संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - प्रियवर्गः षोडशः

धर्मपदम्


अयोगे युञ्जन्नात्मानं योगे चायोजयन् । अर्थं हित्त्वा प्रियग्राही स्पृहयेदात्मानुयोगिनम् ॥१॥
मा प्रियैः समागच्छ अप्रियैः कदाचन प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥२॥
तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः । ग्रन्थाः तेषां न विद्यन्ते येषां नाऽस्ति प्रियाप्रियम् ॥३॥
प्रियतो जायते शोकः प्रियतो जायते भयम् । प्रियतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥४॥
प्रेमतो जायते शोकः प्रेमतो जायते भयम् । प्रेमतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥५॥
रत्या जायते शोको रत्या जायते भयम् । रत्या विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥६॥
कामतो जायते शोकः कामतो जायते भयम् । कामतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥७॥
तृष्णाया जायते शोकः तृष्णाया जायते भयम् । तृष्णाया विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥८॥ शीलदर्शनसम्पन्नं धर्मिष्ठं सत्यवादिनम् । आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥९॥
छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात् । कामेषु चाऽप्रतिबद्धचित्त ऊर्ध्वस्रोता इत्युच्यते ॥१०॥
चिरप्रवासिनं पुरुषं दूरतः स्वस्त्यागतम् । ज्ञातिमित्राणि सुहृदश्चाऽभिनन्दन्त्यागतम् ॥११॥
तथैव कृतपुण्यमपि अस्माल्लोकात्परं गतम् । पुण्यानि प्रतिगृह्यन्ति प्रियं ज्ञातिभिवागतम् ॥१२॥
॥इति प्रियवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP