TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - मलवर्गोष्टादशः

धर्मपदम्


मलवर्गोष्टादशः
पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः । उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥१॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥२॥
उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके । वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥३॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥४॥
अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥५॥
अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति । एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥६॥
अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा । मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥७॥
मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् । मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥८॥
ततो मलं मलतरं अविद्या परमं मलम् । एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥९॥
सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना । प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥१०॥
ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा । अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥११॥
यः प्राणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥१२॥
सुरामैरेयपानं च यो नरोऽनुयुनक्ति । इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥
एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् । मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥१४॥
ददाति वै यथाश्रद्धं यथा प्रसादनं जनः । तत्र यो मूको भवति परेषां पानभोजने । न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१५॥
यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् । स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१६॥
नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः । नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥१७॥
सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् । परेषां हि स वद्यानि अवपुणाति यथातुषम् । आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥१८॥
परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः । आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥१९॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥२०॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥२१॥
॥इति मलवर्गः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:16.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

simple table

  • साधे कोष्टक 
  • साधे कोष्टक 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.