Would you like to browse our mobile friendly website? Mobile site
TransLiteral Foundation

चिकित्सास्थान - वाजीकरणाध्याय २

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


वाजीकरणाध्याय २
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः ॥६-२.२.१॥

इति ह स्माह भगवानात्रेयः ॥६-२.२.२॥

आयुर्वेददीपिका


आसिक्तक्षीरिकं वृष्यपादाभिधानप्रसङ्गात् पदान्तस्य विशिष्टसम्बन्धावयवतयोच्यते ॥१॥

आसिक्तक्षीरमिति पदम् अस्त्य् अस्मिन्न् इति आसिक्तक्षीरी तत्र स्वार्थिकः कप्रत्ययः किंवा ढक्प्रत्ययेन वैशेषिकशब्दवत् आसिक्तक्षीरिक इति साधनीयम् ॥२॥


आसिक्तक्षीरम् आपूर्णम् अशुष्कं शुद्धषष्टिकम् ।
उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम् ॥६-२.२.३॥

गृहीत्वा तं रसं पूतं गव्येन पयसा सह ।
बीजानामात्मगुप्ताया धान्यमाषरसेन च ॥६-२.२.४॥

बलायाः शूर्पपर्ण्याश्च जीवन्त्या जीवकस्य च ।
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ॥६-२.२.५॥

शतावर्या विदार्याश्च द्राक्षाखर्जूरयोर् अपि ।
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ॥६-२.२.६॥

तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च ।
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ॥६-२.२.७॥

सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम् ।
गुटिका बदरैस्तुल्यास्ताश् च सर्पिषि भर्जयेत् ॥६-२.२.८॥

ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः ।
पश्यत्यपत्यं विपुलं वृद्धो ऽप्यात्मजमक्षयम् ॥६-२.२.९॥

आयुर्वेददीपिका


आसिक्तक्षीरमिति क्षीरसेकवृद्धम् ॥१॥

यदुक्तं जतूकर्णे ।
क्षीरसेकवृद्धं षष्टिकं पक्वम् इत्यादि ॥२॥

शुद्धषष्टिकमिति गौरषष्टिकम् ॥३॥

अत्र बलादिरसानां तुल्यमानताः किंवा मात्राशब्दस्याल्पवचनत्वाद् बलादिरसानाम् अल्पमात्रत्वम् ॥४॥

प्रक्षेप्यचूर्णप्रमाणम् आह यैः स सान्द्रीभवेद् रस इति यावन्मानेन चूर्णेन रसस्य सान्द्रता भवति तावन्मात्रं चूर्णं ग्राह्यम् ॥५॥

प्रभूतत्वं मधुशर्करयोर् यावतात्यर्थमधुरत्वं स्यात् तावज्ज्ञेयम् ॥६॥

अत्र च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जनक्रियायाम् अग्निसंयोगो न विरोधम् आवहति तथा हि सुश्रुते ऽपि त्रिफलायस्कृतौ मधुनो ऽग्निसम्बन्धो भवत्येव ॥७॥

आत्मजमिति हर्षभूतात्मजं शुक्रमिति यावत् ॥८॥


चटकानां सहंसानां दक्षाणां शिखिनां तथा ।
शिशुमारस्य नक्रस्य भिषक्शुक्राणि संहरेत् ॥६-२.२.१०॥

गव्यं सर्पिर् वराहस्य कुलिङ्गस्य वसामपि ।
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ॥६-२.२.११॥

एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा ।
पूपा धानाश् च विविधा भक्ष्याश्चान्ये पृथग्विधाः ॥६-२.२.१२॥

एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ।
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः ॥६-२.२.१३॥

आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् ।
शृङ्गाटकानि मृद्वीकां साधयेत्प्रसृतोन्मितम् ॥६-२.२.१४॥

क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम् ।
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस् त्रिभिः ॥६-२.२.१५॥

शर्करायास्तुगाक्षीर्याः सर्पिषो ऽभिनवस्य च ।
तत् पाययेत् सक्षौद्रं षष्टिकान्नं च भोजयेत् ॥६-२.२.१६॥

जरापरीतोऽप्यबलो योगेनानेन विन्दति ।
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ॥६-२.२.१७॥

आयुर्वेददीपिका


दक्षः कुक्कुटः ॥१॥

शुक्राणीति यद्यप्युक्तं तथापि चटकादिशुक्रग्रहणस्याशक्यत्वात् समानगुणानि तदण्डान्यपीह गृह्यन्ते ॥२॥

वर्तिका वर्त्याकारा भक्ष्याः ॥३॥

धाना इति धानाकारा भक्ष्याः ॥४॥

अयं तुल्यद्रव्यतया विविधभक्ष्यरूपो ऽप्येक एव योगः ॥५॥


खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम् ।
खर्जूराणि मधूकानि मृद्वीकामजडाफलम् ॥६-२.२.१८॥

पलोन्मितानि मतिमान् साधयेत् सलिलाढके ।
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत् ॥६-२.२.१९॥

क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम् ।
सशर्करेण संयोग एष वृष्यः परं स्मृतः ॥६-२.२.२०॥

आयुर्वेददीपिका


अजडा शूकशिम्बी ॥१॥


जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम् ।
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् ॥६-२.२.२१॥

शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम् ।
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ॥६-२.२.२२॥

षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् ।
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणम् उत्तमम् ॥६-२.२.२३॥

आयुर्वेददीपिका


जीवकेत्यादौ विदार्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साधनीयम् ॥१॥


दध्नः सरं शरच्चन्द्रसंनिभं दोषवर्जितम् ।
शर्कराक्षौद्रमरिचैस् तुगाक्षीर्या च बुद्धिमान् ॥६-२.२.२४॥

युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे ।
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ॥६-२.२.२५॥

पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् ।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥६-२.२.२६॥

आयुर्वेददीपिका


युक्त्येति यथा कटुत्वाद्यधिकं न भवति तथा मरिचादियोगः कर्तव्यः ॥१॥

मार्जितमिति सुघृष्टम् ॥२॥

रसालालक्षणं सचातुर्जातकाजाजि सगुडार्द्रकनागरम् ॥३॥

रसाला स्याच्छिखरिणी सुघृष्टं ससरं दधि इति ॥४॥


चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम् ।
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते ॥६-२.२.२७॥

तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम् ।
युक्तं षष्टिकचूर्णेन सर्पिषाभिनवेन च ॥६-२.२.२८॥

पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः ।
य इच्छेदश्ववद् गन्तुं प्रसेक्तुं गजवच् च यः ॥६-२.२.२९॥

आयुर्वेददीपिका


चन्द्रांशुकल्पमिति अत्यर्थशुक्लम् ॥१॥


एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः ।
हर्षान्वितो वाजिवद् अष्टवर्षो भवेत् समर्थश्च वराङ्गनासु ॥६-२.२.३०॥

यद्यच्च किंचिन् मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः ।
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ॥६-२.२.३१॥

आयुर्वेददीपिका


अत्र योग्यम् इति वृष्यप्रयोगसमर्थम् ॥१॥


आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः ।
अष्टाव् अपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ॥६-२.२.३२॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः ॥६-२.२.३३॥

आयुर्वेददीपिका


पौरुषार्थिभिरिति शुक्रार्थिभिः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

(एखाद्या कार्याचा) ताव येणें

  • एखादे कार्य करण्याबद्दल इसळी, सुरसुरी येणें. 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site