TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - सहस्रवर्गो अष्टमः

धर्मपदम्


सहस्रवर्गो अष्टमः
सहस्रमपि चेद् वाचोऽनर्थपदसंहिता । एकमर्थपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥१॥
सहस्रमपि चेद्गाथा अनर्त्थपदसंहिता । एकं गाथापदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥२॥
यश्च गाथाशतं भाषेतानर्थपदसंहिताः । एकं धर्मपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥३॥
यः सहस्रं सहस्रेण संग्रामे मानुषान् जयेत् । एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तमः ॥४॥
आत्मा ह वै जितः श्रेयान् या चेयमितरा प्रजा । दान्तात्मनः पुरुषस्य नित्यं संयतचारिणः ॥५॥
नैव देवो न गन्धर्वो न मारः सह ब्रह्मणा । जितं अपजितं कुर्यात् तथारूपस्य जन्तोः ॥६॥
मासे मासे सहस्रेण यो यजेत शतं समान् । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पुजना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥७॥
यश्च वर्षशतं जन्तुरग्निं परिचरेत् वने । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पूजना श्रेयसी यच्चेत् वर्षशतं हुतम् ॥८॥
यत् किञ्चिद् इष्टं च हुतं च लोके संवत्सरं यजेत पुण्यापेक्षः । सर्वमपि तन्न चतुर्भागमेति अभिवादना ऋजुगतेषु श्रेयसी ॥९॥
अभिवादनशीलस्य नित्त्यं वृद्धापचायिनः । चत्वारो धर्मा वर्धन्ते आयुर्वर्णः सुखं बलम् ॥१०॥
यश्च वर्षशतं जीवेत् दुःशीलोऽसमाहितः । एकाहं जीवितं श्रेयः शीलवतो ध्यायिनः ॥११॥
यश्च वर्षशतं जीवेत् दुष्प्रज्ञोऽसमाहितः । एकाहं जीवितं श्रेयः प्रज्ञावतो ध्यायिनः ॥१२॥
यञ्च वर्षशतं जीवेत् कुसीदो हीनवीर्यः । एकाहं जीवितं श्रेयः वीर्यमारभतो दृढम् ॥१३॥
यश्च वर्षशतं जीवेत् अपश्यन् उदयव्ययं एकाहं जीवितं श्रेयः पश्यतः उदयव्ययम् ॥१४॥
यश्च वर्षशतं जीवेत् अपश्यन्नमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतोऽमृतं पदम् ॥१५॥
यञ्च वर्षशतं जीवेदपश्यन् धर्ममुत्तमम् । एकाहं जीवितं श्रेयः पश्यतो धर्ममुत्तमम् ॥१६॥
॥इति सहस्रवर्गः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:16.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शेला पागोटें करणें

  • पोशाख करणें. 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.