TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चिकित्सास्थान - वाजीकरणाध्याय ३

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


वाजीकरणाध्याय ३
अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः ॥६-२.३.१॥

इति ह स्माह भगवानात्रेयः ॥६-२.३.२॥

आयुर्वेददीपिका


माषपर्णभृतीयसम्बन्धो ऽपि पूर्ववत् ॥१॥


माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम् ।
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ॥६-२.३.३॥

रोहिणीमथवा कृष्णाम् ऊर्ध्वशृङ्गीम् अदारुणाम् ।
इक्ष्वादाम् अर्जुनादां वा सान्द्रक्षीरां च धारयेत् ॥६-२.३.४॥

केवलं तु पयस्तस्याः शृतं वाशृतमेव वा ।
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम् ॥६-२.३.५॥

आयुर्वेददीपिका


गृष्टिम् एकवारप्रसूताम् ॥१॥

चतुःस्तनीम् इत्यनेन सम्पूर्णचतुःस्तनीं दर्शयति ॥२॥

रोहिणीमिति लोहितवर्णाम् ॥३॥

ऊर्ध्वशृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति वचनाज्ज्ञेयम् ॥४॥

इक्ष्वादेति इक्षुदण्डभक्षा ॥५॥

अर्जुनादा अर्जुनवृक्षपत्त्रभक्षा ॥६॥

इक्ष्वादा वा अर्जुनादा वा माषपर्णभृता वेति विकल्पत्रयम् ॥७॥

पयः शृतमशृतं वेति द्वौ योगौ ॥८॥

शर्कराक्षौद्रसर्पिर्भिर्युक्तं तदिति तृतीयः ॥९॥

एतत्प्रयोगोऽपि जतूकर्णे तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वेति ॥१०॥


शुक्रलैर् जीवनीयैश्च बृंहणैर् बलवर्धनैः ।
क्षीरसंजननैश्चैव पयः सिद्धं पृथक् पृथक् ॥६-२.३.६॥

युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् ।
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ॥६-२.३.७॥

आयुर्वेददीपिका


पर्यायेणेति पृथक् पृथक् प्रयोक्तव्यं तेन पञ्चभिर्गणैः पञ्च योगा भवन्ति ॥१॥


मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम् ।
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान् ॥६-२.३.८॥

पयस्यर्धोदके पक्त्वा कार्षिकान् आढकोन्मिते ।
विवर्जयेत् पयःशेषं तत्पूतं क्षौद्रसर्पिषा ॥६-२.३.९॥

युक्तं सशर्करं पीत्वा वृद्धः सप्ततिको ऽपि वा ।
विपुलं लभतेऽपत्यं युवेव च स हृष्यति ॥६-२.३.१०॥

आयुर्वेददीपिका


विवर्जयेद् इति मेदादिकल्कं वर्जयेत् ॥१॥

वृद्धः सप्ततेरर्वागिति ज्ञेयम् ॥२॥

सप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता तथापि वृष्यप्रभावाद् भवतीति विज्ञेयम् ॥३॥


मण्डलैर्जातरूपस्य तस्या एव पयः शृतम् ।
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥६-२.३.११॥

आयुर्वेददीपिका


जातरूपस्येति सुवर्णस्य मण्डलरूपाकृतिर् इह सुवर्णस्य प्रभावाद्वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञेयम् ॥१॥

तस्या एवेति माषपर्णभृतधेन्वाः ॥२॥


त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः ।
भृष्टाः सशर्करक्षौद्राः क्षीरधारावदोहिताः ॥६-२.३.१२॥

पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा ।
भुक्त्वा न रात्रिम् अस्तब्धं लिङ्गं पश्यति ना क्षरत् ॥६-२.३.१३॥

श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे ।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः ॥६-२.३.१४॥

आयुर्वेददीपिका


प्रकुञ्चं पलम् ॥१॥

क्षीरधारावदोहिता इति पिप्पलीकल्काद् उपरि क्षीरधारावदोहः कर्तव्यः क्षीरं च तावद्दोह्यं यावता पानयोग्याः पिप्पल्यो भवन्ति ॥२॥


फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् ।
कुडवश्चूर्णितानां स्यात् स्वयंगुप्ताफलस्य च ॥६-२.३.१५॥

कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः ।
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् ॥६-२.३.१६॥

सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् ।
पक्त्वा पूपलिकाः खादेद् बह्व्यः स्युर् यस्य योषितः ॥६-२.३.१७॥

आयुर्वेददीपिका


फलानामित्यादि ॥१॥

फलानामिति जीवनीयानाम् इत्यादिभिस् त्रिभिः प्रत्येकम् अभिसंबध्यते ॥२॥

जीवनीयानामिति षट्ककषायवर्गोक्तानां जीवकर्षभादीनां दशानाम् ॥३॥

स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम् ॥४॥

तथा रुचिकारिणाम् इति चतुष्ककषायवर्गोक्तानाम् आम्रादीनां हृद्यानां दशानाम् इति ॥५॥

एषां जीवनीयप्रभृतीनां फलानां चूर्णितानां मिलित्वा कुडवो ग्राह्यः ॥६॥

अन्यद् अतिरोहितार्थम् ॥७॥

तथा ह्य् अयं प्रयोगो जतूकर्णे च पठ्यते द्राक्षाखर्जूरमाषाजडागोधूमशालिघृतानां कुडवः तिलमुद्गौ द्विकौडविकौ चूर्णयित्वा इत्यादि ॥८॥


घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् ॥६-२.३.१८॥

आयुर्वेददीपिका


घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेप्याणाम् अन्यतोदृष्टन्यायाद् घृतात् पादिकत्वं घृतस्य प्रास्थिकत्वम् ॥१॥


कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् ।
प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत् ॥६-२.३.१९॥

आयुर्वेददीपिका


कर्षम् इत्यादिकान्ताः पञ्चदश प्रयोगाः ॥१॥


घृतक्षीराशनो निर्भीर् निर्व्याधिर् नित्यगो युवा ।
संकल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते ॥६-२.३.२०॥

कृतैककृत्याः सिद्धार्था ये चान्योन्यानुवर्तिनः ।
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये ॥६-२.३.२१॥

कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः ।
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः ॥६-२.३.२२॥

ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः ।
तैर् नरः सह विस्रब्धः सुवयस्यैर् वृषायते ॥६-२.३.२३॥

अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः ।
गृहशय्यासनसुखैर् वासोभिरहतैः प्रियैः ॥६-२.३.२४॥

विहंगानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः ।
संवाहनैर् वरस्त्रीणाम् इष्टानां च वृषायते ॥६-२.३.२५॥

आयुर्वेददीपिका


घृतक्षीराशन इत्यादिना तु वृष्यत्वार्थिन आहाराचाराभिधानम् ॥१॥

नित्यमित्यनेन व्यवायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति ॥२॥

कृतम् एकं कृत्यं यैस्ते तथा एतच्च अन्योन्यार्थरागकारणम् ॥३॥

सिद्धार्था इति सिद्धसाध्याः अकृतार्था हि व्याकुलमनसो न कामक्षमाः ॥४॥

वृषायत इति उपचितप्रवृत्त्युन्मुखशुक्रो भवति ॥५॥


मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः ।
जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥६-२.३.२६॥

नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः ।
उन्नतिर् नीलमेघानां रम्यचन्द्रोदया निशाः ॥६-२.३.२७॥

वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः ।
रतिभोगक्षमा रात्र्यः संकोचागुरुवल्लभाः ॥६-२.३.२८॥

आयुर्वेददीपिका


मत्तद्विरेफाचरिताः इत्यादि गृहाणि च इत्यन्तं योग्यतया ऋतुविभागेनानुक्तम् अपि ग्रीष्म एव ज्ञेयं मेघानां इत्यन्तं प्रावृषि तथा गन्धिन इत्यन्तं शरदि वल्लभा इत्यन्तं च विधानं हेमन्तशिशिरयोर् ज्ञेयम् ॥१॥

संकोचं कुङ्कुमं संकोचागुरुणोः समालभनार्थं वल्लभा यासु निशासु तास् तथा ॥२॥


सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः ।
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च ॥६-२.३.२९॥

सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य ।
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ॥६-२.३.३०॥

प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च ।
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ॥६-२.३.३१॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः ॥६-२.३.३२॥

आयुर्वेददीपिका


सुखा इत्यादिग्रन्थविधानं तु वसन्ताभिप्रायविहितम् अन्यत्राप्यविरुद्धम् ॥१॥

आत्मजस्येति मन्मथस्य ॥२॥

जातमदः कालो वसन्तादिः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.3100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

socialisation

  • न. सामाजिकीकरण 
  • सामाजीकरण 
  • न. सामाजिकीकरण 
  • न. सामाजिकीकरण 
More meanings
RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site