TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - प्रकीर्णकवर्गः एकविंशः

धर्मपदम्


प्रकीर्णकवर्गः एकविंशः
मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम् ॥१॥
परदुःखोपादानेन य आत्मनः सुखमिच्छति । वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥२॥
यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः। उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥३॥
येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः । अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः । सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥४॥
मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ । राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥५॥
मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ । व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥६॥
सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥७॥
सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥८॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥९॥
सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥११॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च भावनायां रतं मनः ॥१२॥
दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् । दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः । तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥१३॥
श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः । यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥१४॥
दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः । असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥१५॥
एकासन एकशय्य एकश्चरन्नतन्द्रितः । एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥१६॥

॥इति प्रकीर्णकवर्गः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:16.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उलणें

  • अ.क्रि. 
  • ( शब्दश : व ल . ) उकलणें ; दुभंगणें ; फांकणें ; उतटणें ; भेगा पडणें ; भेगळणें ; आंतील नेटानें फाटणें ( जमीन , शरीर , फळ इ० ). वसंतें उल्हास तरुवरां । उलोनि लागल्या स्वानंदधारा । - एभा १२ . १५ . तरि इष्टव्यसनघना घातशतें तूं नृपा न उलतास । - मोकर्ण ३ . ४६ . पिता सांगे हितावबोध । म्हणे हा सन्निपातला वृद्ध । ह्रदय उले ऐसा बोले शब्द । त्याच्या भारें दु : खी धरा ॥ - ह २७ . १३२ . 
  • v t  Crack or open, break into clefts and fissures. 
  • ( ल . ) उचंबळून येणें ; पाझर फुटणें ; सद्गदित होणें . श्रीकृष्ण मथुरेसी जाईल । प्रेमाचा सागर उचंबळेल । ते कथा ऐकतां ह्रदय उलेल । प्रेमळ सद्भाविकांचें । - ह १७ . २१६ . [ सं . उत + लू = कांपणें ; दे . उल्लक्क = भग्न , फुटलेलें ] 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site