TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दानपारमिता

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


दानपारमिता
सोऽब्रवीन्नागशापेन तदाहं देव मूर्च्छितः ।
विन्ध्याटव्यं परिश्रान्तः संप्राप्तो विन्ध्यवासिनीम् ॥४३६॥
नतो नरशिरःकेशशकृन्महिषसंकुलम् ।
द्वारलम्बिमहावीरमुण्डमण्डलमण्डितम् ॥४३७॥
आक्रीडमिव कालस्य कङ्कगृध्रखगाकुलम् ।
क्षणं संध्याम्बुदमिव प्रत्यग्ररुधिरारुणम् ॥४३८॥
बद्धैः करालमायूरशरीरैः शबराहृतैः ।
उत्पक्ष्मभिः कालरात्र्या भ्रूभङ्गैरिव भीषणैः ॥४३९॥
शुभ्रास्थिकूटसंघट्टैः स्पष्टीकृतदिगष्टकम् ।
मारीघट्टसमुत्सृष्टैरट्टहासैरिवावृतम् ॥४४०॥
दुर्गायतनमासाद्य स्वशिरश्छेत्तुमुद्यतम् ।
ददर्श मां तु विक्रान्तं वृद्धा कापि तपस्विनी ॥४४१॥
विराजिता भस्मशुभ्रे कण्ठे स्फटिकमालया ।
स्वधियेवाश्रिता साक्षात्क्षीणरागकलङ्कया ॥४४२॥
सा मां निवार्य कृपया श्रुत्वा दीर्घं च मत्कथाम् ।
उवाच मा शुचः पुत्र ध्रुवं शुभमवाप्स्यसि ॥४४३॥
न विद्या न कुलं न श्रीधैर्यहीनस्य शोभते ।
करिणो रणभग्नस्य मदाङ्क इव डिण्डिभः ॥४४४॥
भ्रमराणामिवादभ्रे भ्रमतां भवकानने ।
शरीरिणामवश्यं हि भवत्येव समागमः ॥४४५॥
अभूदुदयतुङ्गाख्यः पञ्चालेषु महीपतिः ।
यशश्चन्द्रच्छलाद्यस्य यातमेकातपत्रताम् ॥४४६॥
तस्याभवत्प्रतीहारः श्रीरक्षापरिखाचलः ।
कमलाक्षो मतिमतां धुर्यश्च नयविश्रुतः ॥४४७॥
विनेतमतिरित्यासीत्पुत्रस्तस्य गुणोचितः ।
वंशमुक्तामणेर्यस्य कान्तिकान्ता विभूषणम् ॥४४८॥
स कदाचिन्निजयशःशुभ्रचन्द्रकरोज्ज्वले ।
शुश्राव विचरन्धन्वी निशीथे रुदितध्वनिम् ॥४४९॥
गत्वापश्यत्तरुतले कन्यां कमललोचनाम् ।
विषण्णां कुञ्जरक्षोभां नलिनीनामिव श्रियम् ॥४५०॥
सा दुःखकारणं पृष्टा तेन प्राह सुमध्यमा ।
दन्तव्रातनवज्योत्स्नारचितानेकचन्द्रिका ॥४५१॥
पिता मे गन्धमालीति नागपाशेन वासुकेः ।
कालजिह्वाख्ययक्षस्य जिह्वभारिकतां गतः ॥४५२॥
भ्राता तस्य महावीर्यो विद्युज्जिह्वः प्रियासखः ।
यक्षो यक्षपतेः शापात्प्रयातश्चक्रवाकताम् ॥४५३॥
स्नेहाभ्द्रातुः सरोमध्ये स्थितस्य विहगाकृतेः ।
समीपे वसतिं चक्रे कालजिह्वो मदोत्कटः ॥४५४॥
( तत्र स्थितस्य पुष्पाणि मदाशापरियन्त्रितः ।
स मत्पिता गन्धमाली भारवाहां प्रयच्छति ) ॥४५५॥
तद्दुःखाद्गिरिजा देवी नियतं सेविता मया ।
यक्षे विनीतमतिना जिते शापान्तमभ्यधात् ॥४५६॥
तदर्थं खङ्गरत्नं मे वराश्वं च ददौ सती ।
तत्प्राप्त्यर्थं मयाहूतः करुणाक्रन्दमानया ॥४५७॥
इति श्रुत्वा तदादाय खङ्गरत्नं सवाजिकम् ।
तदादिष्टेन मार्गेण तं यक्षं सोऽजयद्रणे ॥४५८॥
यक्षो विनीतमतिना वधयोग्योऽपि रक्षितः ।
रत्नाङ्गुलीयकं तस्मै ददावीतिनिबर्हणम् ॥४५९॥
ततो विमुक्तशापेन दत्तां नागनतां सुताम् ।
लब्ध्वा विजयवत्याख्यां स ययौ निजमन्दिरम् ॥४६०॥
प्रातः कृतविवाहोऽथ राज्ञा पित्रा च स स्वयम् ।
नागकन्यासखो भेजे विनीतमतिरुत्सुकः ॥४६१॥
अत्रान्तरे नरपतेः सुता विद्यासु कोविदा ।
दर्पादुदयवत्याख्या विजिग्ये वादिनां गणम् ॥४६२॥
जयेद्यो मां विवादेन स मे पाणिं ग्रहीष्यति ।
इति कृत्वा प्रतिज्ञां सा वादिवृन्दं समाह्वयत् ॥४६३॥
ततः पित्रा समादिष्टो विनीतमतिरेत्य ताम् ।
जित्वा दीर्घेण वादेन प्राप दत्तां महीभुजा ॥४६४॥
स तां बालमृगीलोलललितायतलोचनाम् ।
प्राप्य स्मरनरेन्द्रस्य यौवराज्यं समाप्तवान् ॥४६५॥
कदाचिदथ तं द्यूतविनोदव्यग्रमानसम् ।
ययाचे भोजनं विप्रः स च दासं तदादिशत् ॥४६६॥
दासोऽपि सिकतापात्रं तस्मै वस्त्रावृतं ददौ ।
अमन्दनिम्बकटुकदुष्टा हि नृपचेटकाः ॥४६७॥
अथ कालेन तं राजा धृत्वा राज्ये सुतापितम् ।
प्रज्वाल्य गुग्गुलुं मूर्ध्नि वृद्धो वृद्धां दशां ययौ ॥४६८॥
विनीतमतिरासाद्य प्राज्यं राज्यं प्रजाप्रियः ।
विदधे धर्मविधिना विबुधाराधनव्रतम् ॥४६९॥
अत्रान्तरे समभ्यायाद्वादिद्विरदकेशरे ।
रत्नचन्द्रमतिर्नाम भिक्षुरक्षणबौद्धधीः ॥४७०॥
अष्टाभिर्दिवसैस्तेन वादिना स जितो नृपः ।
जग्राह तत्पणे बद्धं सौबद्धं धर्मशासनम् ॥४७१॥
स विहारं प्रविदधे हारपुण्यं फलं श्रियः ।
लोकनाथसमायुक्तं भिक्षुसंघशताचितम् ॥४७२॥
ततः परोपदेशार्थी रत्नचन्द्रमतेर्गिरा ।
स चकार धराधीशो विधिना स्वप्नसाधनम् ॥४७३॥
ज्वलितं सिकताकूटं सोऽपश्यत्प्रेतभूमिगः ।
भुङ्क्ष्वेत्यभिहितः स्वप्ने विकटैर्दण्डपाणिभिः ॥४७४॥
दत्तं प्राक्सिकतापात्रं द्यूतकेलिजुषा त्वया ।
ब्राह्मणाय क्षुधार्ताय तस्यायं फलसंचयः ॥४७५॥
दशकोटीः सुवर्णस्य दत्त्वाभूद्गतकिल्बिषः ।
इति श्रुत्वा प्रबुद्धस्तु गुरवे स निवेदयत् ॥४७६॥
तद्वाक्यात्काञ्चनं दत्त्वा पुनः स्वप्नविधिं व्यधात् ।
भूयस्तदेव च स्वप्ने ददर्शोत्कम्पिताशयः ॥४७७॥
हृते विप्रस्य हेमांशे चौरैस्तदफलं गतम् ।
दशकोटीः पुनर्दत्त्वा हेमोऽभूद्भतकल्मषः ॥४७८॥
ततो बुद्धकथाजातं भिक्षुः स्वैरं तमभ्यधात् ।
नरेन्द्र दानं वीराणामुत्साहः सिद्धये सताम् ॥४७९॥
पुरा वराहरूपस्थो निधिसत्त्वः कृपानिधिः ।
धर्माय सिंहरूपाय स्वं वपुर्भोजनं ददौ ॥४८०॥
हेलोत्तालानिलालोलजलकल्लोलचञ्चलैः ।
प्राणैः पुण्यवतामेव प्रणयिप्राणपूरणम् ॥४८१॥
इत्यादि बुद्धसंबद्धां कथामाकर्ण्य भूपतिः ।
स बभूवार्थिसार्थानां जङ्गमः कल्पपादपः ॥४८२॥
अथाभ्येत्य ययाचे तं विप्रः को‍ऽप्यङ्गुलीयकम् ।
रक्षामि राक्षसाविष्टं पुत्रमित्यनिवारितः ॥४८३॥
रक्षारत्नाङ्गुलीयं तस्माद्ददौ तस्मै स सत्त्वधीः ।
पूर्णरत्नार्थिनां सत्यं सन्ति चिन्तामणिश्रियः ॥४८४॥
राजपुत्रस्ततोऽभ्येत्य विनीतमतिमभ्यधात् ।
सगोत्रशात्रवाञ्जेतुं खङ्गं साश्वमयाचत ॥४८५॥
तद्दत्तेनाथ खङ्गेन राज्यं शत्रोर्जहार सः ।
हृत्तराज्यः परोऽभ्येत्य विनीतमतिमभ्यधात् ॥४८६॥
राजन्युष्मत्कृपाणेन हृता श्रीः शत्रुणा मम ।
श्रुत्वेति करुणासिन्धुस्तस्मै राज्यं निजः ददौ ॥४८७॥
त्यक्तराज्यः प्रविश्याथ सभार्यो विकटाटवीम् ।
स तपःपुण्यपीयूषैश्चक्रे नन्दनसंनिभम् ॥४८८॥
सोमश्रमाभिधं तत्र पुरुषं मर्तुमुद्यतम् ।
निवार्य दुःखात्सोऽपृच्छत्स च पृष्टस्तमभ्यधात् ॥४८९॥
पिता मे नागशूराख्यो जाते मयि पुराश्रृणोत् ।
चौरस्ते तनयो भावी न चिरादिति योगिनः ॥४९०॥
ततो विद्याविदं चक्रे स मां यत्नेन वत्सलः ।
विद्या ह्यकृत्रिमो दीपः संमोहतिमिरे नृणाम् ॥४९१॥
ततोऽहमभवं चौरस्तद्द्विषां पतितो वशे ।
ललाटे कर्मटे केन लिखितं को निवर्तयेत् ॥४९२॥
ज्ञातकालेन राज्ञा हि निबद्धोऽहं च तत्क्षणात् ।
दैवाद्विभ्रष्टनागेन्द्रकल्लोलेन विमोचितः ॥४९३॥
गजकोलाहलव्यग्रं तीर्णोऽहं जनमण्डले ।
अश्रौषमेत्य पितरौ मच्छोकात्त्यक्तजीवितौ ॥४९४॥
ततोऽहमपि तद्दुःखात्प्राप्तो मर्तुमिदं वनम् ।
दृष्टः कारुण्यसंपूर्णधिया देव्या वनश्रिया ॥४९५॥
विनीतमतिसंस्थानपुण्येऽस्मिन्पुत्र कानने ।
क्षीणं ते पातकं गच्छ तस्मात्पारमितां श्रृणु ॥४९६॥
इति तद्वचनं श्रुत्वा मया दृष्टो भवान्पुरः ।
भगवन्ब्रूहि मे पुण्यां सम्यक्पारमितां कथाम् ॥४९७॥
इत्याकर्ण्य कृपासिन्धुर्विनीतमतिराश्रम म् ।
नीत्वा तमवदज्ज्ञानलोचनालोकिताखिलः ॥४९८॥
विचार एव जन्तूनां सदा सन्मार्गदर्शकः ।
स च स्फुरति तत्त्वेन नहि माया कृतात्मनाम् ॥४९९॥
पाञ्चालेष्वभवद्विप्रो देवभूतिरिति श्रुतः ।
भोगदत्ताभिधानस्य भार्याभूद्धर्मचारिणी ॥५००॥
पत्यौ स्नानाय निर्याते शाकावचयनिर्गता ।
सापश्यत्खरमारामे रजकेन निवेशितम् ॥५०१॥
स तया वारितो यष्ट्या भीतः श्वभ्र इवापत त् ।
पततः स्फुटिता तस्य सशब्दा जानुनानिका ॥५०२॥
रजकोऽपि तमालोक्य खरं खञ्जीकृतं तया ।
तां मुष्टिभिर्जघानाशु लगुडैश्च धनेन सः ॥५०३॥
च्युतो गाढप्रहारेण गर्भस्तस्याः सशोणितः ।
द्विजोऽष्यागत्य तद्दृष्ट्वा नगराधिपतिं ययौ ॥५०४॥
जल्पं पुराधिनाथोऽसौ श्रुत्वा रजकविप्रयोः ।
न्यायं विचार्य सुचिरं ततो वक्तुं प्रचक्रमे ॥५०५॥
उभयोरयमन्यायो ब्राह्मण्या रजकस्य च ।
खरो विशमितो यच्च गर्भो यत्पातितोऽमुना ॥५०६॥
वस्त्रभारं वहत्वेष खरस्यास्थ्यावधिं द्विजः ।
आधत्तां रजको गर्भं ब्राह्मण्यां यत्नमास्थितः ॥५०७॥
इति न्यायविदो वाक्यं श्रुत्वा पुरपतेर्द्विजः ।
सभार्जो विषपानेन बभूव सहसा व्यसुः ॥५०८॥
स च राज्ञः पुरपतेर्निगृहीतो विनष्टधीः ।
इत्येवं दुर्विनीतानां श्वभ्रपातः समे पथि ॥५०९॥
तस्माद्विचारमास्थाय श्रृणु पारमितां कथाम् ।
यया भवत्यमलधीर्न्यस्तसंसारवासनः ॥५१०॥
मलयप्रभनामाभूत्कुरुक्षेत्रे महीपतिः ।
श्रीमानुन्दुप्रभो नाम त्यागरत्नाकरः सुतः ॥५११॥
स कदाचिज्जनपदं दुर्भिक्षेण निपीडितम् ।
संतार्य त्यागसत्त्वाभ्यां व्रतैः शक्रमतोषयत् ॥५१२॥
तद्वरात्कल्पवृक्षोऽभूत्सर्वाशापूरणस्तदा ।
तत्प्रसादाद्दिवं सर्वे कुरुक्षेत्रनिवासिनः ॥५१३॥
सशरीरा ययुः सत्यं सिद्धये स हि पादपः ।
इत्येवं दानशीलस्य चिरं कल्पतरुस्थितेः ।
तस्य कीर्तिः पताकेव विभात्येषा त्रिमार्गगा ॥५१४॥
तापपीयूषजलदस्तिमिरध्वंसभास्करः ।
दानं हि नाम संसारे निदानं शुभसंपदाम् ॥५१५॥
इति दानपारमिता ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-21T20:37:51.2270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अटपणे

  • क्रि. एकत्र करणे , गुंडाळणे ; 
  • क्रि. व्यवस्थित लावणे ; 
  • क्रि. आवरणे , उरकणे , झटपट करणे , थांबवणे ; 
  • क्रि. खलास करणे , संपवणे ; 
More meanings
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.