भूपो विभूतेः प्रथमाकरः ।
तारापतिकराकारचरितो विमलाकरः ॥२८२॥
कमलाकरनामाभूत्कमलाकमलाकरः ।
तनयस्तस्य राजश्रीविलासमणिदर्पणः ॥२८३॥
साङ्गोऽयमपरोऽनङ्गः सोऽङ्गनापाङ्गसंगतिः ।
इत्यूचुर्यस्य यात्रासु तरुण्यो रूपविस्मिताः ॥२८४॥
बन्दिमागधसूतेभ्यो वितरन्मणिकह्ग्कणान् ।
पठितां बन्धिवर्येण शुश्रावार्यां स विस्मितः ॥२८५॥
कुवलयभूषणममलं गुणनिलयं कविसहस्रनिर्घुष्टम् ।
हंसावलिः क्क रमते कान्तं कमलाकरं मुक्त्वा ॥२८६॥
तात्पर्याद्गदितां श्रुत्वा स मनोरथसिद्धिना ।
किमेतदिति पप्रच्छ तं रहः कौतुकाकुलः ॥२८७॥
सोऽब्रवीदस्ति नगरी विदिशा नाम विश्रुता ।
आवर्तमानया लक्ष्म्या विदिशेव तमाश्रिता ॥२८८॥
मेघमालीति विख्यातस्तस्यामस्ति महीपतिः ।
( यत्कीर्त्या विहिता..........नामङ्कालिङ्गननिर्वृतिः ) ॥२८९॥
तस्य ह्म्सावली नाम तनयास्ति शुचिस्मिता ।
मुक्तावलीव कामस्य विस्तीर्णगुणगुम्फिता ॥२९०॥   
सुमुखी पल्लवकरी स्तनस्तबकशालिनी ।
सचन्द्रपारिजातेव लहरी क्षीरवारिधेः ॥२९१॥
मन्मथायोपनीतेव वेधसा त्रिजगज्जये ।
( नवलावण्यनिर्माणहस्तोपायनपुत्रिका ) ॥२९२॥
यदृच्छया गतो रम्यां स कदाचित्पुरीमहम् ।
न्यवसं दर्दुराख्यस्य नाट्याचार्यस्य वेश्मनि ॥२९३॥
अत्रान्तरे राजसुता नर्तकेन सुशिक्षिता ।  
पितुः पुरो नृत्यतीति प्रवादो नगरेऽभवत् ॥२९४॥
ततोऽहं कौतुकाविष्टो नाट्याचार्यसमाश्रयात् ।
अविशं सार्जवं गर्जन्मुरजं नाट्यमण्डलम् ॥२९५॥
मूर्च्छद्वीणासमालापतालच्छन्नकलाविधौ ।
संप्रवृत्ते ध्रुवं गाने वरयात्राविधायिनी ॥२९६॥
अत्रान्तरे विश्वसृजा राज्ञे दत्ता जगज्जये ।
नवलावण्यनिष्प्राणहस्तोपायनपुत्रिका ॥२९७॥
विवेश सत्त्वसंपन्ना सुधाभिनयशालिनी ।
ततो हंसावली हेलाविकीर्णकुसुमाञ्जलिः ॥२९८॥
मूर्तेव कौशिकी वृत्तिर्नाट्यस्येवाधिदेवता ।
सामात्यस्य पितुस्तत्र चक्रे कमपि विस्मयम् ॥२९९॥
विलासललितं तस्या विबभौ वदनाम्बुजम् ।
नान्दीश्रवणसंतोषाच्चन्द्रः साक्षादिवागतः ॥३००॥
सा बालानिललोलेव पेशला कल्पवल्लरी ।
संसारसरसालोकैर्भावामृतफलं ददौ ॥३०१॥
बालचूताङ्कुरस्वादकलकोकिलनिःस्वना ।
सा पपाठ विपञ्चीव पञ्चमानुगतस्वरा ॥३०२॥
जयाति स नाभिसरोरुहमधुपटलैर्निवसिताकारः ।
शौरिः श्रीमुखचन्द्रे यत्कान्तिर्लाञ्छनच्छाया ॥३०३॥
इति ब्रुवाणा वक्त्राब्जसौरभाहृतषट्पदैः ।
सा बभौ प्रेक्षकोद्भूतसाधुवादाक्षरैरिव ॥३०४॥
ततो दिनान्ते तनयानाट्यदर्शननिर्वृते ।
अन्तःपुरं गते राज्ञि वृते सामाजिकोत्सवे ॥३०५॥
अचिन्तयमहं देव कन्येयं मृगलोचना ।
कमलाकरदेवस्य योग्यैवेति मुहुर्मुहुः ॥३०६॥
ततः कृतप्रवेशोऽहं युक्त्या राजनिकेतनम् ।
कन्यान्तःपुरचित्रे त्वत्तुल्याकारमलीलिखम् ॥३०७॥
विहितोन्मादवेषोऽथ वयस्यो मम दर्दुरः ।
चित्रस्थं प्रकटीकर्तुं त्वां तुष्टाव मुहुर्मुहुः ॥३०८॥
नामाभिजनमाकर्ण्य त्वदीयं तेन वर्णितम् ।
त्वदाकारैकविन्यस्तलोचना साभवच्चिरम् ॥३०९॥
ततो भवावतारेण स्मरेण रुचिरद्युतिः ।
सा बभूव वसन्तेन लतेवोत्कलिकाकुला ॥३१०॥
प्रतिपञ्चन्द्रलेखेव ततः सा चारुहासिनी ।
मनोभवानलज्वालाकुलिता तनुतां ययौ ॥३११॥
क्षीणा ज्वरापदेशेन बिभ्रती स्मरविक्रियाम् ।
द्रष्टुं पित्राभ्यनुज्ञाता श्रेयसे श्रीपतिः स्वयम् ॥३१२॥
ततो दर्दुरकेणाहं विहितो ज्ञात््कथः ।
कृतप्रवेशस्तेनैव युक्त्या तं देशमाविशम् ॥३१३॥
तत्र हंसावली दृष्टा मया विराहनिःसहा  
हंसावलीव नलिनीदलशय्याकृतस्थितिः ॥३१४॥
दृष्ट्वा तां विष्णुनिलये राजपुत्रीं स्मरातुराम् ।
अपठं स्तुतिमभ्येत्य शौरीं तन्न्यस्तलोचनः ॥३१५॥
जय कमलाकरलालितचरणसमाक्रान्तविश्व विश्वात्मन् ।
प्रकटसुदर्शनकान्ते पुरुषोत्तम पुण्डरीकाक्ष ॥३१६॥
इति प्रिया तामश्लिष्टां सा श्रुत्वा भगवत्स्तुतिम् ।
पुनः पुनः पठेत्याह सा श्रुत्वा भगवत्स्तुतिम् ॥३१७॥
प्रत्यभिज्ञाय सा मह्यं ददौ चीनांशुकद्वयम् ।
तत्पल्लवे तया न्यस्ता गाथैषा रक्तचन्दनैः ॥३१८॥
सेवेयं तत्करन्यस्ता दृश्यतेंऽशुकपल्लवे ।
गाथा पुष्पशरस्येव दीक्षामन्त्राक्षमालिका ॥३१९॥
श्रुत्वेति राजतनयः सहसा मनसा दधौ ।
तामेव मन्मथाक्रान्तो दिव्यं हि नयनं मनः ॥३२०॥
कदाचिदथ पित्रासौ दिग्जयाय महाभुजः ।
आदिष्टो निर्ययावब्धिवेलाविश्रान्तसैनिकः ॥३२१॥
तत्तुरङ्गखुरोद्धूतसान्द्रधूलिकदम्बकैः ।
दिग्वारणाः क्षणं तस्थुस्तदाघातसमुत्सुकाः ॥३२२॥
स राजतनयां ध्यायन्प्रययौ विजयोन्मुखः ।
संस्मरन्राजकदलीं मीलिताक्ष इव द्विपः ॥३२३॥
अङ्गराजं रणे जित्वा कुलभूतिं महाबलम् ।
जीवग्राहं गृहीतस्वं प्राहिणोन्नगरीं पितुः ॥३२४॥
भग्नासु शत्रुसेनासु समरे प्रतिबिम्बितम् ।
खङ्गन्तर्निजमेवैकं सोऽपश्यत्संमुखं मुखम् ॥३२५॥
क्षिप्त्वा यशो दिगन्तेषु सह भिन्नेभमौक्तिकैः ।
कपोलपत्ररहिताः स चक्रे शत्रुयोषितः ॥३२६॥
विदिशां शनकैः प्राप्य तस्थौ वेत्रवतीतटे ।
नर्तयन्गजगर्जाभिरुद्यानशिखिमण्डली ॥३२७॥
तत्र दूतेन भूषालं ययाचे मेघमालिनम् ।
हंसावलीं स्मरावासनिजमानसवासिनीम् ॥३२८॥
ततः स्वयं समभ्येत्य मेघमाली प्रणम्य तम् ।
उवाच कृतकृत्योऽहं त्वदाज्ञाकारणादिति ॥३२९॥
निर्दिष्टा विश्णुनैवैषा मत्सुता तव वल्लभा ।
तत्करस्पृष्टशिरसां देहिनां शाम्यति ज्वरः ॥३३०॥
वितीर्णा तनया तुभ्यं वत्स हंसावली मया ।
प्रातः क्षपायां भविता युष्मत्परिणयोत्सवः ॥३३१॥
इत्युक्त्वा विदिशाधीशः प्रविश्यान्तःपुरं निजम् ।
चक्रे विदितवृत्तान्तां तनयां वल्लभां तथा ॥३३२॥
हंसावली चित्रगतं ध्यायन्ती कमलाकरम् ।
स एवान्योऽथवा कश्चिदिति दोलाकुलाभवत् ॥३३३॥
सा दिदेश सखीं स्वैरं कान्तां कनकमञ्जरीम् ।
दृष्ट्वा राजसुतं तूर्णमेहीत्याहितसंशया ॥३३४॥  
बद्धकूटजटाजूटा ततः कनकमञ्जरी ।
कृष्णाजिनोत्तरासङ्गपीदितोच्चकुचस्थली ॥३३५॥
राहुग्रस्तस्य शीतांसोरिव प्रव्रजिता द्युतिः ।
द्रष्टुं तपस्विनीवेषा प्रययौ कमलाकरम् ॥३३६॥
रत्नोपायनहस्ता सा कान्तं दृष्ट्वा नृपात्मजम् ।
बभूव मन्मथाविष्टा तेन संभाविता क्षणात् ॥३३७॥
सा विस्मृतसखीस्नेहा तं निर्वर्ण्य स्मरोपम म् ।
तस्थौ तदुन्मुखा कस्य सिद्धये तरुणी सखी ॥३३८॥
ततो हंसावलीमेत्य साब्रवीन्मन्मथाहता ।
उन्मत्तोऽसौ नृपसुतो दृष्टो मन्त्रिवृतो मया ॥३३९॥
भूतच्छायाभिभूतेन तेन ते नोचितः सखि ।
चूतवल्ल्या इवासङ्गः कीटशुष्केण शाखिना ॥३४०॥
इति राजसुता श्रुत्वा न सोऽयमिति चेतसा ।
निश्चित्योद्वाहविमुखी बभूव भृशदुःखिता ॥३४१॥
सखि त्वं मम वेषेण पाणिग्रहमहोत्सवे ।
भजैनं नहि मे चित्तमन्यत्र कमलाकरात् ॥३४२॥
इति हंसावलीवाक्यं श्रुत्वा कनकमञ्जरी ।
उवाच तद्वशास्मीति सानन्दकृतसंवृतिम् ॥३४३॥
स्थातव्यं नगरोपान्ते कूटशाल्मकिकोटरे ।
त्वया वृत्तविवाहाहं त्वां समेष्याम्यलक्षिता ॥३४४॥
हंसावलीमिति स्वैरमुक्त्वा कनकमञ्जरी ।
तदाभरणवासोभिस्तद्वेषां विदधे तनुम् ॥३४५॥
कृत्वा विदितवृत्तान्ता सखिद्रोहे निजाकृतिम् ।
हास्यशोककरी नाम विवाहवसुधां ययौ ॥३४६॥
ततो महोत्सवव्यग्रसमग्रजनमण्डले ।
हंसावली गूढवेषा प्रायात्तं शुष्कशाखिनम् ॥३४७॥
तत्कोटरं समालोक्य भीषणं मृदुमानसा ।
लताजालान्तरे तस्थौ बाला बकुलशाखिनः ॥३४८॥
ततः कोलाहलोत्तालव्यालोलजनसंकुले ।
तां कूटकन्यकां प्राप्य प्रययौ कमलाकरः ॥३४९॥
स व्रजन्विजयस्तत्र यात्रायात इव स्मरः ।
शाल्मलेः सविधं प्राप्य गर्जद्गजघटाकुलः ॥३५०॥
सहसा तत्र कृतकोद्दामत्रासाकुलेक्षणा ।
त्रायस्वेत्याह तं कम्पलोला कनकमञ्जरी ॥३५१॥
किमेतदिति तेनोक्ता सावदद्देव शाल्मलेः ।
अस्यान्तरे स्थिता स्वप्ने मया दृष्टा निशाचरी ॥३५२॥
तया वित्रासितः कोऽपि ब्राह्मणो मामभाषत ।
नादग्ध्वा शाल्मलिं तेऽद्य श्रेयोऽस्तीति कृपाकुलः ॥३५३॥
आर्यपुत्रोऽधुना सर्वं जानातीति तयोदितः ।
शाल्मलिं सेवकैस्तूर्णं राजसूनुरदाहयत् ॥३५४॥
दह्यमानं समालोक्य ज्वालालीढनभस्तलम् ।
हा सख्या वञ्चितास्मीति प्राह हंसावली मुहुः ॥३५५॥
अहोऽनुरूपलोभेन सखी मां मुग्धमानसीम् ।
दग्धुमभ्युद्यता पापा निःशङ्कसुखकाङ्क्षिणी ॥३५६॥
अयं रतिपतेस्तुल्यः प्रत्यक्षं पुरुषोत्तमः ।
नाधन्यया मया प्राप्तो दैव वा केन लङ्घ्यते ॥३५७॥
अहो कान्तिरहो लक्ष्मीरहो यौवनसंपदः ।
अहो नु राजपुत्रस्य नेत्रसंवरणं तनुः ॥३५८॥
अयं स चित्रलिखितः श्रीमान्पद्मदलेक्षणः ।
मन्मानसकृतावासो विलासरससारसः ॥३५९॥
विप्रलब्धास्मि दैवेन प्रविशामि हुताशनम् ।
प्रियाप्राप्तिनिराशेन किं शरीरेण लोपिना ॥३६०॥
इति संचिन्त्य शनकैः स्मृत्वा भगवतो वचः ।
प्रतीकाराय सख्याश्च नात्यजत्सा निजां तनुम् ॥३६१॥
कोशलामथ संप्राप्य प्रहृष्टः कमलाकरः ।
अन्तःपुरं नृपो गत्वा रेमे वल्लभया सह ॥३६२॥
तां मनोरथसिद्धिश्च दृष्ट्वा कनकमञ्जरीम् ।
हा वञ्चितो राजपुत्रश्चिन्तयित्वेत्यगाद्गृहम् ॥३६३॥
तत्र चिन्तापरो बन्दी तदन्वेष्टुं समुद्यतः ।
मात्रा निवारितो राजरहस्यं निर्दहेदिति ॥३६४॥
ततो हंसावली लोके दर्शनाशङ्किनी शनैः ।
विवेश निशि निःशेषशोकशालामिवाटवीम् ॥३६५॥
चिन्तामिव सनिर्वेदां खलसेवामिवापराम् ।
जीवन्तीमिव विच्छायां दुर्दशामिव तापिनीम् ॥३६६॥
वेश्यामिव महातृष्णां चितामिव भयंकरीम् ।
मायामिव व्यस्तमानां डाकिनीमिव दुःसहाम् ॥३६७॥
राक्षसीभिः शतघ्नीभिर्निस्त्रिंशैः पिशिताशिभिः ।
शरजालैश्च निचितां युद्धभूमिमिवोत्कटाम् ॥३६८॥
घोरां प्रविश्य तां तन्वी बभ्राम तरलेक्षणा ।
हा तातेत्याशु ललितं विलपन्ती मुमोह सा ॥३६९॥
शनैः समाश्वास्य मनः पवनाकुलितालका ।
ददर्श शबरीं क्षीणां विरहार्तामिवाङ्गनाम् ॥३७०॥
अथोदिते भगवति व्योमश्रीपतिकौस्तुभे ।
भास्करे चन्द्रविरहक्लान्ते कुमुदिनीगणे ॥३७१॥
शनैर्व्रजन्ती शोकार्ता सा बाला तरुसुन्दरम् ।
द्वितीयं काननं भेजे मञ्जुकूजद्विहङ्गम म् ॥३७२॥
अत्रान्तरे वसन्तर्तुविशदाः कुमुदश्रियः ।
विषादाः प्रोषितस्त्रीणां वनान्तेषु चकासिरे ॥३७३॥
व्याकोशिकिंशुकाशोकपलाशैर्विबभुर्दिशः ।
स्मरप्लोषरुषा स्फूर्जज्ज्वालाजालैरिवोद्गतैः ॥३७४॥
बभुर्विरहिणीशोकतप्तनिःश्वाससोदराः ।
चूतचम्पककिञ्जल्कपिञ्जरा दक्षिणानिलाः ॥३७५॥
ततो हंसावली तत्र पूर्णपङ्कजिनीतटे ।
जले तीरलतापुष्पैर्नारायणमपूजयत् ॥३७६॥
अत्रान्तरे ज्वरार्तोऽभूत्स्वपुरे कमलाकरः ।
तज्ज्ञात्वाचिन्तयत्सर्वं खिन्ना कनकमञ्जरी ॥३७७॥
अहो परीक्षाकालो‍ऽयं प्राप्तो मे कूटयोषितः ।
हंसावली ज्वरहरेत्येष वादो ह विश्रुतः ॥३७८॥
आहूता किं विधास्यामि भर्तुर्ज्वरनिवर्तने ।
बुद्ध्याशोककरी तावत्कादाचिद्भेदिनी भवेत् ॥३७९॥
सख्या द्रोहकराः सर्वा भवन्त्येव यथा ह्यहम् ।
पुरा भद्रशिवा नाम योगिन्युपदिदेश यत् ॥३८०॥
शून्ये लिङ्गालये कृष्णच्छागासृक्पिशातार्चनैः ।
वीरो नरोपहारेण भवति ज्वरहा ततः ॥३८१॥
तस्मात्तदेव कृत्वाद्य हत्वाशोककरीं सखीम् ।
ज्वरं च भेदशङ्कां च तुल्यमुन्मूलयाम्यहम् ॥३८२॥
इति निश्चित्यमनसा कृत्वा शोककरीं रहः ।
कार्ये विदितवृत्तान्तामुपहारकथां विना ॥३८३॥
द्वारपालान्समाज्ञाप्य राज्ञो रक्षाबलिक्रमे ।
यान्ति चायान्ति या नार्यो विध्या मोच्या न ता इति ॥३८४॥
गत्वा सखीं समादाय शून्ये लिङ्गनिकेतने ।
कृत्वा यथोदितं सर्वं खङ्गाग्रेण जघान ताम् ॥३८५॥
अभ्याहता यथा तारं त्रायस्वेति कृतारवा ।
जवाद्विवेश शरणं सा राजद्वाररक्षिणः ॥३८६॥
मुक्तकेशीं खङ्गहतां तस्याः पश्चात्समागताम् ।
राक्षसीति निजघ्नुस्ते ततः कनकमञ्जरीम् ॥३८७॥
अथाशोककरी तेभ्यस्तद्वृत्तान्तं न्यवेदयत् ।
विप्रलब्धः परिणये प्राग्यथा कमलाकरः ॥३८८॥
राजपुत्रोऽथ विज्ञाय तस्याः कपटचेष्टितम् ।
गृहाद्बन्दिनमानाय्य शुशोच मुषितो यथा ॥३८९॥
क्क सा हंसावली याता ममापुण्यघनोच्चयैः ।
अहो विधातुराश्चर्यं श्रमो निष्फलतां गतः ॥३९०॥
अहो नु दग्ध्वा तां बालां वह्नौ कुसुमकोमलाम् ।
मन्ये संतापमतुलं न त्यक्ष्यति युगैरपि ॥३९१॥
हा हंसावलि मच्चित्तचन्द्रिके क्कासि देहि मे ।
वाचमित्यश्रुलुलितं विललाप नृपात्मजः ॥३९२॥
ततस्तमवदद्बन्दी देव मा विक्लवो भव ।
अवश्यं विष्णुना दिष्टां तां प्राप्स्यसि सुलोचनाम् ॥३९३॥
अविषादेन मोहस्य धैर्येण व्यसनस्य च ।
नयेन च प्रमादस्य मूलादुन्मूलनं क्षम म् ॥३९४॥
धीमतां सत्वशीलानां कृतिनां व्यवसायिनाम् ।
पुनः प्ररोहमायाति त्रुटितोऽपि मनोरथः ॥३९५॥
श्रुत्वेत्युचितमाख्यातं स मनोरथसिद्धिना ।
सह तेनैव दयितां विचेतुं प्रययौ स्वयम् ॥३९६॥
भ्रान्त्वा महीमविज्ञातो दैवात्तत्प्राय काननम् ।
अवश्यंभाविनो भावा यत्सत्यं मार्गदर्शिनः ॥३९७॥
तत्र फुल्ललताजाले लीनालिकुलसंकुले ।
स्त्रियं पुष्पसरस्येव सोऽपश्यत्स्तबकस्तनीम् ॥३९८॥
सेयं हंसावलीत्यारात्तां मनोरथसिद्धिना ।
दयितां पुण्डरीकाक्षपूजापरिकरोद्यताम् ॥३९९॥
लावण्यपुण्यसरितं सिद्धिं रतिपतेरिव ।
यक्ष्मक्षयाय चन्द्रस्य सव्रतामिव रोहिणीम् ॥४००॥
अलकालिकुलां लीलावल्लरीं पाणिपल्लवाम् ।
पेशलामचिरावाप्तविप्रयोगविपल्लवाम् ॥४०१॥
तां वीक्ष्य हर्षपीयूषवर्षिणीं निर्वृतोऽभवत् ।
चिरान्मनोरथन्यस्तः कस्य लाभो हि नोत्सवे ॥४०२॥
सापि तन्मन्मथाशङ्काचकितायतलोचना ।
हृष्टा बन्दिगिरा ज्ञात्वा प्रियं लज्जानताभवत् ॥४०३॥
ततो निवेद्य संहृष्टौ विप्रलम्भकथां मिथः ।
तौ बन्दिना समं क्षिप्रं जग्मतुः कोशलां पुरीम् ॥४०४॥
मेघमालिनमाहूय विदिशाधिपतिं ततः ।
कृत्वा परिणयं भेजे तां कान्तां कमलाकरः ॥४०५॥
इत्येवं जीवतां तात भवन्ति शुभसंपदः ।
अवाप्स्यस्यचिरादेव वयस्यां मा कृशो भव ॥४०६॥
इति हंसावलीकथा ॥८॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP