TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चिकित्सास्थान - तृष्णाचिकित्सित

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


तृष्णाचिकित्सित
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः ॥६-२२.१॥

इति ह स्माह भगवानात्रेयः ॥६-२२.२॥

आयुर्वेददीपिका


विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितम् उच्यते ॥१॥


ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः ।
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ॥६-२२.३॥

आयुर्वेददीपिका


ज्ञानेत्यादौ ज्ञानं तत्त्वज्ञानं प्रशमः शान्तिः तपः चान्द्रायणादि ॥१॥

चिकित्सितं चिकित्साविधायको ग्रन्थः निदानाद्यभिधानं च चिकित्सार्थमेव निदानादिज्ञानपूर्वकत्वाच् चिकित्सायाः ॥२॥

पञ्चानामिति वचनेन पञ्चानामपि चिकित्साविषयत्वं दर्शयति नहि कासश्वासवदस्यासाध्यत्वं कस्याश्चिद् अत्रेत्यर्थः तथा सुश्रुतोक्तातिरिक्ततृष्णाद्वयान्तर्भावं पञ्चस्वेव सूचयति ॥३॥

उक्तं हि सुश्रुते तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्य् आमसमुद्भवा च ॥४॥

स्यात् सप्तमी भक्तनिमित्तजा च इति ॥५॥


क्षोभाद्भयाच्छ्रमाद् अपि शोकात् क्रोधाद् विलङ्घनान्मद्यात् ।
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ॥६-२२.४॥

धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः ।
पित्तानिलौ प्रवृद्धौ सौम्यान् धातूंश् च शोषयतः ॥६-२२.५॥

रसवाहिनीश्च नाडीर् जिह्वामूलगलतालुकक्लोम्नः ।
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ॥६-२२.६॥

पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम् ।
घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा ॥६-२२.७॥

आयुर्वेददीपिका


क्षोभाद् इत्याद्युक्तनिदानस्य यथायोग्यतया वातकर्तृत्वं वातपित्तकर्तृत्वं चोन्नेयम् ॥१॥

पित्तानिलाव् इत्यादिः सर्वतृष्णासम्प्राप्तिग्रन्थः ॥२॥

सौम्यान् धातूनिति कफरसोदकानि सोमगुणातिरिक्तानि ॥३॥

प्रदूषयत इति शोषणेन दूषयतः ॥४॥

क्लोम्न इति द्वितीयाबहुवचनान्तम् ॥५॥

देहे इत्यनेन एतासां तृष्णानां शरीरत्वं दर्शयति ॥६॥

या हि मानसी तृष्णा सा शरीरे इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते इत्यादाव् उक्ता इयं तु देहाश्रयदोषकारणा सती देहजैवेति भावः ॥७॥

स्वाभाविकतृष्णायाम् अपि वातपित्ते आरम्भके एव तत् किं साप्यत्र न गृह्यते ॥८॥

मैवं तस्या उचितद्रवपानेनैवाभिप्रेतेन प्रशमाद् इह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति हृदि कृत्वा ॥९॥

स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णारम्भकवातपित्तयोर् विशेषमाह पीतं पीतम् इत्यादि ॥१०॥

प्रकृततृष्णारम्भकौ पित्तवातौ पीतं पीतं जलं शोषयतः अतो जलशोषणत्वाद्धेतोर् न शमं याति पुरुषः स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः ॥११॥

उपद्रवरूपतृष्णोत्पादम् आह घोरेत्यादि ॥१२॥

उपसर्गभूता इति उपद्रवरूपा ॥१३॥


प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् ।
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ॥६-२२.८॥

आयुर्वेददीपिका


तृष्णाप्राग्रूपम् आह प्राग्रूपम् इत्यादि ॥१॥

प्राग्रूपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणम् आह स्वलक्षणम् इत्यादि ॥२॥

स्वलक्षणम् इति अव्यभिचारिलक्षणं यथा ज्वरस्य संतापः श्वयथोर् उत्सेधः ॥३॥

पुनः प्रकृतं प्राग्रूपम् आह लिङ्गानां लाघवमपाय इति ॥४॥

लिङ्गानां वक्ष्यमाणवातादिजतृष्णालिङ्गानां लाघवम् अल्पत्वं केषांचिच् चाभावः पूर्वरूपं तृष्णानाम् इत्यर्थः ॥५॥

तेन पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिन् न भवन्त्येव यानि च भवन्ति तान्यल्पतयास्फुटानि भवन्ति ॥६॥

उक्तं च अव्यक्तं लक्षणं तस्य पूर्वरूपम् इति स्मृतम् इति ॥७॥

किंवा यदेतत् प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् एतत् प्राग्रूपं स्वलक्षणं च तृष्णानां तेन मुखशोषाम्बुकामित्वे स्वलक्षणे तथा पूर्वरूपे च भवतः पूर्वरूपावस्थायां त्व् अप्रबले मुखशोषाम्बुकामित्वे ज्ञेये ॥८॥

ये तु प्राग्रूपं मुखशोषः स्वरक्षयः सर्वदाम्बुकामित्वम् इति पठन्ति तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात् ॥९॥

उक्तं च हारीतेऽपि तृष्णास्वलक्षणं स्वलक्षणं तु तृष्णानां सर्वदाम्बुपिपासिता इति ॥१०॥

किंवा मुखशोषस्वरक्षये एव पूर्वरूपं सर्वदाम्बुकामित्वं च स्वलक्षणं लिङ्गानां च लाघवं रोगरूपायास् तृष्णाया अपायो गमनमित्यर्थः अयमेव तृष्णाव्युपरमो यद् वक्ष्यमाणलिङ्गानाम् अल्पत्वं सर्वथोच्छेदो हि तृष्णालक्षणानां न भवत्येव सहजतृष्णाग्रस्तत्वेनैतल्लक्षणानाम् अल्पमात्रतयावस्थानात् ॥११॥

कैश्चित् तु लिङ्गानां लाघवम् आशूत्पादः स च अपायो मरणम् इति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते तन्नातिमनोहरम् ॥१२॥


मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान् ।
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ॥६-२२.९॥

जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम् ।
तृष्णोद्भूता कुरुते पञ्चविधां लिङ्गतः शृणु ताम् ॥६-२२.१०॥

आयुर्वेददीपिका


सर्वतृष्णानामुपद्रवान् आह मुखशोषेत्यादि ॥१॥

उद्भूतेति वृद्धा ॥२॥

ये तु मुखशोषादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानाम् अभिधानं न स्यात् उपद्रवाश्चाध्यायसंग्रहे संगृहीताः तेनातिशयवृद्धा मुखशोषादय उपद्रवाः वृद्धास्तु लिङ्गम् इति व्यवस्था ॥३॥


अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति ।
तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ॥६-२२.११॥

आयुर्वेददीपिका


अब्धातुम् इत्यादिना पञ्चानां सम्प्राप्त्याद्य् आह ॥१॥

देहस्थमिति देहे नानारसादिरूपतया स्थितम् ॥२॥

शुष्के ऽब्धातौ शुष्यतीति योज्यम् ॥३॥


निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः ॥६-२२.१२॥

आयुर्वेददीपिका


स्रोतोऽवरोध इति अत्युपघातः ॥१॥


पित्तं मतमाग्नेयं कुपितं चेत् तापयत्य् अपां धातुम् ।
संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नृणाम् ॥६-२२.१३॥

तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा ।
पीताक्षिमूत्रवर्चस्त्वम् आकृतिः पित्ततृष्णायाः ॥६-२२.१४॥

आयुर्वेददीपिका


पित्तमित्यादिना पित्तजाम् आह ॥१॥

शरीरसंख्याशरीरे पित्तमाप्यम् उक्तं यद् द्रवसरस्निग्धमन्दमृदुपिच्छिलं रसरुधिरवसाकफपित्तस्वेदादि तद् आप्यं रसो रसनं च इत्यनेन तथा तत्रैव यत् पित्तस्य यो या च शरीरे भाः तत् सर्वम् आग्नेयम् इत्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्याग्नेयाकारत्वाद् बाहुल्यात् पित्तम् आग्नेयम् एवेति दर्शयन्नाह पित्तं मतम् आग्नेयम् इति द्वयात्मकत्वे ऽपि च पित्तस्याग्नेयांशप्राधान्याद् अन्यत्रापि सौम्याग्नेयवायव्यविकारभेदे पैत्तिकविकारा आग्नेयत्वेन गृहीता एव ॥२॥

संतप्तः स हीति अब्धातुः संतप्तः ॥३॥

संतप्तं हि इति पाठपक्षे पित्तमेव जनयेदिति योज्यम् ॥४॥

यदाब्धातुर् जनयति तदा पित्तसंतप्त एव जनयतीति पित्तस्यैव कर्तृत्वम् ॥५॥


तृष्णा यामप्रभवा साप्याग्नेयामपित्तजनितत्वात् ।
लिङ्गं तस्याश् चारुचिर् आध्मानकफप्रसेकौ च ॥६-२२.१५॥

आयुर्वेददीपिका


तृष्णेत्यादिनामजाम् आह ॥१॥

आमशब्देन चेह लक्षणया आमसमानचिकित्सित आमसमानलक्षणश् च कफो ऽपि गृह्यते ॥२॥

तेनामप्रभवाया व्युत्पादनेन कफजापि सुश्रुतोक्ता गृहीतैवेह साप्याग्नेयेत्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति ॥३॥

वातश्च तृष्णाकारणत्वेनोक्तोऽप्यत्राप्रधानं पित्तमेव ये प्रधानम् इतीह वाताकथनाद् उन्नीयते ॥४॥

अन्यत्राप्युक्तं दर्शनपक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् ॥५॥

प्रभाप्रसादौ मेधा च पित्तकर्माविकारजम् इति ॥६॥

आमपित्तजनितत्वाद् इति आमावरोधवृद्धपित्तजनितत्वाद् इत्यर्थः ॥७॥


देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि ।
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ॥६-२२.१६॥

आयुर्वेददीपिका


देहो रसज इत्यादिना क्षयजाम् आह ॥१॥

आहाररसात् सर्वधातुपोषको धातुरस उत्पद्यते स च रसो देहपोषको ऽम्बुभव इति आप्य इत्यर्थः ॥२॥

तस्य क्षयादिति रसक्षयात् तृष्यते रसक्षयाद् अम्बुक्षयो भवति तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णया युक्तो भवतीति युक्तम् इति दर्शयति ॥३॥

उक्तं हि सुश्रुते दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः ॥४॥

स्वयोनिवर्धनं यत् तद् अन्नपानं प्रकाङ्क्षति इति इहापि चोक्तं तस्य क्षयाच्च तृष्येद्धि इति ॥५॥


भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ।
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ॥६-२२.१७॥

आयुर्वेददीपिका


भवतीत्यादिनोपसर्गजाम् आह ॥१॥

उपसर्गादिति ज्वराद्युपद्रवात् ज्वराद्युपद्रवरूपतयेति यावत् ॥२॥

कष्टेति कष्टसाध्या ॥३॥

एवं प्राक्सूत्रितवातपित्तामाम्बुक्षयोपसर्गात्मिकाः पञ्च तृष्णा व्याहृताः अत्रैव सुश्रुतोक्ता कफजा आमजायाम् अवरुद्धा क्षतजा उपसर्गात्मिकायाम् अवरुद्धा अन्नजा चामजायाम् एवान्तर्भावनीया ॥४॥


सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् ।
घोरोपद्रवयुक्तास् तृष्णा मरणाय विज्ञेयाः ॥६-२२.१८॥

आयुर्वेददीपिका


इदानीं तृष्णानामसाध्यतालक्षणम् आह सर्वास्त्वित्यादि ।
घोरोपद्रवयुक्तेति पीडाकरोपद्रववती ॥१॥                

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.4200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

modulo n (mod n)

  • भाजक न 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site