TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विनयवत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


विनयवत्याख्यायिका
राजसूनोरिति वचः श्रुत्वा चित्रकथोऽब्रवीत् ।
अस्ति तक्षशिला नाम नगरी संपदां पदम् ॥११८॥
तस्यां चन्द्राक्षनामाभून्नृपतिर्धर्मभूषणः ।
मतिक्षीणः क्षमेवासीत्प्रिया तस्याचलप्रभा ॥११९॥
पुत्रकामः स नृपतिः शतपत्रशताष्टकम् ।
नित्यं ध्यात्वा श्रियंझ देवीं जुहावाग्नौ यतव्रतः ॥१२०॥
ततः कदाचिदेकोने प्राप्ते पद्मशताष्टके ।
अत्यन्तशूरो हृत्पद्मं विदार्य प्रददौ निजम् ॥१२१॥
अथ श्रीस्तस्य वरदा खङ्गधारानिवासिनी ।
तुष्टा दिदेश तनयं शेखरं सर्वभूभुजाम् ॥१२२॥
स पुष्कराक्षनामाभूच्छ्रीवरान्नृपतेः सुतः ।
धृतः पित्रा निजपदे लक्ष्मीसंक्रान्तिदर्पणः ॥१२३॥
स कदाचिन्मृगव्यायामुष्ट्रेण प्राप्तमन्तिकात् ।
ददर्श भोगिमिथुनं भीतं कारुण्यवादधीः ॥१२४॥
उष्ट्रं जघान बाणेन स भुजङ्गभयप्रदम् ।
उष्ट्ररूपं परित्यज्य स च व्योमचरोऽभवत् ॥१२५॥
सोऽ‍ब्रवीत्त्वत्प्रसादेन शापान्मुक्तः करोम्यहम् ।
प्रियं तथोपकारस्य पुष्कराक्ष यथोचितम् ॥१२६॥
आसीत्तारावली नाम दयिता रङ्कुमालिनः ।
विद्याधरी खेचरस्य रोहिणीवामृतत्विषः ॥१२७॥
स्वयंवरप्रिया पित्रा शप्ता साथ वियोगिनी ।  
चचार बालहरिणी यूथहीनेव कानने ॥१२८॥
प्रियेण रहिता साथ ययौ सुरभिकाननम् ।
विधाय भ्रमरीरूपं विलपन्तीव गुञ्जितैः ॥१२९॥
तस्या दयितसंकल्पाद्बीजं जम्बूतरोः स्वयम् ।  
प्रस्कन्नं कुसुमे तेन तत्कुले कन्यकाभवत् ॥१३०॥
कालेन तत्फलाहारी विजितासुर्महामुनिः ।
तां प्राप्य करुणासिन्धुः पुपोष तनयां शिवः ॥१३१॥
ततो विनयवत्याख्या सा प्राप्तवनयौवना ।
मुनेस्तस्याश्रमे दृष्टा मया ललितलोचना ॥१३२॥
तां हर्तुमुद्यतं यत्नान्मां शशाप मुनीश्वरः ।
रूपमत्तो विरूपां त्वमुष्ट्रतामेष्यसीति सः ॥१३३॥
निहतः पुष्कराक्षेण राज्ञा स्वां तनुमेष्यसि ।
भर्ता विनयव्त्याश्च स एव भविता नृपः ॥१३४॥
इत्येवं मुनिना शप्तो मोचितोऽद्य त्वया विभो ।
स्वस्त्यस्तु ते व्रजामीति स निगद्य दिवं ययौ ॥१३५॥
स्वपुरीं पुष्कराक्षोऽथ प्रविश्य स्मरतापितः ।
सचिवार्पितभूभारो ययौ प्राप्तुं मुनेः सुताम् ॥१३६॥
गौरीवरात्समुत्तीर्य सोऽब्धिं सिद्धतपोवने ।
विजितासुं मुनिं प्राप्य प्रणनाम स चाब्रवीत् ॥१३७॥
तवैव पूर्वदयिता कन्या विनयवत्यसौ ।
गृहाणेमां मया दत्तां वैजयन्तीं मनोभुवः ॥१३८॥
ताम्रलिप्तां वणिक्पूर्वं धर्मसेनो वधुसखः ।
चौरप्रहाररुग्णाङ्गो दीर्घरोगोऽग्निमाविशत् ॥१३९॥
स ह्म्समिथुनं व्योम्नि दृष्ट्वा तन्न्यस्तलोचनः ।
सभार्यः पञ्चतां प्राप्य प्रयातो राजहंसताम् ॥१४०॥
पर्यन्तवॄत्तिसंपत्त्या वियोगे देहजीवयोः ।
मनो निविशते यत्र तूर्णं याति तदात्मताम् ॥१४१॥
स राजहंसः प्रेयस्या सह फुल्लाब्जशोभिषु ।
सरोवरेषु लहरीकेलीदोलापितोऽभवत् ॥१४२॥
कनकाम्बुजजालेषु लीलाकण्डूयनेन सः ।
विललास विलासिन्या क्षणं कुटिलकन्धरः ॥१४३॥
मेघवातवियोगैश्च पुनर्दैवाच्च संगमैः ।
तयोर्दीर्घतरः कालो विषामृतमयो ययौ ॥१४४॥
कदाचिज्जालबद्धं सा तं प्रियं वीक्ष्य सारसी ।
जहार राजपुत्रस्य कस्यचिन्मणिसूत्रिकाम् ॥१४५॥
तदाशया परित्यज्य जालं यातेऽथ लुब्धके ।
( सुप्तं तरुतले दृष्ट्वा मर्कट्म साथ चिन्तयत् ॥१४६॥
भरेतुर्विमुक्त्युपायोऽयं प्राप्तो दिष्ट्या मयेत्यधः ) ।
दूरे रत्नावलीं त्यक्त्वा सा तुण्डेनादशत्कपिम् ॥१४७॥
स सुप्तस्ताडितो नेत्रे जालं सपदि मर्कटः ।
चिच्छेद तारचीत्कारो वह्निदग्ध इवोत्पलम् ॥१४८॥
छिन्नपाशे महाजाले सा हंसी प्रियसंगता ।
पद्माकरं जगामान्यं धिया वञ्चितलुब्धका ॥१४९॥
लुब्धकोऽप्यथ तां प्रपय रत्नमालां समागतः ।
दृष्टो राजसुतेनाराच्छङ्कितो विस्खलत्पध ॥१५०॥
परिज्ञाय निजां रत्नसूत्रिकां राजसूनुना ।
निर्गृहीतो न वा कस्य लोभात्प्राप्तं विनश्यति ॥१५१॥
कदाचिदथ हंसोऽसौ कमलं प्रियया सह ।
समादाय गतो व्योम्ना निषादेनेषुणा हतः ॥१५२॥
पद्मं तद्वदनभ्रष्टं गङ्गातीरे महामुनिः ।
कुण्डादस्यार्चने शंभुलिङ्गे छत्त्रमिवापत त् ॥१५३॥
स च हंसो निषादेन भुक्तो  हंसी च शूलिने ।
नैवेद्यं मुनिनानेन कल्पिता कर्मशक्तितः ॥१५४॥
ह्म्सस्त्वं भूपतिर्जातो पद्मपाताच्छिवार्चने ।
विद्याधरी च कन्येयं जाता शर्वनिवेदनात् ॥१५५॥
इत्येवं पूर्वभावेन कन्या विनयवत्यसौ ।
पर्यायभावसदृशी प्राणिनां सततं गतिः ॥१५६॥
नगर्यामेकलव्यायामेणकर्णाभिधो मुनिः ।
स्वयंभूशंभुनिलये तस्थौ जपपरायणः ॥१५७॥
देवदासी ततोऽभ्येत्य मदलीलाविलासिनी ।
चक्रे रूपवती नाम शंभोर्विजयवीजनम् ॥१५८॥
चामरानिलवित्रतो दह्यमानः क्रुधा मुनिः ।
सोऽभवद्भृकुटीभीमस्ततस्तं प्राह नर्तकी ॥१५९॥
भजस्व जपमेकाग्रो मुनीनां विक्रमागमः ।
शुभाशुभध्यानधिया भवत्येव भवभ्रमः ॥१६०॥
क्रोधधूमेन धवलं मा मनो म्लानतां नय ।
जपयज्ञे स्थितो ह्यस्मिंस्तच्चित्तस्तन्मना भव ॥१६१॥
तथा ह्यहं वणिक्पुत्री मुने जन्मान्तरे पुरा ।
( अकरं ब्रह्मचर्याय प्रतिज्ञां कन्यका सती ) ॥१६२॥
ततः कदाचित्सौधस्था नवयौवनशालिनी ।
कमलाकरनामानमपश्यं तरुणं द्विजम् ॥१६३॥
तदेकाग्रा मनोजन्मशरश्रेणीवशीकृता ।
नात्यजं ब्रह्मचर्यैकसंकल्पं दृढनिश्चया ॥१६४॥
स्मरयक्ष्मपरिक्षीणा ततोऽहं पञ्चतां गता ।
गन्धवत्याः परिसरे सरितः पितुराज्ञया ॥१६५॥
पुण्यतीर्थफलादस्मि सर्वज्ञा स्मर्चिन्तनात् ।
वेश्या यातेतिपर्यन्तचिन्ता तुल्यपुनर्भवा ॥१६६॥
जातिस्मरायाः श्रुत्वेति वचस्तस्या महामुनिः ।
बभूव विस्मयग्रस्तविकल्पघनडम्बरः ॥१६७॥
इत्युक्त्वा पुष्कराक्षस्य विजितासुः स्वयं ददौ ।
रङ्कुमालिनमाहूय तत्पुत्रीं तरलेक्षणाम् ॥१६८॥
विद्याधरीं समासाद्य रथं च व्योमगामिनम् ।
गत्वा स्वां नगरीं भेजे पुष्कराक्षो निजां श्रियम् ॥१६९॥
इति विनयवत्याख्यायिका ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-21T20:28:09.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मेहर

  • स्त्री. 
  • पु. सूर्य . - शर . [ सं . मित्र ; अवेस्ता मिथ्र ; फा . मिहिर ] 
  • कृपा ; दया ; दयादृष्टि इलाहीचे हुकुमें व बडेखान यांचे मेहेर आमचे जागा होती . - ब्रप ३०८ . 
  • कींव . - चित्रगुप्त ३४ . - पु . भर्तृदत्त विधवावेतन ; घटस्फोट करतांना पतीनें पत्नीस द्यावयाची करार केलेली रकम . [ फा . मिहर ] सामाशब्द - 
More meanings
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site