TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चिकित्सास्थान - रसायनाध्याय ३

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


रसायनाध्याय ३
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः ॥६-१.३.१॥

इति ह स्माह भगवानात्रेयः ॥६-१.३.२॥

आयुर्वेददीपिका


आमलकरसायनत्वसाम्याद् अनन्तरं करप्रचितीय उच्यते ॥१॥


करप्रचितानां यथोक्तगुणानाम् आमलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानाम् आढकम् एकं ग्राहयेत् अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानाम् औषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानाम् अभयाविभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत् तस्मिन्नाढकावशेषे रसे सुपूते तान्य् आमलकचूर्णानि दत्त्वा गोमयाग्निभिर् वंशविदलशरतेजनाग्निभिर् वा साधयेद् यावद् अपनयाद्रसस्य तम् अनुपदग्धम् उपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत् सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टम् अयःस्थाल्यां निधापयेत् सम्यक् तच्चूर्णम् अयश् चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्याम् अग्निबलम् अभिसमीक्ष्य प्रयोजयेदिति ॥६-१.३.३॥

एतद्रसायनं पूर्वं वसिष्ठः कश्यपो ऽङ्गिराः ।
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ॥६-१.३.४॥

प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात् ।
यावद् ऐच्छंस् तपस्तेपुस् तत्प्रभावान्महाबलाः ॥६-१.३.५॥

इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम् ।
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ॥६-१.३.६॥

आयुर्वेददीपिका


करप्रचितानामितिपदं स्वयंपतितग्रहणं निषेधयति ॥१॥

माघे फाल्गुने वेतिग्रहणवचनात् तथैव गृहीतानामधिकार इत्यागमादुन्नीयते ॥२॥

स्वरस इहामलकस्यैव भवति अधिकारात् ॥३॥

शाकः बृहत्पत्त्रस् तरुः ॥४॥

कृत्तानामिति छिन्नानाम् ॥५॥

इह गोमयाग्न्याद्युपकरणनियमेनैव शक्त्युत्कर्षो भवतीति ऋषिवचनाद् उन्नीयते ॥६॥

यदुक्तम् ऋषयस् त्व् एव जानन्ति योगसंयोगजं फलम् इति ॥७॥

एवमन्यत्रापि इतिकर्तव्यतानियमो व्याख्येयः ॥८॥

कृष्णाजिनस्येति कृष्णसाराजिनस्य ॥९॥


तपसा ब्रह्मचर्येण यानेन प्रशमेन च ।
रसायनविधानेन कालयुक्तेन चायुषा ॥६-१.३.७॥

स्थिता महर्षयः पूर्वं नहि किंचिद् रसायनम् ।
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ॥६-१.३.८॥

आयुर्वेददीपिका


सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह तपसेत्यादि ॥१॥

कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तम् एव ॥२॥

स्थिता इति दीर्घकालजीविनः ॥३॥

विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलताम् आह न हीत्यादि ॥४॥


संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा ।
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः ॥६-१.३.९॥

संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम् ।
त्र्यहोषवासी शुक्लस्य प्रविश्यामलकीवनम् ॥६-१.३.१०॥

बृहत्फलाढ्यम् आरुह्य द्रुमं शाखागतं फलम् ।
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ॥६-१.३.११॥

तदा ह्य् अवश्यममृतं वसत्यामलके क्षणम् ।
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥६-१.३.१२॥

भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् ।
जीवेद् वर्षसहस्राणि तावन्त्यागतयौवनः ॥६-१.३.१३॥

सौहित्यमेषां गत्वा तु भवत्यमरसंनिभः ।
स्वयं चास्योपतिष्ठन्ते श्रीर् वेदा वाक्च रूपिणी ॥६-१.३.१४॥

आयुर्वेददीपिका


ब्रह्मचारित्वेनेन्द्रियनियमे लब्धे ऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशयोपदर्शनार्थः ॥१॥

पौषादिषु संवत्सरान्तत्वं नियमदिनादारभ्य वर्षपूरणेन ज्ञेयम् ॥२॥

फाल्गुनीम् इत्यस्यान्ते प्राप्येति शेषः ॥३॥

न द्रुममारोहेत् इत्यस्येह आरुह्य द्रुममिति वचनेनापवादः ॥४॥

जपन् ब्रह्मेति ओंकारं जपन् ॥५॥

अमृतागमादिति अमृतागमपर्यन्तम् ॥६॥

सौहित्यमेषामिति करणे षष्ठी ॥७॥

वाग्रूपिणीति तदधिष्ठात्री देवता ॥८॥


त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे ।
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥६-१.३.१५॥

तीक्ष्णायसस्य पत्त्राणि वह्निवर्णानि साधयेत् ।
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥६-१.३.१६॥

ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् ।
तानि चूर्णानि मधुना रसेनामलकस्य च ॥६-१.३.१७॥

युक्तानि लेहवत्कुम्भे स्थितानि घृतभाविते ।
संवत्सरं निधेयानि यवपल्ले तथैव च ॥६-१.३.१८॥

दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः ।
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥६-१.३.१९॥

प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् ।
एष एव च लौहानां प्रयोगः संप्रकीर्तितः ॥६-१.३.२०॥

नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना ।
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः ॥६-१.३.२१॥

धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः ।
भवेत्समां प्रयुञ्जानो नरो लौहरसायनम् ॥६-१.३.२२॥

अनेनैव विधानेन हेम्नश्च रजतस्य च ।
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥६-१.३.२३॥

आयुर्वेददीपिका


क्षार इति परिस्रावितक्षारोदके ॥१॥

क्षारे लावण इति ज्योतिष्मत्याः क्षारे ॥२॥

साधयेद् इति निर्वापयेत् ॥३॥

लौहानामित्यनेनैव लोहान्तर्निविष्टयोः सुवर्णरजतयोर् ग्रहणे सिद्धे पुनस् तयोर् वचनं तयोर् विशेषेणादरोपदर्शनार्थम् ॥४॥

रसायनप्रभावाद् एव महाधनत्वम् इति ज्ञेयम् ॥५॥


ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला ।
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥६-१.३.२४॥

एषां त्रियवकान् भागान् हेमसर्पिर्विषैर् विना ।
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च ॥६-१.३.२५॥

सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत् ।
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ॥६-१.३.२६॥

जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् ।
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् ॥६-१.३.२७॥

परमोजस्करं चैतत्सिद्धमैन्द्रं रसायनम् ।
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् ॥६-१.३.२८॥

श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च ।
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ॥६-१.३.२९॥

आयुर्वेददीपिका


मत्स्याख्यको मच्छु इति लोके ख्यातः अन्ये तु ऐन्द्रीभेदं मत्स्याख्यकम् आहुः ॥१॥

त्रियवकानिति त्रियवप्रमाणान् ॥२॥

घृतप्रभूतम् इत्यन्नविशेषणम् ॥३॥

कृत्या अभिचारः ॥४॥


मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥६-१.३.३०॥

आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥६-१.३.३१॥

आयुर्वेददीपिका


मण्डूकपर्ण्या इत्यादयश् चत्वारो योगाः ॥१॥


पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥६-१.३.३२॥

तिस्रस्तिस्रस्तु पूर्वाह्णं भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥६-१.३.३३॥

प्रयोज्या मधुरसम्मिश्रा रसायनगुणैषिणा ।
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ॥६-१.३.३४॥

अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ।
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ॥६-१.३.३५॥

आयुर्वेददीपिका


पञ्चेत्यादौ संख्याव्यतिक्रमेणानुक्तसंख्यानाम् अपि पिप्पलीनाम् उपयोगं सूचयति ॥१॥

यदापि त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पलीं क्षारं लवणम् इत्युक्तं तथापीह द्रव्यान्तरसंयुक्तानां पिप्पलीनाम् अभ्यासो न विरुद्धः किंवा उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात् स निषेधो ज्ञेयः ॥२॥

किंशुकः पलाशः ॥३॥


क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् ।
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ॥६-१.३.३६॥

जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ।
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ॥६-१.३.३७॥

पिष्टास् ता बलिभिः सेव्याः शृता मध्यबलैर् नरैः ।
चूर्णीकृता ह्रस्वबलैर् योज्या दोषामयान् प्रति ॥६-१.३.३८॥

दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः ।
प्रयोगो यस् त्रिपर्यन्तः स कनीयान् स चाबलैः ॥६-१.३.३९॥

बृंहणं स्वर्यम् आयुष्यं प्लीहोदरविनाशनम् ।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥६-१.३.४०॥

जरणान्ते ऽभयाम् एकां प्राग्भुक्ताद् द्वे विभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥६-१.३.४१॥

प्रयोजयन् समाम् एकां त्रिफलाया रसायनम् ।
जीवेद् वर्षशतं पूर्णम् अजरो ऽव्याधिरेव च ॥६-१.३.४२॥

त्रैफलेनायसीं पात्रीं कल्केनालेपयेन् नवाम् ।
तम् अहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ॥६-१.३.४३॥

प्रभूतस्नेहम् अशनं जीर्णे तत्र प्रशस्यते ।
अजरो ऽरुक् समाभ्यासाज् जीवेच् चैव समाः शतम् ॥६-१.३.४४॥

मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा ।
त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥६-१.३.४५॥

सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा ।
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ॥६-१.३.४६॥

संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा ।
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ॥६-१.३.४७॥

अनम्लं च कषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥६-१.३.४८॥

हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि ।
रसायनं तद्विधिभिस्तद् वृष्यं तच्च रोगनुत् ॥६-१.३.४९॥

वातपित्तकफघ्नैश्च निर्यूहैस्तत्सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैरेकैकशो ऽपि वा ॥६-१.३.५०॥

आयुर्वेददीपिका


शिलाजतुरसायनं दर्शयितुं शिलाजतुनो ऽभ्यर्हितस्य गुणानेव तावदाह अनम्लम् इत्यादि ॥१॥

वरादिति श्रेष्ठात् ॥२॥

सुश्रुते यद्यपि त्रपुसीसम्भवं प्रक्षिप्य षड्विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तं तथापीह रसायनाधिकारे तदधिकृतचतुर्विधम् एवोक्तम् ॥३॥


प्रक्षिप्तोद्धृतम् अप्य् एनत् पुनस् तत् प्रक्षिपेद् रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ॥६-१.३.५१॥

पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ॥६-१.३.५२॥

जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥६-१.३.५३॥

प्रयोगः सप्तसप्ताहास् त्रयश् चैकश्च सप्तकः ।
निर्दिष्टस् त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥६-१.३.५४॥

पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता ।

आयुर्वेददीपिका


शिलाजतुभावनाविधिम् आह प्रक्षिप्तेत्यादि ॥१॥

प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम् ॥२॥

लौहैः सहेति भागानियमे लोहसमानभागता शिलाजतुनः ॥३॥

प्रयोगः सप्तसप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः एवं त्रयश् चैकश्च सप्तक इत्यत्रापि बोद्धव्यम् ॥४॥


जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ॥६-१.३.५५॥

हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥६-१.३.५६॥

मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥६-१.३.५७॥

रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते ।
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ॥६-१.३.५८॥

यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥६-१.३.५९॥

गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥६-१.३.६०॥

यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ॥६-१.३.६१॥

आयुर्वेददीपिका


सविधिम् इति विधानसहितम् ॥१॥

शिलाजतुविधानं च यथाक्रमं वातपित्ते इत्यादिग्रन्थेन वक्तव्यम् ॥२॥

हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते यतो न साक्षात् सुवर्णादिभ्य एव शिलाजतु स्रवति ॥३॥

मृत्स्नं मसृणम् अच्छं स्वच्छम् ॥४॥

यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादुः पाक उक्तः स उत्सर्गापवादन्यायेन ज्ञेयः ॥५॥

वीर्यं तु ताम्रभवस्योष्णस्य तथा त्रयाणां च शीतत्वयुक्तानाम् अत्युष्णशीतवीर्यताया अवकाशो नास्ति अतः सामान्यगुणकथने नात्युष्णशीतम् इतिपदेन उष्णस्य शीतस्य च वीर्यस्य प्रकर्षो निषिध्यते तेनानुष्णाशीतत्वं विधीयते ततश्च शिलाजतुनि वीर्यं शीतम् उष्णं वाभिहितमपि न बलवद्भवतीति लभ्यते ॥६॥


शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं तु कुलत्थान्परिवर्जयेत् ॥६-१.३.६२॥

ते ह्य् अत्यन्तविरुद्धत्वाद् अश्मनो भेदनाः परम् ।
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ॥६-१.३.६३॥

पयांसि तक्राणि रसाः सयूषास् तोयं समूत्रा विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास् ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥६-१.३.६४॥

न सो ऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य ।
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ॥६-१.३.६५॥

करप्रचितिके पादे दश षट् च महर्षिणा ।
रसायनानां सिद्धानां संयोगाः समुदाहृताः ॥६-१.३.६६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः ॥६-१.३.६७॥

आयुर्वेददीपिका


शिलाजतुप्रयोगेष्विति बहुवचनमालोडनादिभेदेन प्रयोगभेदं बुद्धिस्थीकृत्य ज्ञेयम् ॥१॥

शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात् क्षीरादिप्रयोगः ॥२॥

सर्वकालमिति यावद्रसायनाहिता गुणाः सन्ति ॥३॥

केचित् तु यावज्जीवं कुलत्थवर्जनम् आहुः यदुक्तं सुश्रुते तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् इति ॥४॥

शिलाजतुप्रयोगं स्तौति न सो ऽस्तीत्यादि ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

productive work

  • उत्पादक कार्य 
RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site