चिकित्सास्थान - रसायनाध्याय ४

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः ॥६-१.४.१॥

इति ह स्माह भगवानात्रेयः ॥६-१.४.२॥

आयुर्वेददीपिका


आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्याद् उच्यते आयुर्वेदसमुत्थानम् अस्मिन्न् अस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः ॥१॥


ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः ।
ते सर्वासाम् इतिकर्तव्यतानाम् असमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासम् अपगतग्राम्यदोषं शिवं पुण्यम् उदारं मेध्यम् अगम्यम् असुकृतिभिर् गङ्गाप्रभवम् अमरगन्धर्वकिंनरानुचरितम् अनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवम् अतिशरण्यं हिमवन्तम् अमराधिपतिगुप्तं जग्मुर् भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ॥६-१.४.३॥

आयुर्वेददीपिका


ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात् ॥१॥

सम्पन्नम् अनु उपयुज्यन्त इति साम्पन्निकाः ॥२॥

नातिकल्या इति नातिनीरोगाः ॥३॥

इतिकर्तव्यता व्यापारः ॥४॥

इन्द्रपर्यायकथनं स्तुत्यर्थं स्तुतिश् चेयम् इन्द्रस्यायुर्वेदप्रकाशकत्वात् ॥५॥


तान् इन्द्रः सहस्रदृग् अमरगुरुर् अब्रवीत्स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् ।
अस्ति ननु वो ग्लानिर् अप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतम् असुखम् असुखानुबन्धं च ग्राम्यो हि वासो मूलम् अशस्तानां तत् कृतः पुण्यकृद्भिर् अनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम् आत्मनः प्रजानां चानुग्रहार्थम् आयुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानाम् अल्पम् आयुर् जराव्याधिबहुलम् असुखम् असुखानुबन्धम् अल्पत्वाद् अल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतमम् आयुःप्रकर्षकरं जराव्याधिप्रशमनम् ऊर्जस्करम् अमृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यम् आत्मनश् चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥६-१.४.४॥

तच्छ्रुत्वा विबुधपतिवचनम् ऋषयः सर्व एवामरवरम् ऋग्भिस् तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ॥६-१.४.५॥

आयुर्वेददीपिका


असुखानुबन्धमिति रोगरूपम् असुखम् अनुबध्नातीत्यसुखानुबन्धम् ॥१॥

मूलमिति कारणम् ॥२॥

कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः ॥३॥

अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः ॥४॥

प्रजापतये ब्रह्मेति छेदः ॥५॥

प्रजानाम् अल्पादिकम् आयुर्मत्त्वेति योजना ॥६॥

अल्पत्वात् आयुष इति शेषः ॥७॥

अल्पस्तपःप्रभृतीनां संचयोऽस्मिन् अल्पे आयुषि तत् तथा ॥८॥

प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते ॥९॥

अथशब्दश् चाधिकारे ॥१०॥

तेन मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात् तमनुश्रोतुम् अर्हतेति योजना ॥११॥

यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः तथापि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस् तानुपदिशति ॥१२॥


अथेन्द्रस् तदायुर्वेदामृतम् ऋषिभ्यः संक्रम्योवाच एतत्सर्वमनुष्ठेयम् अयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी विदारी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्त्रा अतिच्छत्रा मेदा महामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदम् उपचयं मेधां स्मृतिमुत्तमबलम् इष्टांश्चापरान् भावान् आवहन्ति सिद्धाः ॥६-१.४.६॥

आयुर्वेददीपिका


महाश्रावणी अलम्बुषा ॥१॥

अतिच्छत्रा मधुरिका ॥२॥


ब्रह्मसुवर्चला नामौषधिर् या हिरण्यक्षीरा पुष्करसदृशपत्त्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बिल्वजसदृशपत्त्रा काष्ठगोधा नामौषधिर् गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजानाम् औषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास् तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायाम् आर्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः सम्भवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर् योजनसहस्रं दशवर्षसहस्राण्य् आयुर् अनुपद्रवं चेति ॥६-१.४.७॥

आयुर्वेददीपिका


ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः ॥१॥

आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद् वर्णयन्ति ॥२॥

अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते नलौकिकैः लोकाप्रसिद्धत्वात् ॥३॥

सोम इव वर्धते हीयत इति यथासोमवृद्धिक्षयौ तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः ॥४॥

प्रलीयत इति द्रुतो भवति अन्ये तु मूर्छतीति वर्णयन्ति ॥५॥

प्रत्यवस्थापनमिति आहारसेवायां योज्यम् इत्यर्थः ॥६॥

सर्ववाचोगतानि सर्ववाक्यविशेषाः ॥७॥


दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः ।
शक्यः सोढुमशक्यस्तु स्यात्सोढुमकृतात्मभिः ॥६-१.४.८॥

ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि ।
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥६-१.४.९॥

वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः ।
शक्या ओषधयो ह्य् एताः सेवितुं विषयाभिजाः ॥६-१.४.१०॥

आयुर्वेददीपिका


एतद्दिव्यं रसायनमृषिभिस्तद्विधैर् वा सेव्यम् इति दर्शयन्न् आह दिव्यानाम् इत्यादि ॥१॥

विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति भवन्त्यो ऽपि निर्वार्या भवन्तीति भावः ॥२॥


यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा ।
मृदुवीर्यतरास् तासां विधिर्ज्ञेयः स एव तु ॥६-१.४.११॥

पर्येष्टुं ताः प्रयोक्तुं वा ये ऽसमर्थाः सुखार्थिनः ।
रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥६-१.४.१२॥

आयुर्वेददीपिका


सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति तदाह यास् त्व् इत्यादि ॥१॥

क्षेत्रगुणैर् इति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः ॥२॥

तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम् ॥३॥

मध्यमेन च कर्मणेति असम्यक्प्रयोगेण किंवा अनतिमहतादृष्टेन ॥४॥


बल्यानां जीवनीयानां बृंहणीयाश् च या दश ।
वयसः स्थापनानां च खदिरस्यासनस्य च ॥६-१.४.१३॥

खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च ।
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥६-१.४.१४॥

शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च ।
ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च ॥६-१.४.१५॥

त्रिफलाकण्टकार्योश् च विदार्याश्चन्दनस्य च ।
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ॥६-१.४.१६॥

रसाः पृथक् पृथग् ग्राह्याः पलाशक्षार एव च ।
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥६-१.४.१७॥

द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः ।
तत् साध्यं सर्वम् एकत्र सुसिद्धं स्नेहमुद्धरेत् ॥६-१.४.१८॥

तत्रामलकचूर्णानामाढकं शतभावितम् ।
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥६-१.४.१९॥

शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् ।
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्छितं च तत् ॥६-१.४.२०॥

सुचौक्षे मार्त्तिके कुम्भे मासार्धं घृतभाविते ।
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत् ॥६-१.४.२१॥

हेमताम्रप्रवालानाम् अयसः स्फटिकस्य च ।
मुक्तावैडूर्यशङ्खानां चूर्णानां रजतस्य च ॥६-१.४.२२॥

प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम् ।
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥६-१.४.२३॥

सर्वरोगप्रशमनं वृष्यमायुष्यम् उत्तमम् ।
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ॥६-१.४.२४॥

परमूर्जस्करं चैव वर्णस्वरकरं तथा ।
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥६-१.४.२५॥

सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके ।
प्रयोज्यम् इच्छद्भिरिदं यथावद् रसायनं ब्राह्ममुदारवीर्यम् ॥६-१.४.२६॥

आयुर्वेददीपिका


बल्यानाम् इत्यादौ जोङ्गकम् अगुरु ॥१॥

द्वारदा शाकतरुः कपिकच्छुर् वा ॥२॥

श्रीपर्णी गम्भारी ॥३॥

पलाशक्षारः पलाशक्षारोदकम् ॥४॥

सुचौक्षे इति सुविशुद्धे ॥५॥

अग्निसमामिति अग्न्यनुरूपाम् ॥६॥

षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद् ग्राह्यः ॥७॥


समर्थानामरोगाणां धीमतां नियतात्मनाम् ।
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ॥६-१.४.२७॥

अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः ।
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः ॥६-१.४.२८॥

रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि ।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥६-१.४.२९॥

आयुर्वेददीपिका


कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषान् आह समर्थानाम् इत्यादि ॥१॥

क्षणिनामिति कृतक्षणानाम् ॥२॥

सूर्यमारुतसेवयापि क्रियत इति सौर्यमारुतिकः ॥३॥


सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् ।
अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥६-१.४.३०॥

जपशौचपरं धीरं दाननित्यं तपस्विनम् ।
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ॥६-१.४.३१॥

आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् ।
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ॥६-१.४.३२॥

देशकालप्रमाणज्ञं युक्तिज्ञम् अनहंकृतम् ।
शस्ताचारम् असंकीर्णम् अध्यात्मप्रवणेन्द्रियम् ॥६-१.४.३३॥

उपासितारं वृद्धानामास्तिकानां जितात्मनाम् ।
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥६-१.४.३४॥

गुणैर् एतैः समुदितैः प्रयुङ्क्ते यो रसायनम् ।
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ॥६-१.४.३५॥

आयुर्वेददीपिका


सामान्येन रसायनविषयपुरुषगुणानाह सत्यवादिनम् इत्यादि ॥१॥

करुणया सत्त्वानि पश्यतीति करुणवेदी ॥२॥

असंकीर्णः असंकीर्णभोजी ॥३॥

नित्यं रसायनप्रयोगो यस्य स नित्यरसायनः ॥४॥


यथास्थूलम् अनिर्वाह्य दोषाञ्छारीरमानसान् ।
रसायनगुणैर् जन्तुर् युज्यते न कदाचन ॥६-१.४.३६॥

योगा ह्य् आयुःप्रकर्षार्था जरारोगनिबर्हणाः ।
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥६-१.४.३७॥

तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु ।
अरुजेभ्यो ऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ॥६-१.४.३८॥

आयुर्वेददीपिका


मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस् तदभिधानम् इतरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम् ॥१॥

अरुजेभ्यो ऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन् न वाच्यमिति योजना ॥२॥


ये रसायनसंयोगा वृष्ययोगाश्च ये मताः ।
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ॥६-१.४.३९॥

प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम् ।
अश्विनाव् इव देवेन्द्रः पूजयेद् अतिशक्तितः ॥६-१.४.४०॥

अश्विनौ देवभिषजौ यज्ञवाहाव् इति स्मृतौ ।
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥६-१.४.४१॥

प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च ।
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥६-१.४.४२॥

चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा ।
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥६-१.४.४३॥

भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥६-१.४.४४॥

एतैश्चान्यैश्च बहुभिः कर्मभिर् भिषगुत्तमौ ।
बभूवतुर्भृशं पूज्याव् इन्द्रादीनां महात्मनाम् ॥६-१.४.४५॥

ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च ।
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥६-१.४.४६॥

प्रातश्च सवने सोमं शक्रो ऽश्विभ्यां सहाश्नुते ।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥६-१.४.४७॥

इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः ।
स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ॥६-१.४.४८॥

अजरैरमरैस्तावद्विबुधैः साधिपैर् ध्रुवैः ।
एते प्रयतैरेवमश्विनौ भिषजाव् इति ॥६-१.४.४९॥

मृत्युव्याधिजरावश्यैर् दुःखप्रायैः सुखार्थिभिः ।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर् नातिशक्तितः ॥६-१.४.५०॥

शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः ।
प्राणिभिर्गुरुवत्पूज्यः प्राणाचार्यः स हि स्मृतः ॥६-१.४.५१॥

आयुर्वेददीपिका


सम्प्रति रसायनादिसिद्धिर् वैद्याधीना तेन वैद्यस्तुतिम् आरभते य इत्यादि ॥१॥

प्राणाचार्यमित्यत्र प्राणिवर्यम् इति वा पाठः तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः ॥२॥

यज्ञं वहत इति यज्ञवाहौ ॥३॥

एतद्यज्ञवाहत्वमेव दर्शयति दक्षस्य हीत्यादि ॥४॥

पूष्णः सूर्यस्य भगोऽपि सूर्यभेदः ॥५॥

सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः सोमातिपचित इति वा पाठः तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति ॥६॥

ग्रहाः सोमपानपात्राणि ॥७॥

स्तोत्राणि स्तवाः स्तावकवाचः शस्त्राणीति केचित् संशस्यते ऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः शस्त्राणि अस्त्राण्येव वषड्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव ॥८॥

धूम्राश् च पशव इति धूम्रवर्णपशवः एवंवर्णाश् च पशवः श्रेष्ठा भवन्ति ॥९॥

सवन इति यज्ञस्थाने ॥१०॥

सौत्रामणी यज्ञविशेषः ॥११॥

अतिशक्तित इति निजशक्तेर् अप्यतिरेकेण ॥१२॥


विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते ।
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥६-१.४.५२॥

विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा ।
ध्रुवम् आविशति ज्ञानात्तस्माद् वैद्यो द्विजः स्मृतः ॥६-१.४.५३॥

नाभिध्यायेन्न चाक्रोशेद् अहितं न समाचरेत् ।
प्राणाचार्यं बुधः कश्चिद् इच्छन्न् आयुर् अनित्वरम् ॥६-१.४.५४॥

आयुर्वेददीपिका


वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह विद्येत्यादि ॥१॥

तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति ॥२॥

ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद् भवति तयोर् यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्मम् इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था ॥३॥


चिकित्सितस्तु संश्रुत्य यो वासंश्रुत्य मानवः ।
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ॥६-१.४.५५॥

भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो हि संरक्षेद् इच्छन् धर्मम् अनुत्तमम् ॥६-१.४.५६॥

धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः ।
प्रकाशितो धर्मपरैर् इच्छद्भिः स्थानमक्षरम् ॥६-१.४.५७॥

नार्थार्थं नापि कामार्थमथ भूतदयां प्रति ।
वर्तते यश्चिकित्सायां स सर्वम् अतिवर्तते ॥६-१.४.५८॥

कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम् ।
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥६-१.४.५९॥

दारुणैः कृष्यमाणानां गदैर् वैवस्वतक्षयम् ।
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ॥६-१.४.६०॥

धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते ।
न हि जीवितदानाद्धि दानम् अन्यद् विशिष्यते ॥६-१.४.६१॥

परो भूतदया धर्म इति मत्वा चिकित्सया ।
वर्तते यः स सिद्धार्थः सुखम् अत्यन्तम् अश्नुते ॥६-१.४.६२॥

आयुर्वेददीपिका


संश्रुत्येति प्रतिज्ञाय ॥१॥

चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम् ॥२॥

ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या इतरा त्व् असारकल्पा पांशुराशितुल्या ॥३॥

वैवस्वतक्षयमिति यमगृहम् ॥४॥


आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम् ।
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥६-१.४.६३॥

सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः ।
आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ॥६-१.४.६४॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ॥६-१.४.६५॥

आयुर्वेददीपिका


संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ॥१॥

आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः तत् संप्रकाशितम् इति योजना ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP