संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - तृष्णावर्गः चतुर्विंशः

धर्मपदम्


मनुजस्य प्रमत्तचारिणः तृष्णा वर्द्धते मालुवेव । स प्लवतेऽहरहः फलमिच्छन् इव वने वानरः ॥१॥
यं एषा साहयति जन्मिनी तृष्णा लोके विषात्मिका । शोकास्तस्य प्रवर्द्धन्तेऽभिवर्द्धमानं वीरणम् ॥२॥
यश्चैतां साहयति जन्मिनीं तृष्णां लोके दुरत्ययाम् । शोकाः तस्मात् प्रपतन्त्युदबिन्दुरिव पुष्करात् ॥३॥
तद् वो वदामि भद्रं वो यावन्त इह समागताः । तृष्णाया मूलं खनतोशीरार्थीव वीरणम् ॥४॥
यथाऽपि मूलेऽनुपद्रवे दृढे छिन्नोऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णाऽनुशयेऽनिहते निर्वर्त्तते दुःखमिदं पुनः पुनः ॥५॥
यस्य षट्त्रिंशत् स्रोतांसि मनापश्रवणानि भूयासुः । वाहा वहन्ति दुर्दृष्टि सङ्कल्पा रागनिःसृताः ॥६॥
स्रवन्ति सर्वतः स्रोतांसि लतोद्भिद्य तिष्ठति । तां च दृष्ट्वा लतां जातां मूलं प्रज्ञया छिन्दत ॥७॥
सरितः स्निग्द्धाश्च सौमनस्या भवन्ति जन्तोः ते स्रोतःसृताः सुखैषिणस्ते वै जातिजरोपगा नराः ॥८॥
तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । संयोजनसंगसक्तका दुःखमुपयन्ति पुनः पुनः चिराय ॥९॥
तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । तस्मात् तृष्णां विनोदयेद् भिक्षुराकाङ्क्षी विरागमात्मानः ॥१०॥
यो निर्वणार्थी वनाऽधिमुक्तो वनमुक्तो वनमेव धावति । तुं पुद्गलमेव पश्यत मुक्तो बन्धनमेव धावति ॥११॥
न तद् दृढं बन्धनमाहुर्धीरा यद् आयसं दारुजं पर्वजं च । सारवद्- रक्ता मणिकुण्डलेषु पुत्रेषु दारेषु च याऽपेक्षा ॥१२॥
एतद् दृढं बन्धनमाहुर्धीरा अपहारि शिथिलं दुष्प्रमोचम् । एतदपि छित्त्वा परिव्रजन्ति अनपेक्षिणः कामसुखं प्रहाय ॥१३॥
ये रागरक्ता अनुपतन्ति स्रोतः स्वयंकृतं मर्कटक इव जालम् । एतदपि छित्त्वा व्रजन्ति धीरा अनपेक्षिणः सर्वदुःखं प्रहाय ॥१४॥
मुञ्च पुरो मुञ्च पश्चात् मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनः जातिजरे उपैपि ॥१५॥
वितर्कप्रमथितस्य जन्तोः तीव्ररागस्य शुभाऽनुदर्शिनः । भूयः तृष्णा प्रवर्द्धते एष खलु दृढं करोति बन्धनम् ॥१६॥
वितर्कोपशमे च यो रतोऽशुभं भावयते सदा स्मॄतः । एष खलु व्यन्तीकरिष्यति एष छेत्स्यति मारबन्धनम् ॥१७॥
निष्ठांगतोऽसंत्रासी वीततृष्णोऽनंगणः । उत्सृज्य भवशल्यानि अन्तिमोऽयं समुछ्रयः ॥१८॥
वीततृष्णोऽनादानो निरुक्तिपदकोविदो । अक्षराणां सन्निपातं जानाति पूर्वापराणि च । स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते॥१९॥
सर्वाभिभूः सर्वविदहमस्मि सर्वेषु धर्मेषु अनुपलिप्तः । सर्वंजहः तृष्णाक्षये विमुक्तः स्वयमभिप्राय कमुद्दिशेयम् ॥२०॥
सर्वदानं धर्मदानं जयति सर्वरसं धर्मरसो जयति । सर्वां रतिं धर्मरतिर्जयति तृष्णाक्षयः सर्वदुःखं जयति ॥२१॥
घ्नन्ति भोग दुर्मेधसं न चेत् पारगवेषिणः । भोगतृष्णया दुर्मेधा हन्त्यन्य इवात्मानः ॥२२॥
तृणदोषाणि क्षेत्राणि रागदोषेयं प्रजा । तस्माद्धि वीतरागेषु दत्तं भवति महाफलम् ॥२३॥
तृणदोषाणि क्षेत्राणि द्वेषदोषेयं प्रजा । तस्माद्धि वीतदोषेषु दत्तं भवति महाफलम् ॥२४॥
तृणदोषाणि क्षेत्राणि मोहदोषेयं प्रजा । तस्माद्धि वीतमोहेषु दत्तं भवति महाफलम् ॥२५॥
तृणदोषाणि क्षेत्राणि इच्छादोषेयं प्रजा । तस्माद्धि विगतेच्छेषु दत्तं भवति महाफलम् ॥२६॥

॥इति तृष्णावर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP