चिकित्सास्थान - रसायनाध्याय १

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


अथातो ऽभयामलकीयं रसायनपादं व्याख्यास्यामः ॥६-१.१॥

इति ह स्माह भगवानात्रेयः ॥६-१.२॥

आयुर्वेददीपिका


पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानम् उच्यते ॥१॥

रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते तथानन्तरम् एव वक्ष्यति ॥२॥

तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर् महाफलत्वेनादाव् अभिधानम् ॥३॥

तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलम् इति तद् अभिधीयते तत्रापि चाभयामलकीयश् चिकित्सास्थानार्थसूत्राभिधायकतयाग्रे ऽभिधीयते ॥४॥


चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥६-१.३॥



आयुर्वेददीपिका


तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह चिकित्सितम् इत्यादि ॥१॥

करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं यथानिदाने हेतुरूपादिपर्यायकथनम् ॥२॥

एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य यदुक्तं चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते इति ॥३॥

एवंभूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम् ॥४॥

प्रायश्चित्तम् इति भेषजसंज्ञा प्रायश्चित्तवद् भेषजस्याधर्मकार्यव्याधिहरत्वेन ॥५॥


विद्याद् भेषजनामानि भेषजं द्विविधं च तत् ।
स्वस्थस्योर्जस्करं किंचित् किंचिदार्तस्य रोगनुत् ॥६-१.४॥

आयुर्वेददीपिका


द्वैविध्यं विवृणोति स्वस्थस्येत्यादि ॥१॥

किंचिदिति न सर्वम् ॥२॥

स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाप्रहर्षव्ययायक्षयित्वानुचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावम् आदधातीति स्वस्थस्योर्जस्करम् ॥३॥

आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनार्तस्य ज्वरादिहरम् ॥४॥

रोगनुद् इति वचनेनैवार्तविशेषितायां लब्धायां यद् आर्तस्य इति करोति तेन सहजजरादिकृतां पीडाम् अनुद्वेजिकां परित्यज्य ज्वरादिनास्वाभाविकेन रोगेण पीडितस्येति दर्शयति ॥५॥


अभेषजं च द्विविधं बाधनं सानुबाधनम् ।

आयुर्वेददीपिका


भेषजप्रसङ्गाद् अभेषजद्वैविध्यम् आह अभेषजम् इत्यादि ॥१॥

बाधनम् इह तदात्वमात्रबाधकं यथास्वल्पम् अपथ्यम् ॥२॥

सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि ॥३॥


स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥६-१.५॥

प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् ।
प्रायःशब्दो विशेषार्थो ह्य् उभयं ह्य् उभयार्थकृत् ॥६-१.६॥

आयुर्वेददीपिका


द्विविधं भेषजमुक्तं विभजते स्वस्थस्येत्यादि ॥१॥

तद्वृष्यं तद्रसायनं प्राय इति छेदः ॥२॥

यद्वृष्यं प्रायो भवति तथा रसायनं यत् प्रायो भवति आर्तस्य रोगहरं यद्बाहुल्येन तत् स्वस्थोर्जस्करम् उच्यते यत्तु द्वितीयम् आर्तरोगहरं तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति यथाक्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः तथा कासाधिकारे ऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्य् अनुसरणीयम् ॥३॥

रसायनोक्तानां च ज्वरादिहरत्वम् अत्र सुव्यक्तमेव रसायनग्रन्थेषु ॥४॥

अन्ये तु ब्रुवते यद् व्याधिमात्रहरं न तद् रसायनं किंतु शरीरसंयोगदार्ढ्याद् दीर्घायुःकर्तृत्वसाधारणधर्मयोगाद् उपचरितव्याधिहरं रसायनम् इहोच्यत इति ॥५॥

ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं व्याधिहरं च स्वस्थोर्जस्करं तत्किं किंचिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते ब्रूमः बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते येन पाठासप्तपर्णादीनाम् अपि रसायनत्वं साधनीयशक्तित्वाद् आर्तरोगहरत्वेन यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते तत् स्वस्थार्तयोर् उभयार्थकर्तृत्वम् ॥६॥

प्रायःशब्दतात्पर्यं विवृणोति प्राय इत्यादि ॥७॥

विशेषार्थम् इति बाहुल्यार्थम् इत्यर्थः ॥८॥


दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः ।
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥६-१.७॥

वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥६-१.८॥

आयुर्वेददीपिका


रसायनकार्यम् आह दीर्घम् इत्यादि ॥१॥

प्रभादीनां त्रयाणाम् औदर्यं योजनीयम् ॥२॥

वाक्सिद्धिः यद् उच्यते तद् अवश्यं भवतीत्यर्थः ॥३॥

प्रणतिः लोकवन्द्यता ॥४॥

कथम् एतद् रसायनेन क्रियत इत्याह लाभेत्यादि रसादिग्रहणेन स्मृत्यादयो ऽपि गृह्यन्ते ॥५॥


अपत्यसंतानकरं यत् सद्यः सम्प्रहर्षणम् ।
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ॥६-१.९॥

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।
जीर्यतो ऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥६-१.१०॥

प्रभूतशाखः शाखीव येन चैत्यो यथा महान् ।
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ॥६-१.११॥

संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते ।
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥६-१.१२॥

आयुर्वेददीपिका


वाजीकरणकार्यम् आहापत्येत्यादि ॥१॥

अपत्यसंतानः अपत्यपरम्परा तेन पुत्रपौत्रकरम् इत्यर्थः वाजीकरणजनिताच्छुक्राज् जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः ॥२॥

अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात् यद् उच्यते ।
विरूपम् अपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः ।
व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः ॥३॥

इति ॥४॥

उपचीयत इति पुष्टिं प्राप्नोति ॥५॥

अक्षयम् इवाक्षयम् ॥६॥

फलवद् इति गर्भजनकम् ॥७॥

चैत्यो देवतायतनम् ॥८॥

अर्च्यः अर्चनीयः ॥९॥

आनन्त्यमिवानन्त्यं दीर्घसंतानताम् इत्यर्थः ॥१०॥


स्वस्थस्योर्जस्करं त्व् एतद् द्विविधं प्रोक्तम् औषधम् ।
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥६-१.१३॥

चिकित्सितार्थ एतावान् विकाराणां यदौषधम् ।
रसायनविधिश्चाग्रे वाजीकरणमेव च ॥६-१.१४॥

आयुर्वेददीपिका


चिकित्सित इति ज्वरादिचिकित्सिते ॥१॥

ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव तत् किं विशिष्योच्यते वक्ष्यते तच्चिकित्सिते इत्याह चिकित्सितार्थ इत्यादि ॥२॥

सत्यं रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच् चिकित्सितशब्देनोच्यत इत्यर्थः ॥३॥

अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु वक्तव्ये इत्याह रसायनेत्यादि ॥४॥

विधिः विधानं रसायनाभिधानम् इत्यर्थः ॥५॥

अग्रे इति अनन्तरम् ॥६॥

वाजीकरणं चाग्रे अभिधास्यते इति शेषः ॥७॥


अभेषजमिति ज्ञेयं विपरीतं यदौषधात् ।
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥६-१.१५॥

आयुर्वेददीपिका


अभेषजमपि पूर्वोद्दिष्टं विवृणोत्यभेषजमित्यादि ॥१॥

विपरीतं रोगजननलक्षणार्थकारि ॥२॥


रसायनानां द्विविधं प्रयोगमृषयो विदुः ।
कुटीप्रावेशिकं चैव वातातपिकमेव च ॥६-१.१६॥

कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते ।
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥६-१.१७॥

निवासे निर्भये शस्ते प्राप्योपकरणे पुरे ।
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत्कुटीम् ॥६-१.१८॥

विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम् ।
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥६-१.१९॥

शब्दादीनाम् अशस्तानाम् अगम्यां स्त्रीविवर्जिताम् ।
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥६-१.२०॥

अथोदगयने शुक्ले तिथिनक्षत्रपूजिते ।
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ॥६-१.२१॥

धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः ।
विधूय मानसान्दोषान् मैत्रीं भूतेषु चिन्तयन् ॥६-१.२२॥

देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् ।
देवगोब्राह्मणान् कृत्वा ततस् तां प्रविशेत् कुटीम् ॥६-१.२३॥

तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः ।
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥६-१.२४॥

आयुर्वेददीपिका


कुटीप्रवेशेन यत् क्रियते तत् कुटीप्रावेशिकम् ॥१॥

वातातपसेवयापि यत् क्रियते तद् वातातपिकम् ॥२॥

त्रिगर्भां प्रथममेकं गृहं तस्याभ्यन्तरे द्वितीयम् एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा त्रिगर्भामिति अन्तस् त्रिप्रकोष्ठाम् ॥३॥

सूक्ष्मलोचनामिति अल्पद्वारजालकाम् ॥४॥

शुक्ले शुक्लपक्षे ॥५॥

सज्जा वैद्यादयो यस्यां सा तथा ॥६॥

तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात् पूजिते ॥७॥

कृतवापन इति कृतक्षौरः ॥८॥

मानसान् दोषानिति कामक्रोधादीन् ॥९॥

संशोधनैर् इति वमनविरेचनास्थापनशिरोविरेचनैः ॥१०॥

सुखीति अरोगः ॥११॥

जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर् जातबलः ॥१२॥

यद्यपीह संशोधनैर् इति बहुवचनप्रयोगात् सर्वाण्येव संशोधनानि संमतानि तथापीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यम् इत्याहुः संशोधनैर् इति बहुवचनं पुनर् यावच्छुद्धेर् हरीतक्यादिप्रयोगस्यैव करणं दर्शयति ॥१३॥


हरीतकीनां चूर्णानि सैन्धवामलके गुडम् ।
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥६-१.२५॥

पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः ।
तेन शुद्धशरीराय कृतसंसर्जनाय च ॥६-१.२६॥

त्रिरात्रं यावकं दद्यात् पञ्चाहं वापि सर्पिषा ।
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥६-१.२७॥

शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् ।
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥६-१.२८॥

आयुर्वेददीपिका


यावकमिति यवान्नम् ॥१॥

त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम् ॥२॥


हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् ।
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ॥६-१.२९॥

आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् ।
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥६-१.३०॥

कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् ।
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥६-१.३१॥

हृद्रोगं सशिरोरोगमतीसारमरोचकम् ।
कासं प्रमेहमानाहं प्लीहानम् उदरं नवम् ॥६-१.३२॥

कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् ।
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ॥६-१.३३॥

स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः ।
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥६-१.३४॥

अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः ।
सेवेरन् नाभयाम् एते क्षुत्तृष्णोष्णार्दिताश् च ये ॥६-१.३५॥

तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि ।
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥६-१.३६॥

अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः ।
हरीतकीनां शस्यानि भिषगामलकस्य च ॥६-१.३७॥

आयुर्वेददीपिका


यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति तथापि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगाद् अध्यायादौ गुणकर्मभ्यामुच्येते तत्रापि यद्यपि आमलकं वयःस्थापनानाम् इत्युक्तं तथापि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्य् अग्रे ऽभिहिता ॥१॥

हरीतक्यादिषु पञ्चरसत्वाद्युत्पादो ऽदृष्टवशाद् भूतसंनिवेशविशेषप्रभावकृतः तेन नात्रोपपत्तयः क्रमन्ते ॥२॥

शिवामिति कल्याणकरिणीं प्रशस्तगुणयुक्तत्वात् ॥३॥

सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना ॥४॥

सर्वरोगहरत्वम् अभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् ॥५॥

प्रवर्तकत्वे ऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं यदुक्तं स्तोकं स्तोकं विबद्धं वा सशूलं यो ऽतिसार्येते ॥६॥

अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेद् इति ॥७॥

बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम् ॥८॥

वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वम् उक्तम् ॥९॥

शस्यानीति अस्थिरहितानि फलानि ॥१०॥


ओषधीनां परा भूमिर् हिमवाञ्शैलसत्तमः ।
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥६-१.३८॥

आपूर्णरसवीर्याणि काले काले यथाविधि ।
आदित्यपवनच्छायासलिलप्रीणितानि च ॥६-१.३९॥

यान्य् अजग्धान्य् अपूतीनि निर्व्रणान्यगदानि च ।
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥६-१.४०॥

आयुर्वेददीपिका


यद्यपि हिमवान् औषधभूमीनाम् इत्युक्तं तथापि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुम् औषधीनाम् इत्याहाभिधानम् ॥१॥

काले काले इति फलपाककाले इत्यर्थः ॥२॥

यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात् तथावश्यं रसायने कर्तव्यम् ॥३॥

अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति ॥४॥


पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् ।
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥६-१.४१॥

विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् ।
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥६-१.४२॥

बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् ।
पुनर्नवां शूर्पपर्ण्यौ बलाम् एरण्डमेव च ॥६-१.४३॥

जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् ।
शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥६-१.४४॥

इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणे ऽम्भसि ॥६-१.४५॥

दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् ।
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥६-१.४६॥

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः ।
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥६-१.४७॥

मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च ।
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥६-१.४८॥

मधुकस्य हरिद्राया वचायाः कनकस्य च ।
भागांश् चतुष्पलान् कृत्वा सूक्ष्मैलायास् त्वचस् तथा ॥६-१.४९॥

सितोपलासहस्रं च चूर्णितं तुलयाधिकम् ।
तैलस्य ह्य् आढकं तत्र दद्यात् त्रीणि च सर्पिषः ॥६-१.५०॥

साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाग्निना ।
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥६-१.५१॥

क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने ।
तिष्ठेत् संमूर्छितं तस्य मात्रां काले प्रयोजयेत् ॥६-१.५२॥

या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति ।
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥६-१.५३॥

वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः ।
रसायनमिदं प्राश्य बभूवुर् अमितायुषः ॥६-१.५४॥

मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः ।
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥६-१.५५॥

मेधास्मृतिबलोपेताश् चिररात्रं तपोधनाः ।
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥६-१.५६॥

रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत् ।
दीर्घम् आयुर् वयश् चाग्र्यं कामांश्चेष्टान् समश्नुते ॥६-१.५७॥

आयुर्वेददीपिका


पञ्चानाम् इत्यादौ प्रतिद्रव्यं दशपलभागग्रहणम् उक्तं हि जातूकर्णे इति पञ्च पञ्चमूलानि तेषां प्रतिद्रव्यं दशपलानि इति ॥१॥

हरीतकीसहस्रमिति हरीतकीफलसहस्रम् ॥२॥

शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ ॥३॥

वीरा जालंधरं शाकम् ॥४॥

कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि ॥५॥

विनीयेति प्रक्षिप्य ॥६॥

प्लवः कैवर्तमुस्तकम् ॥७॥

कनकं नागकेशरम् ॥८॥

त्वग् गुडत्वक् ॥९॥

औदुम्बरे इति ताम्रमये ॥१०॥

स्नेहार्धमिति सर्पिस्तैलार्धम् ॥११॥

एकम् अनपराह्णिकम् आहारम् ॥१२॥


यथोक्तगुणानाम् आमलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् ।
तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर् नागबलासहस्रपलस्वरसपरिपीतम् अनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेर् अधः स्थापयेद् अन्तर्भूमेः पक्षं कृतरक्षाविधानम् अथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तम् अर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानो ऽग्निबलम् अभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कम् उपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥६-१.५८॥

इदं रसायनं ब्राह्मं महर्षिगणसेवितम् ।
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥६-१.५९॥

कान्तः प्रजानां सिद्धार्थश् चन्द्रादित्यसमद्युतिः ।
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥६-१.६०॥

धरणीधरसारश्च वायुना समविक्रमः ।
स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥६-१.६१॥

आयुर्वेददीपिका


पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते तथा तत् स्वेदनीयम् इत्यर्थः ॥१॥

स्वरसपरिपीतमिति स्वरसभावितम् ॥२॥

ब्रह्मसुवर्चलाद्यौषधान्य् आयुर्वेदसमुत्थानीये वक्ष्यमाणानि ॥३॥

युवतिः नवमालिका ॥४॥

अष्टमो भागो ऽष्टभागः ॥५॥

क्षुद्रगुडाकृतिम् इति फाणिताकृतिम् ॥६॥

अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत् ॥७॥

यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना ॥८॥

यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान् ॥९॥

धरणीधरसार इति उष्ट्रमुखवत् तेन धरणीधराः पर्वतास् तेषां सारो लौहं तद्वत्सार इत्यर्थः ॥१०॥

अविषमिति विषम् अविकारि ॥११॥


बिल्वो ऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला ।
पर्ण्यश् चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥६-१.६२॥

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ।
अभया चामृता ऋद्धिर् जीवकर्षभकौ शटी ॥६-१.६३॥

मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् ।
विदारी वृषमूलानि काकोली काकनासिका ॥६-१.६४॥

एषां पलोन्मितान् भागाञ्शतान्य् आमलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥६-१.६५॥

ज्ञात्वा गतरसान्येतान्य् औषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥६-१.६६॥

पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥६-१.६७॥

षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ।
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥६-१.६८॥

पलमेकं निदध्याच्च त्वगेलापत्त्रकेसरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥६-१.६९॥

कासश्वासहरश् चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥६-१.७०॥

स्वरक्षयम् उरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां शुक्रस्थान् दोषांश्चाप्यपकर्षति ॥६-१.७१॥

अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ।
अस्य प्रयोगाच् च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥६-१.७२॥

मेधां स्मृतिं कान्तिमनामयत्वम् आयुःप्रकर्षं बलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥६-१.७३॥

रसायनस्यास्य नरः प्रयोगाल् लभेत जीर्णो ऽपि कुटीप्रवेशात् ।
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥६-१.७४॥

आयुर्वेददीपिका


पर्ण्यश् चतस्र इति शालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च ॥१॥

तामलकी भूम्यामलकी ॥२॥

काकनासा नासाफला काकतुण्डक इत्यन्ये ॥३॥

गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति ॥४॥

निष्कुलमिति निरस्थि ॥५॥

तैलसर्पिषोरिति समासनिर्देशाद् उभाभ्यामेव द्वादशपलानि न पृथक् पृथक् ॥६॥

मत्स्यण्डिका खण्डसंहतिः ॥७॥

अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर् द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम् ॥८॥


अथामलकहरीतकीनाम् आमलकविभीतकानां हरीतकीविभीतकानाम् आमलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानाम् अकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेद् अनन्नभुग् यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयंच रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलम् अभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् ।
अनेन प्रयोगेणर्षयः पुनर् युवत्वम् अवापुर् बभूवुश् चानेकवर्षशतजीविनो निर्विकाराः परशरीरबुद्धीन्द्रियबलसमुदिताश् चेरुश् चात्यन्तनिष्ठया तपः ॥६-१.७५॥

आयुर्वेददीपिका


कुकूलकः करीषाग्निः ॥१॥

अकुलकानामिति अनस्थ्नाम् ॥२॥

द्रव्यादीनामत्र मानं नोक्तं तेन प्रधानस्य चूर्णस्य दध्यादिभिर् मिलितैः समानमानत्वं किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम् ॥३॥

पललं तिलचूर्णम् ॥४॥

भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वाद् उपपन्नम् ॥५॥

अनन्नभुगिति सर्वथाहारान्तराभुक् ॥६॥

तस्यान्त इति एतत्प्रयोगपरित्यागकाले ॥७॥

प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं तेन प्रयोगान्ते यदा अन्नसंसर्जनं कर्तव्यं तदा यवाग्वादिक्रमेणेत्य् उक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः ॥८॥

यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया ॥९॥


हरीतक्यामलकविभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानो ऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् उष्णोदकानुपानम् अश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलम् अतुलम् उपलभ्याप्रतिहतसर्वारम्भः परमायुर् अवाप्नुयात् ॥६-१.७६॥

आयुर्वेददीपिका


अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका ॥१॥

अत्र हरीतक्यादिक्वाथस्य त्व् एको भागः क्षीरस्याष्टौ भागाः सर्पिष एको भागः ॥२॥

कुम्भो द्रोणद्वयम् ॥३॥

वचनं हि द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च इति ॥४॥


हरीतक्यामलकविभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च संनीयामलकस्वरसशतपरिपीतम् आमलकचूर्णम् अयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नम् अश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतम् अजरं वयस् तिष्ठति श्रुतम् अवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रम् अश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ॥६-१.७७॥

यथामराणाम् अमृतं यथा भोगवतां सुधा ।
तथाभवन् महर्षीणां रसायनविधिः पुरा ॥६-१.७८॥

न जरां न च दौर्बल्यं नातुर्यं निधनं न च ।
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥६-१.७९॥

न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥६-१.८०॥

आयुर्वेददीपिका


अमृतवल्ली गुडूची ।
सोमवल्कः विट्खदिरः ।
क्षीरसर्पिः क्षीरसमुत्थितसर्पिः ।
अयश्चूर्णस्य चतुर्थो भागः यत एतदयश्चूर्णं चतुर्थभागमत एकस्मिन् प्रयोगे जातूकर्णेन अयश्चूर्णपादयुक्तम् इति कृतम् ।
अमराणाममृतं जरादिहरं नागानां च सुधा जरामरणहरी इत्युभयोपादानं दृष्टान्ते ।
ब्रह्म मोक्षः ।
मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते ॥१॥


अभयामलकीये ऽस्मिन् षड् योगाः परिकीर्तिताः ।
रसायनानां सिद्धानाम् आयुर् यैर् अनुवर्तते ॥६-१.८१॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये ऽभयामलकीयो नाम रसायनपादः प्रथमः ॥६-१.८२॥

आयुर्वेददीपिका


अभयेत्यादिना संदेहनिरासार्थम् उक्तप्रयोगसंख्यां दर्शयति ।
एवमन्यत्रापि संख्याप्रणयनम् अन्ते ज्ञेयम् ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP