संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - बालवर्गः पञ्चमः

धर्मपदम्


दीर्घा जाग्रतो रात्रिः दीर्घं श्रान्तस्य योजनम् । दीर्घो बालानां संसारः सद्धर्मं अविजानताम् ॥१॥
चरन् चेत् नाधिगच्छेत् श्रेयांसं सदृशं आत्मनः । एकचर्यां दृढं कुर्यात् नाऽस्ति बाले सहायता ॥२॥
पुत्रा मे सन्ति धनं मेऽस्ति इति बालो विहन्यते । आत्मा ह्यात्मनो नाऽस्ति कुतः पुत्राः कुतो धनम् ॥३॥
यो बालो मन्यते बाल्यं पण्डितश्चापि तेन स । बालश्च पण्डितमानी स वै बाल इत्युच्यते ॥४॥
यावज्जीवमपि चेद् बालः पण्डितं पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसं यथा ॥५॥
मुहूर्त्तमपि चेद् विज्ञाः पण्डितं पर्युपासते । क्षिप्रं धर्मं विजानाति जिह्वा सूपरसं यथा ॥६॥
चरन्ति बाला दुर्मेधसोऽमित्रेणैवात्मना । कुर्वन्तः पापकं कर्मं यद्भवति कटुकफलम् ॥७॥
न तत् कर्म कृतं साधु यत् कृत्त्वाऽनुतप्यते । यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥८॥
तच्च कर्मं कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमन विपाकं प्रतिसेवते ॥९॥
मध्विव मन्यते बालो यावत् पापं न पच्यते । यदा च पच्यते पापं अथ बालो दुःखं निगच्छति ॥१०॥
मासे मासे कुशाग्रेण बालो भुञ्जीत भोजनम् । न स संख्यातधर्माणां कलामर्हति षोडशीम् ॥११॥
नहि पापं कृतं कर्म सद्यः क्षीरमिव मुञ्चति । दहन् बालमन्वेति भस्मच्छन्न इव पावकः ॥१२॥
यावदेव अनर्थाय ज्ञप्तं बालस्य जायते । हन्ति बालस्य शुक्लांशं मूर्द्धानमस्य विपातयन् ॥१३॥
असद् भवनमिच्छेत् पुरस्कारं च भिक्षुषु । आवासेषु चैश्वर्यं पूजां परकुलेषु च ॥१४॥
ममैव कृतं मन्येतां गृहि- प्रव्रजितावुभौ । ममैवातिवशाः स्यातां कृत्याकृत्येषु कषु चित् । इति बालस्य सङ्कल्प इच्छा मानश्च वर्द्धते ॥१५॥
अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनि । एवमेतद् अभिज्ञाय भिक्षुर्बुद्धस्य श्रावकः । सत्कारं नाभिनन्देत् विवेकमनुबृंहयेत् ॥१६॥
॥इति बालवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP