TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भगवत्याः स्तोत्रम्

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


भगवत्याः स्तोत्रम्
जरत्पुलिन्दतापस्याः श्रुत्वेत्यहमवाप्तधीः ।
नागशापकृतां मूर्च्छां शनैः किंचिदिवात्यजम् ॥५७७॥
ततो दुर्गां प्रणम्याहं प्रस्थितो दक्षिणां दिशम् ।
संप्राप्तः शबरैरेतैः समरे संप्रहारिभिः ॥५७८॥
क्षणेन निहतानेकपुलिन्दक्षतविग्रहः ।
त्वत्पादमूलमानीतस्तैरहं सुकृतैरिव ॥५७९॥
मृगाङ्कदत्तः श्रुत्वेति हृष्टः सचिवसंगमात् ।
गन्तुमुज्जयिनीं चक्रे प्रस्थानाभिमुखं मनः ॥५८०॥
त्वया दुर्गपिशाचो मे दातव्योऽस्मिन्समीहिते ।
चण्डालराजः साहाय्ये समामन्त्र्येति तत्पुरम् ॥५८१॥
मायाबटुं सहामात्यो ययावुज्जयिनीं प्रति ।
चतुर्भिः सचिवैः सार्धं स शशाङ्कवतीं स्मरन् ॥५८२॥
( विन्ध्याटवीमथासाद्य दीर्घां वेणीमिवावनेः ।
तमालतालहिन्तालविशालसरलाकुलाम् ) ॥५८३॥
पथि सुप्तोत्थिताः प्रातर्ददृशुस्ते पटावृतम् ।
शयानमेकं पथिकं दीर्घाध्वश्रमपीडितम् ॥५८४॥
ईषदंशुकमुद्धाट्य तं विचित्रकथं ततः ।
अपश्यन्नमृतास्वादतत्समागमनिर्वृताः ॥५८५॥
निवेद्य निजवृत्तान्तं स पृष्टस्तैरुवाच तान् ।
अप्यहं नागशापेन जवात्क्कापि निपातितः ॥५८६॥
ततोऽपश्यं पुरवरे मणिकाञ्चनमन्दिरे ।
वधूभ्यां सहितं दिव्यं पुरुषं रत्नभूषितम् ॥५८७॥
दुर्लभार्थिजने तत्र तेनाहं पूजितो भृशम् ।
मद्वृत्तान्तं समाकर्ण्य सान्त्वितः स्नानभोजनैः ॥५८८॥
तद्वधूवचसा ज्ञात्वा तमहं यक्षनायकम् ।
अपृच्छं शास्त्रनयनो वियोगव्याधिभेषजम् ॥५८९॥
स मामुवाच वातूलतूलावर्तनिवर्तिनाम् ।
नृणां भवे भवन्त्येव वत्स दिष्ट्या समागमाः ॥५९०॥
अयमादेहपर्यन्तं कोऽपि व्याधिरभेषजः ।
वियोगसारे संसारे प्रेम प्रियजनेषु यत् ॥५९१॥
अस्मिन्वाराङ्गनाभङ्गिरिङ्गभ्द्रूभङ्गभङ्गुरे ।
कः संयोगवियोगाभ्यां नोन्मज्जति निमज्जति ॥५९२॥
यक्षेणापि मया पूर्वं वत्स मानुषजन्मनि ।
सुखदुःखपरावृत्तिरनुभूता सुदुःसहा ॥५९३॥
पवित्रधनानामाभूत्त्रिगर्तविषये द्विजः ।
स निर्धनो वनं गत्वा भेजे मन्त्रेण यक्षिणीम् ॥५९४॥
स संगतो मृगदृशा सौदामिन्याख्यया तया ।
लेभे श्रियं सुविपुलां रतिं च रतिलालसः ॥५९५॥
स तां कदाचिदवदत्त्वत्प्रसादान्मम प्रिये ।
संभोगसुभगः कोऽपि हर्षः प्रीणाति मानसम् ॥५९६॥
संपूर्णसर्वसंकल्पं त्वत्तः पुत्रं सुलोचने ।
प्राप्तुमिच्छामि पुण्यानां संतोषैकफलं फलम् ॥५९७॥
इति भर्तुर्वचः श्रुत्वा सावदन्मञ्जुवादिनी ।
रागं मूर्तमिवाधाय बिम्बाधररुचा पुरः ॥५९८॥
अहं पृथोदराख्यस्य तमालवनवासिनः ।
सुता सौदामिनी नाम यक्षेन्द्रस्य धनश्रियः ॥५९९॥
अट्टहासाभिधानस्त्वं कान्तो यक्षकुमारकः ।
वृतः पुरा मया हर्षनिर्भरः पितुराज्ञया ॥६००॥
अत्रान्तरे धनपतेर्विधाय सदृशं  वपुः ।
भ्रात्रा दीप्तशिखाख्येन नलकूबररूपिणा ॥६०१॥
लीलया रममाणं त्वां सोऽपश्यन्नलकूबरः ।
स पितुः सदृशं कोपात्त्वां शशाप नभःस्थितः ॥६०२॥
मर्त्यो भविष्यसीत्याशु प्रार्थितश्चाभ्यधात्पुनः ।
दुर्वृत्तो मम रूपेण दर्पमूढो बलापरः ॥६०३॥
सौदामिन्यां यदा तं स्वं भ्रातरं जनयिष्यसि ।
गर्भदीप्तशिखाभिख्यं स्वं रूपं लप्स्यसे तदा ॥६०४॥
इति तद्वचसा क्षिप्रं त्वमिमां तनुमास्थितः ।
अहं चैतत्सखीवाक्याज्ज्ञात्वा त्वं शरणागता ॥६०५॥
भविष्यत्यचिरादेव पुत्रः शापक्षयाय ते ।
इत्युक्त्वा दीर्घकालेन प्रौढा सुतमसूत सा ॥६०६॥
जाते सुते क्षीणशापः स संप्राप्तोऽट्टहासताम् ।
गूढं विप्रगृहे त्यक्त्वा पुत्रं भार्यासखो ययौ ॥६०७॥
हेमरत्नावलीपूर्णं विन्यस्तं तेन दारकम् ।
सुप्तोत्थितो द्विजः प्राप सबार्यो देवदर्शनः ॥६०८॥
वह्नेर्वराद्धर्मवता तेन दारिद्र्यदुःखिना ।
धनेन सह संप्रपतः पुत्रः श्रीदर्शनाभिधः ॥६०९॥
कालेन सर्वविद्याभिः कलाभिश्च कृतास्पदः ।
शस्त्रास्त्रयुद्धकुशलो बभूव कृतिनां वरः ॥६१०॥
कदाचिदथ जाह्नव्या यमुनाशबले जले ।
त्यक्त्वा तनुं दिवं याते स्वपुण्यैर्दवदर्शने ॥६११॥
दुःखाद्वह्निं प्रविष्टायां ब्राह्मण्यां बन्धुवर्जितः ।
श्रीदर्शनो द्यूतदोषादभूत्कालेन निर्धनः ॥६१२॥
स पांशुधूसराकारैः शून्यस्थण्डिलशायिभिः ।
बाहूपधानैर्दिग्वस्त्रैर्द्यूतकारैः समीकृतः ॥६१३॥
त्यक्ताहारो निरालम्बो मूकः श्रीदर्शनोऽभवत् ।
अनिशं निश्चलध्यानप्राप्तो योगिदशामिव ॥६१४॥
मर्तुकामं तमालोक्य सखा मुखरकाभिधः ।
उवाच बत धीरोऽपि विद्वानपि विमुह्यति ॥६१५॥
अहो विवेकिनः कोऽपि तवापि हृदयभ्रमः ।
यत्त्वमर्थरजो लुब्धः शरीरं त्यक्तुमुद्यतः ॥६१६॥
अयमेव सदोपायो भाविकल्याणसंपदाम् ।
त्रिवर्गसाधनं देहं रक्षेदापत्सु यो बुधः ॥६१७॥
अनेनैव शरीरेण सखे किं नाम नाप्यते ।
सर्वार्थसिद्धिरत्नानां क्रयविक्रयभूरियम् ॥६१८॥
वितस्तेत्यस्ति तटिनी मोक्षश्रीहारवल्लरी ।
रिङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीव कल्मषम् ॥६१९॥
तयास्ति लोललहरीक्षाल्यमानरजोव्रजम् ।
काश्मीरमण्डलं नाम मण्डलं सर्वसंपदाम् ॥६२०॥
यस्मिन्नारीकपोलेषु कान्तिकन्दलितोर्मिषु ।
बिम्बागतः शशी धत्ते सुधागर्भसुखं पुनः ॥६२१॥
तीक्ष्णं तपति नोष्णांशुः करैः कुसुमकोमलैः ।
दष्टेव यत्र लावण्यनवनीतेन निर्मिता ॥६२२॥
सूक्तापितारनत्तार्हारनूपुरमेखलः ।
नृत्यतीव कवीन्द्राणां यत्र वक्त्रे सरस्वती ॥६२३॥
तत्र भूनन्दनामाभूद्भूपतिर्भूषणं भुवः ।
कर्पूरगौरो यद्बाहुरधाच्छेष इव क्षितिम् ॥६२४॥
कदाचिच्छर्वरीशेषे स द्वादश्यामुपोषितः ।
स्वप्ने नयनपीयूषां ददर्शासुरकन्यकाम् ॥६२५॥
प्रबुद्धस्तन्मयध्यानः सोऽभवन्मन्मथातुरः ।
संसारे संसृतिः स्वप्नो रागस्तेनापि रागिणाम् ॥६२६॥
सहसा निर्जिताशेषभुवनेन मनोभुवा ।
स नीतः कामपि दशां शोकदो मन्त्रिणामभूत् ॥६२७॥
भ्रात्रेऽथ वसुनन्दाय राज्यं सचिवसंमते ।
दत्वा ययौ स तपसे विशोकां शोकनाशिनीम् ॥६२८॥
क्रमसाराभिधं यत्र पुण्यं विष्णुपदं सरः ।
द्रुहिणोपेन्द्ररुद्राणां यत्र शैलात्मना स्थितिः ॥६२९॥
यत्र विष्णोर्बलिजये ताराकिङ्किणिकाकुलः ।
पादो गङ्गादुकूलाङ्कः प्रयातः केतुदण्डताम् ॥६३०॥
स तत्र तीव्रतपसे निनाय नियतः समाः ।
एकादशीं दशामन्तःस्थायिनीं मान्मथीं दधत् ॥६३१॥
कदाचिदथ तं देशमायातः शंकरोपमः ।
तपस्वी भूभुजा तेन पृष्टः प्राह निजां कथाम् ॥६३२॥
यजुषो दाक्षिणात्यस्य तनयोऽहं द्विजन्मनः ।
विभूतिवसुराचार्यपदं प्राप्तः शिवागमैः ॥६३३॥
श्रीपर्वते तपोयोगाद्दृष्टः साक्षादुमापतिः ।
मया प्रणम्य पृष्टश्च फलसिद्धिमुवाच सः ॥६३४॥
बाणयुद्धे पुरा वृत्ते प्राप्ता द्वारवतीमुखा ।
अनिरुद्धेन सहिता ललनोद्यानभूमिषु ॥६३५॥
उद्यानरसिकं ज्ञात्वा वल्लभं मत्तकामिनी ।
पातालोपवनं सा तं निनाय विधिनिर्मितम् ॥६३६॥
नीतं तया सुतं ज्ञात्वा प्रद्युम्नः पुत्रवत्सलः ।
पप्रच्छ कृष्णं भगवन्क्कानिरुद्ध इति स्मयन् ॥६३७॥
कैटभारिस्तमवदत्पातालोपवने स्थितः ।
अनिरुद्धः समं बाणपुत्र्या मन्मथलालसः ॥।६३८॥
पुत्र पातालमार्गोऽस्ति काश्मीरेषु बिलद्वयम् ।
एकं वितस्तासलिले प्रकटं भुवि चापरम् ॥६३९॥
तत्राशु प्रकटद्वारि रक्षा काचिद्विधीयताम् ।
केलिसक्तोऽनिरुद्धोऽसावसुराश्च बहुच्छलाः ॥६४०॥
ततः शौरेर्वचः श्रुत्वा प्रद्युम्नः प्राप्य तं बिलम् ।
पिधाय गिरिश्रृङ्गेण तुष्टाव त्र्यक्षवल्लभाम् ॥६४१॥
जयति प्रणतामर्त्यैर्मौलिनीलमणित्विषा ।
भृङ्गपङ्क्त्येव कलितं देव्याः पादाम्बुजद्वयम् ॥६४२॥
जयत्यहर्निशं स्मेरा गौरी चिव्द्योमचन्द्रिका ।
विबोध कैरववनप्रकाशानन्दसुन्दरी ॥६४३॥
पादपातो विजयतां देव्यास्ताण्डवडम्बरे ।
यस्य नूपुरपर्यन्ते शोणरत्नायते रविः ॥६४४॥
मृडान्याः शूलदण्डोऽसौ जयत्यान्दोलितो मुहुः ।
भाति य ः सर्वदैत्यासृक्पानक्षीबः स्खलन्निव ॥६४५॥
अट्टहासः स जयति काल्याः शुभ्रांशुमण्डलैः ।
येन भैरवतां नीतं मुण्डखण्डैरिवाम्बरम् ॥६४६॥
खङ्गो जयति रुद्राण्या यस्य बिम्बात्मना रणे ।
छेत्तुमन्तः प्रविष्टानि वक्राणीव सुरद्विषाम् ॥६४७॥
जयत्युदञ्चद्ब्रह्माण्डं लडड्डमरुकोद्भटम् ।
क्रीडाकलितकङ्कालकरालं भैरवीवपुः ॥६४८॥
दुर्गा जयति यत्कोपे दृष्टः स महिषासुरः ।
तन्मुखेन्दुकरस्पृष्टस्तमःकूट इवामरैः ॥६४९॥
जयत्यतः कमलिनीकन्दकुण्डलिनी मुहुः ।
नादभ्रमरसंयुक्ता मधुबिन्दुविराजिता ॥६५०॥
जयति ब्रह्मकङ्कालमालाकलितशेखरा ।
रुद्रस्यानेककल्पान्तगणनेव मनःप्रिया ॥६५१॥
भगवत्याः स्तोत्रम् ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-21T20:43:06.6330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

warrant of detention

  • न. स्थानबद्धता अधिपत्र 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site