TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चिकित्सास्थान - वाजीकरणाध्याय १

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


वाजीकरणाध्याय १
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः ॥६-२.१.१॥

इति ह स्माह भगवानात्रेयः ॥६-२.१.२॥

आयुर्वेददीपिका


स्वस्थोर्जस्करत्वसामान्यात् रसायनमनु वाजीकरणं वाच्यं तत्रापि वाजीकरणे प्रवृत्त्युपदर्शकप्रकरणयुक्तत्वाद् आदौ संयोगशरमूलीय उच्यते ।
संयोगः शरमूलानाम् अस्मिन्न् अस्तीति संयोगशरमूलीयः ॥१॥


वाजीकरणम् अन्विच्छेत् पुरुषो नित्यमात्मवान् ।
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ॥६-२.१.३॥

पुत्रस्यायतनं ह्य् एतद्गुणाश्चैते सुताश्रयाः ।

आयुर्वेददीपिका


अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद् वाजीकरणम् ॥१॥

उक्तं हि वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियम् इत्यादि ॥२॥

अन्विच्छेदिति रसायनान्महाफलात् तदपेक्षयाल्पफलं वाजीकरणं पश्चाद् इच्छेत् ॥३॥

पुरुष इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति ॥४॥

उक्तं हि ।
अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियो व्रजन् ।
उपतप्येत सहसा तडागमिव काजलम् ॥५॥

शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् इति ॥६॥

नित्यमित्यनेन न रसायनवत् संप्रयोगो वृष्यस्य किंत्व् आहारवत् सर्वदोषयोग इति दर्शयति ॥७॥

आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति स हि वृष्योपयोगादुपचितधातुः सन्न् अगम्यागमनमपि कुर्यात् ॥८॥

धर्मादयो वृष्यायत्ता एव यथा भवन्ति तदाह पुत्रस्येत्यादि ॥९॥

आयतनं कारणम् ॥१०॥

एते गुणा इति धर्मादयः वृष्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः सम्पादयतीत्यर्थः ॥११॥

वाजीकरणसेवया चेह युक्तयैव ऋतुकाले च मैथुनं प्राधान्येनाभिप्रेतं तेन तिस्रैषणीये त्रय उपस्तम्भाः इत्यादिग्रन्थेन ब्रह्मचर्यं यदुक्तं तद् ऋतुकाले यथाविधिकृतमैथुनाप्रतिषेधकम् इति न विरोधः ॥१२॥


वाजीकरणम् अग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ॥६-२.१.४॥

इष्टा ह्य् एकैकशो ऽप्य् अर्थाः परं प्रीतिकराः स्मृताः ।
किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ॥६-२.१.५॥

संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते ।
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम् ।
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्व् अपत्यं प्रतिष्ठितम् ॥६-२.१.६॥

धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः ।
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ॥६-२.१.७॥

या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ।

आयुर्वेददीपिका


सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह वाजीत्यादि ॥१॥

क्षेत्रमिव क्षेत्रं तत्र शुक्ररूपबीजप्ररोहणात् ॥२॥

अर्था इति शब्दादयः ते च स्त्रीगताधररसकलविङ्करुतरूपादयः प्रसिद्धा एव ॥३॥

धर्मार्थौ स्त्रीष्विति सहैव पत्न्या धर्मश्चर्य इत्याद्युपदेशाद् धर्मः तथानुरक्ता गृहिणी अर्थरक्षणादि करोतीत्यर्थ इत्यर्थः ॥४॥

स्त्रिया लक्ष्म्याः संयोगे धनसम्पद् भवतीति स्त्रीषु लक्ष्मीः प्रतिष्ठितेत्यर्थः ॥५॥

वश्या आयत्ता ॥६॥

शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुःषष्टिकलाशिक्षिता ॥७॥


नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम् ॥६-२.१.८॥

तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः ।
वयोरूपवचोहावैर् या यस्य परमाङ्गना ॥६-२.१.९॥

प्रविशत्याशु हृदयं दैवाद् वा कर्मणो ऽपि वा ।
हृदयोत्सवरूपा या या समानमनःशया ॥६-२.१.१०॥

समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः ।
या पाशभूता सर्वेषाम् इन्द्रियाणां परैर्गुणैः ॥६-२.१.११॥

यया वियुक्तो निस्त्रीकम् अरतिर् मन्यते जगत् ।
यस्या ऋते शरीरं ना धत्ते शून्यम् इवेन्द्रियैः ॥६-२.१.१२॥

शोकोद्वेगारतिभयैर् यां दृष्ट्वा नाभिभूयते ।
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् ॥६-२.१.१३॥

अपूर्वामिव यां याति नित्यं हर्षातिवेगतः ।
गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति ॥६-२.१.१४॥

सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः ।
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् ॥६-२.१.१५॥

शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः ।

आयुर्वेददीपिका


रूपादिव्यतिरेकेणापि काचित् कस्यचित् कर्मवशाद्वृष्या स्त्री भवतीति दर्शयन्नाह नानेत्यादि ॥१॥

दैवयोगादिति प्राक्तनकर्मवशात् ॥२॥

विवर्धन्त इति वृष्यत्वं सम्पादयन्ति ॥३॥

हावो नरं प्रति स्त्रीणां शृङ्गारचेष्टाविशेषः ॥४॥

उक्तं च भरतेन प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः ॥५॥

तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः इति ॥६॥

दैवाद् इति प्राक्तनकर्मणः ॥७॥

कर्मण इति ऐहिकाद्वशीकरणादिकर्मणः ॥८॥

मनःशयः कामः ॥९॥

पाशभूतेति मनैन्द्रियबन्धहेतुत्वात् ॥१०॥

नानाभावा हि मानवाः इत्यनेन रूपादिगुणयोगेन सर्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति ॥११॥


अच्छायश् चैकशाखश् च निष्फलश्च यथा द्रुमः ॥६-२.१.१६॥

अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः ।
चित्रदीपः सरः शुष्कम् अधातुर् धातुसंनिभः ॥६-२.१.१७॥

निष्प्रजस् तृणपूलीति मन्तव्यः पुरुषाकृतिः ।
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ॥६-२.१.१८॥

मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ।
बहुमूर्तिर् बहुमुखो बहुव्यूहो बहुक्रियः ॥६-२.१.१९॥

बहुचक्षुर् बहुज्ञानो बह्वात्मा च बहुप्रजः ।
मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवान् अयम् ॥६-२.१.२०॥

बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः ।
प्रीतिर्बलं सुखं वृत्तिर् विस्तारो विपुलं कुलम् ॥६-२.१.२१॥

यशो लोकाः सुखोदर्कास्तुष्टिश् चापत्यसंश्रिताः ।
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥६-२.१.२२॥

वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च ।
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् ॥६-२.१.२३॥

वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम् ।

आयुर्वेददीपिका


सम्प्रति वृष्यप्रयोगसाध्यस्य पुत्रस्योपादेयेतां दर्शयन्नाह अच्छाय इत्यादि ॥१॥

एकशाख इति एकस्वरूप इत्यर्थः ॥२॥

चित्रलिखितो दीपश्चित्रदीपः ॥३॥

अधातुर् धातुसंनिभ इति असुवर्णादिरूपः सुवर्णादिवद् आभासते यो जातुषकङ्कणादिः ॥४॥

पूली नपुंसकधर्मित्वात् ॥५॥

तृणपूली पुरुषाकृतिरिति भाषया पुरुषार्थक्रियाविरहित्वं दर्शयति ॥६॥

कामसुखानि चेत्यनेन पुत्रोत्पादातिरिक्तं नातिश्लाघ्यं फलं दर्शयति ॥७॥

कामसुखानि हि ऐहिकान्येव परं न पुत्रवद् उभयलोकोपकारकाणि ॥८॥

उपभोगे मैथुने सुखं कुर्वन्तीत्युपभोगसुखाः किंवा उपभोक्तुं सुखा उपभोगसुखाः ।
वीर्यं शुक्रम् ॥९॥


शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुबालिका ॥६-२.१.२४॥

शतावरी पयस्या च विदारी कण्टकारिका ।
जीवन्ती जीवको मेदा वीरा चर्षभको बला ॥६-२.१.२५॥

ऋद्धिर् गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा ।
एषां त्रिपलिकान् भागान् माषाणाम् आढकं नवम् ॥६-२.१.२६॥

विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत् ।
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ॥६-२.१.२७॥

आत्मगुप्ता मधूकानि खर्जूराणि शतावरी ।
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक् ॥६-२.१.२८॥

सर्पिषश् चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक् ।
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः ॥६-२.१.२९॥

शर्करायास्तुगाक्षीर्याश् चूर्णैः प्रस्थोन्मितैः पृथक् ।
पलैश् चतुर्भिर् मागध्याः पलेन मरिचस्य च ॥६-२.१.३०॥

त्वगेलाकेसराणां च चूर्णैर् अर्धपलोन्मितैः ।
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक् ॥६-२.१.३१॥

पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् ।
एष वृष्यः परं योगो बृंहणो बलवर्धनः ॥६-२.१.३२॥

अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।

आयुर्वेददीपिका


काण्डेक्षुः बृहदिक्षुः ॥१॥

इक्षुबालिका खग्गालिका ॥२॥

पयस्या क्षीरविदारी ॥३॥

वीरा क्षीरकाकोली ॥४॥

फल्गुः काष्ठोदुम्बरिका ॥५॥

शतावरीत्यन्तेन कल्कच्छेदः ॥६॥

वंशरोचना तुगाक्षीरी अन्ये वंशरोचनानुकारि पार्थिवद्रव्यं तालधीति वदन्ति ॥७॥

स्त्याना इति घनाः ॥८॥


माषाणामात्मगुप्ताया बीजानामाढकं नवम् ॥६-२.१.३३॥

जीवकर्षभकौ वीरां मेदाम् ऋद्धिं शतावरीम् ।
मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम् ॥६-२.१.३४॥

रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ।
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥६-२.१.३५॥

दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् ।
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक् ॥६-२.१.३६॥

भागांश्चतुष्पलांस् तत्र पिप्पल्याश्चावपेत् पलम् ।
पलं पूर्वमतो लीढ्वा ततोऽन्नम् उपयोजयेत् ॥६-२.१.३७॥

य इच्छेदक्षयं शुक्रं शेफसश् चोत्तमं बलम् ।

आयुर्वेददीपिका


द्वितीयप्रयोगे रसे इति क्वाथे ॥१॥


शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् ॥६-२.१.३८॥

गोधूमचूर्णषष्ठानि सर्पिष्य् उत्कारिकां पचेत् ।
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ॥६-२.१.३९॥

सुगन्धे प्रक्षिपेद् उष्णे यथा सान्द्रीभवेद् रसः ।
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः ॥६-२.१.४०॥

अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः ।
बलवर्णस्वरकरः पुमांस्तेन वृषायते ॥६-२.१.४१॥

आयुर्वेददीपिका


उत्कारिका मूषिकोत्कराकारा ॥१॥

शिखितित्तिरिहंसानां पिण्डरसैर् व्यस्तसमस्ताश् चत्वारः पिण्डरसाः ॥२॥


घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे ।
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ॥६-२.१.४२॥

ईषत् सलवणं युक्तं धान्यजीरकनागरैः ।
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ॥६-२.१.४३॥

चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे ।
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ॥६-२.१.४४॥

नवसर्पिषि संतप्तान् फलाम्लान् कारयेद् रसान् ।
मधुरान्वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ॥६-२.१.४५॥

तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः ।
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥६-२.१.४६॥

माषसूपेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम् ।
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् ।
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा ।
तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥६-२.१.४७॥

निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत् ॥६-२.१.४८॥

हंसबर्हिणदक्षाणाम् एवमण्डानि भक्षयेत् ॥६-२.१.४९॥

आयुर्वेददीपिका


निशीत्यनेन सकलनिशामैथुने ऽपीति दर्शयति ॥१॥

हंसेत्यादि हंसबर्हिदक्षाणाम् अण्डप्रयोगा यद्यपि भिन्नाः तथापि प्रयोगापेक्षया एक एवायं प्रयोगः ॥२॥

एवं संग्रहोक्ताः हंसबर्हिदक्षाणाम् एकप्रयोगेण पञ्चदशप्रयोगाः पूर्यन्ते ॥३॥


स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले ।
वृषायते तेन परं मनुष्यस् तद्बृंहणं चैव बलप्रदं च ॥६-२.१.५०॥

तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः ।
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ॥६-२.१.५१॥

आयुर्वेददीपिका


वृष्ययोगाश्च शुद्धदेहैरेव कर्तव्या इति दर्शयन्नाह स्रोतःस्वित्यादि ॥१॥

मितमिति मात्रावत् ॥२॥

क्लिष्टे इति म्लाने ॥३॥


वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या ।
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ॥६-२.१.५२॥

दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः ।
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः ॥६-२.१.५३॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः ॥६-२.१.५४॥

आयुर्वेददीपिका


संग्रहे यस्य चैव येति यस्य या वृष्येत्यर्थः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hepatollenticular

  • यकृत-मसूरिका-- 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site