TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भूनन्दाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


भूनन्दाख्यायिका
इति पुत्रस्य रक्षायै प्रद्युम्नेन स्तुता सती ।
चकार सारिकारूपा सहसा तस्य सन्निधिम्म ॥६५२॥
अद्यापि दृश्यते देवी शिलारूपेण सारिका ।
प्रद्युम्नशिखरे सिद्धैः सेव्यमाना सहानुगा ॥६५३॥
देवीं प्रणम्य प्रद्युम्ने याते द्वारवतीं ततः ।
कालेन मुनिशापाच्च क्षयं यातेषु वृष्णिषु ॥६५४॥
सहसा दैत्यकान्ताभिरुषा पातालमन्दिरे ।
स्थितेत्युक्त्वा त्रिनयनः सिद्धिं मे विपुलां ददौ ॥६५५॥
पञ्चभिः सहितः शिष्यैः प्रवेष्टुमहमुद्यतः ।
बिलं तदेहि राजेन्द्र मया ज्ञातं त्वदीप्सितम् ॥६५६॥
उक्त्वेति भूनन्दसखो गत्वा काश्मीरमण्डलम् ।
अवाप्य सारिकाकूटं संपूज्य च यथाविधि ॥६५७॥
विवस्तासलिले बुद्ध्वा प्रयतो मन्त्रसर्षपैः ।
विवृतं सलिलद्वारमात्मना सत्तमोऽविशत् ॥६५८॥
घोरान्दह्कारं निस्तीर्य दिनैः पञ्चभिरश्रमः ।
पातालगङ्गां सोऽपश्यच्छेषच्छायामिवोज्ज्वलाम् ॥६५९॥
सदा प्रचण्डमार्तन्डतापाद्भर्गमहीभूतः ।
मूलादिव सृतां स्फारस्फाटिकस्यन्दवाहिनीम् ॥६६०॥
कृष्णपक्षे क्क यातीन्दुर्नयनानन्दबान्धवः ।
इति पातालमन्वेष्टुं प्रविष्टामिव चन्द्रिकाम् ॥६६१॥
विलोक्य रावणत्रासाल्लक्ष्मीं कण्ठावलम्बिनीम् ।
आनन्दशायिनः शौरेर्लीलाहासच्छटामिव ॥६६२॥
स्नानाद्गतक्लमास्तस्यां गत्वा दूरं क्रमेण ते ।
अपश्यन्राजतं चारु सरो हेमाब्जभूषितम् ॥६६३॥
रत्नपादपसंछन्नं हेमपक्षिकृतारवम् ।
विधेरपूर्वनिर्माणचित्रपत्रावलम्बनम् ॥६६४॥
सुमेरुशिखरप्रख्ये प्रासादे तत्र काञ्चने ।
ते पूजयित्वा श्रीकण्ठं हेमाब्जैर्हाटकेश्वरम् ॥६६५॥
ददृशुर्विद्रुमतरुं हेमशाखं महाफलम् ।
हेरम्बं विघ्नसंघातैः स्थितं तत्र तदात्मना ॥६६६॥
तत्फलं भक्षयित्वैको वारितोऽपि तपस्विना ।
शिष्यः स्थावरतां यातो द्वितीयः फलतामपि ॥६६७॥
शेशान्निवार्य यत्नेन शिष्यान्भूमिभुजा सह ।
सोऽपश्यत्कनकोदारप्राकारप्रवरं पुरम् ॥६६८॥
विज्ञाय स समौ मेषौ स्थितौ द्वारि प्रहारिणौ ।
स हत्वा मन्त्रदण्डेन सानुगोऽविशदन्तरम् ॥६६९॥
रत्नभित्तिसमुत्कीर्णविराजच्छालभञ्जिके ।
वैदुर्यस्तम्भविन्यस्ततप्तहाटकजालिके ॥६७०॥
दीप्तायुधसहस्रोग्रभटाधिष्ठितगोपुर्ते ।
तत्रोपविश्य माणीक्यवल्लीललितकानने ॥६७१॥
क्षणं बद्धसमाधानो विघ्नजातं निवार्य सः ।
अपश्यद्विवृतद्वारनिर्गतं चेटिकागणम् ॥६७२॥
ताभिः सप्रणयं दृष्टमार्गास्ते विविशुस्ततः ।
पुरं दानवकन्यानां रक्षाक्षेत्रं मनोभुवः ॥६७३॥
ददृशुस्तेऽथ दैत्येन्द्रकन्याः कमललोचनाः ।
मण्डलेषु मिथो यासां कपोलाः केलिदर्पणाः ॥६७४॥
स्वप्नदृष्टामथापश्यद्भूनन्दो मृगलोचनाम् ।
कान्ताराच्छादनं यस्या रत्नभूषणसंचयः ॥६७५॥
कर्णोत्पलं कटाक्षश्रीर्हारो यस्याः स्मितच्छविः ।
लावण्यमङ्गरागश्च पु नरुक्तमतः परम् ॥६७६॥
तनुवल्ली वसन्तेन मदोद्यानशिखण्डिनाम् ।
विलासहंससरसा तारुण्येन तरङ्गिता ॥६७७॥
तां वीक्ष्य भूपतिः सोऽभूद्भूयः प्रमदविस्मयः ।
अभिषिक्तः स्मरेणैव स्वेदवारिसुधारसैः ॥६७८॥
ततस्तमाह रम्भोरूः सा शनैर्मञ्जुवादिनी ।
दन्तांशुभिर्दर्शयन्ती नवपातालचन्द्रिकाम् ॥६७९॥
मदर्थं देव रुचिरं खिन्नोऽसि क्षम्यतां विभो ।
अथवा सापराधेऽपि सतां दृष्टिः प्रसादिनी ॥६८०॥
इत्युक्त्वा भ्रूविलासेन निजदासीं दिदेश सा ।
तत्कालस्फालितेनेव कार्मुकेण मनोभुवः ॥६८१॥
इङ्गितज्ञा तदादेशात्संभ्रमाराविनूपुरा ।
दासी निनाय तं पानक्रीदायै नलिनीतटम् ॥६८२॥
तत्रापश्यत्तरुलतालम्बिमर्त्यकलेवरैः ।
वापीं रुधिरसंपूर्णां वसाविपुलकर्दमाम् ॥६८३॥
रत्नपात्रेण तत्पानं सा गृहीत्वा पुनः पुनः ।
नृपं पिब पिबेत्याह न पपौ स च कूणितः ॥६८४॥
त्यजतो ध्रुवमश्रेयो भवतीति तथार्थितः ।
नाददे सा च तत्पात्रं तस्य मूर्ध्नि न्यपातयत् ॥६८५॥
नीत्वा च तं परां वापीं चिक्षेप विमले जले
निमग्नश्चोन्ममज्जासौ कूर्मसारसरस्तटे ॥६८६॥
स्वप्नदृष्टमिवाशेषं ततः स्मृत्वा शुशोच सः ।
फूत्कृत्येव विधिप्राप्तं पश्चात्तापमुपागतः ॥६८७॥
ततस्तस्यासुरपुरीसंक्रान्तामोदशालिनः ।
गात्रे शिलीमुखाः पेतुः स्मरचापच्युता इव ॥६८८॥
कामाग्निमलिनाङ्गारैरिव व्याप्तः स षट्पदैः ।
धूताग्रपाणिर्नो लेभे शर्म मर्माहतो यथा ॥६८९॥
अत्रान्तरे समभ्येत्य कश्चिन्मुनिकुमारकः ।
तमब्रवीत्कृपाविष्टो वैक्लव्यं नृप मा गमः ॥६९०॥
कृष्णाजिनं गृहाणैतद्भृङ्गजालनिवारणम् ।
एकभक्तेन सततं न त्वया कारणत्रयी ।
आराधिता समदृशा तेन विघ्नस्तवोत्थितः ॥६९१॥
ब्रह्मोपेन्द्रत्रिनेत्राणामभेदाराधनान्नॄप ।
अवाप्स्यस्याचिरेणैव कान्तां तां दैत्यकन्यकाम् ॥६९२॥
मुनिसूनोरिति श्रुत्वा भूनन्दस्तन्मते स्थितः ।
विधाय सर्वं पातालं वीतविघ्नः पुनर्ययौ ॥६९३॥
तत्र पूर्णेन्दुवदनां प्राप्य तामसुराङ्गनाम् ।
भेजे मनोभवस्मेरः सविलासरसोत्सवम् ॥६९४॥
इत्येवमविनष्टेषु शरीरेषु मनोरथाः ।
पूर्यन्ते वेधसा पुंसां सखे किं परितप्यसे ॥६९५॥
इति भूनन्दाख्यायिका ॥१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-21T20:43:50.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hiemal

  • (of or relating to winter; wintry) शीत- 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.