TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - यमकवर्गः प्रथमः

धर्मपदम्

यमकवर्गः प्रथमः
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रदुष्टेन भाषते वा करोति वा । ततो एनं दुःखमन्वेति चक्रमिव वहतः पदम् ॥१॥
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रसन्नेन भाषते वा करोति वा । तत एनं सुखमन्वेति छायेवानपायिनी ॥२॥
अक्रोशित् मां अवधी मां अजैषीत् मां अहार्षीत् मे । ये च तदुपनह्यन्ति वैरं तेषां न शाम्यति ॥३॥
अक्रोशित् मां अवधीत् मां अजैषीत् मां अहार्षीत् मे । ये तन्नोपनह्यन्ति वैरं तेषूपशाम्यति ॥४॥
नहि वैरेण वैराणी शाम्यन्तीह कदाचन । अवैरेण च शाम्यन्ति एष धर्मः सनातनः ॥५॥
परे च न विजानन्ति वयमत्र यंस्यामः । ये च तत्र विजानन्ति ततः शाम्यन्ति मेधगाः ॥६॥
शुभमनुपश्यन्तं विहरन्तमिन्द्रियेषु असंवृतम् । भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यम् । तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम् ॥७॥
अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम् । भोजने च मात्राज्ञं श्रद्धमाराब्धवीर्यम् । तं वै न प्रसहते मारो वातः शैलमिव पर्वतम् ॥८॥
अनिष्कषायः काषायं यो वस्त्रं परिधास्यति । अपेतो दमसत्याभ्यां न स काषायमर्हति ॥९॥
यश्च वान्तकषायः स्यात् शीलेषु सुसमाहितः । उपेतो दम- सत्याभ्यां स वै काषायमर्हति ॥१०॥
असारे सारमतयः सारे चासारदर्शिनः । ते सारं नाधिगच्छन्ति मिथ्यासङ्कल्पगोचराः ॥११॥
सारं च सारतो ज्ञात्वा असारं च असारतः । ते सारं अधिगच्छन्ति सम्यक्- सङ्कल्प- गोचराः ॥१२॥
यथागारं दुश्छन्नं वृष्टिः समतिविध्यति । एवं अभावितं चित्तं रागः समतिविध्यति ॥१३॥
यथागारं सुच्छन्नं वृष्टिर्न समति विध्यति । एवं सुभावितं चित्तं रागो न समति विध्यति ॥१४॥
इह शोचति प्रेत्त्य शोचति पापकारी उभयत्र शोचति । स शोचति स विहन्यते दृष्ट्वा कर्म क्लिष्टमात्मनः ॥१५॥
इह मोदते प्रेत्त्य मोदते कृतपुण्य उभयत्र मोदते । स मोदते स प्रमोदते दृष्ट्वा कर्मविशुद्धिमात्मनः ॥१६॥
इह तप्यति प्रेत्त्य तप्यति पापकारी उभयत्र तप्यति । पापं मे कृतमिति तप्यति भूयस्तप्यति दुर्गतिंगतः ॥१७॥
इह नन्दति प्रेत्य नन्दति कृतपुण्य उभयत्र नन्दति । पुण्यं मे कृतमिति नन्दति भूयो नन्दति सुगतिंगतः ॥१८॥ बह्यीमपि संहितां भाषमाणः न तत्करो भवति नरः प्रमत्तः । गोप इव गा गणयन् परेषां न भागवान् श्रामण्यस्य भवति ॥१९॥
अल्पमपि संहितां भाषमाणो धर्मस्य भवत्यनुधर्मचारी । रागं च द्वेषं च प्रहाय मोहं सम्यक् प्रजानन् सुविमुक्तचित्तः । अनुपाददानः इह वाऽमुत्र वा स भागवान् श्रामण्यस्य भवति ॥२०॥
॥इति यमकवर्गः समाप्तः ॥

Translation - भाषांतर

Last Updated : 2016-11-11T11:54:16.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दक्षता

  • f  Ability, capacity; dexterity. 
RANDOM WORD

Did you know?

मृतव्यक्तीच्या तेराव्याच्या जेवणात कोणकोणते पदार्थ करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.