संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - बुद्धवर्गः चतुर्दशः

धर्मपदम्


यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ॥१॥
यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ  ॥२॥
ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः । देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥३॥
कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् । कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥४॥ सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥५॥
क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः । नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥६॥
अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः । मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् । अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥७॥
न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते । अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥८॥
अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति । तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥९॥
बहु वै शरणं यन्ति पर्वातांश्च वनानि च । आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥१०॥
नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् । नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥११॥
यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः । चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥१२॥
दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् । आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥१३॥
एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् । एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥१४॥
दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते । यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥१५॥
सुखो बुद्धानां उत्पादः सुखा सद्धर्म- देशना । सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥१६॥
पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् । प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥१७॥
तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् । न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥१८॥
॥इति बुद्धवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP