TransLiteral Foundation

चिकित्सास्थान - वाजीकरणाध्याय ४

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


वाजीकरणाध्याय ४
अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः ॥६-२.४.१॥

इति ह स्माह भगवानात्रेयः ॥६-२.४.२॥

आयुर्वेददीपिका


पारिशेष्यात् पुमाञ्जातबलादिक उच्यते ॥१॥

पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः आसिक्तक्षीरिकवच्छब्दसिद्धिः ॥२॥


पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत् ।
यथा चापत्यवान् सद्यो भवेत् तद् उपदेक्ष्यते ॥६-२.४.३॥

न हि जातबलाः सर्वे नराश् चापत्यभागिनः ।
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः ॥६-२.४.४॥

सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः ।
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ॥६-२.४.५॥

नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम् ।
गजवच्च प्रसिञ्चन्ति केचिन् न बहुगामिनः ॥६-२.४.६॥

कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः ।
केचित्प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः ॥६-२.४.७॥

तस्मात् प्रयोगान्वक्ष्यामो दुर्बलानां बलप्रदान् ।
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान् ॥६-२.४.८॥

पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः ।
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान् ॥६-२.४.९॥

घृततैलरसक्षीरशर्करामधुसंयुताः ।
वस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ॥६-२.४.१०॥

आयुर्वेददीपिका


जातबलत्वे सत्य् अपि नावश्यम् अपत्यभागित्वं भवतीति वा यथा जातबलः इत्युक्तेऽपि यथा चापत्यवान् भवेत् युक्तम् ॥१॥

तदेव शुक्रवैचित्र्यं स्फोटयति न हीत्यादि ॥२॥

न हि जातबलाः सर्वे इत्येकः पक्षः तथा नरा नापत्यभागिनः सर्व इति द्वितीयः पक्षो ज्ञेयः ॥३॥

एतच्छुक्रबलभेदप्रसङ्गाद् अपरानपि शुक्रबलविशेषान् आह बृहच्छरीरा इत्यादि ॥४॥

अल्पाश्रया अल्पशरीराः एते च शुक्रसारत्वेन नरीषु बलवन्तो बहुप्रजाश्च भवन्ति ॥५॥

गजवत् प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति ॥६॥

कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः ॥७॥

अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति ॥८॥

एवं प्रयत्नैर् व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते ॥९॥

सुखोपभोगान् इति सुखानुष्ठानान् ॥१०॥

निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम् ॥११॥


पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे ।
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ॥६-२.४.११॥

वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे ।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ॥६-२.४.१२॥

यथा न भिन्द्याद् गुलिकास् तथा तं साधयेद् रसम् ।
तं पिबन् भक्षयंस् ताश्च लभते शुक्रमक्षयम् ॥६-२.४.१३॥

मांसानाम् एवम् अन्येषां मेद्यानां कारयेद्भिषक् ।
गुटिकाः सरसास् तासां प्रयोगः शुक्रवर्धनः ॥६-२.४.१४॥

आयुर्वेददीपिका


वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः ॥१॥

दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम् ॥२॥

दाडिमसारश्च दाडिमरसः ॥३॥

मांसानामित्यादि अतिदेशयोगो द्वितीयः ॥४॥

मेद्यानामिति मेदुराणाम् ॥५॥


माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान् ।
घृताढ्ये माहिषरसे दधिदाडिमसारिके ॥६-२.४.१५॥

प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः ।
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् ॥६-२.४.१६॥

आयुर्वेददीपिका


अजडा शूकशिम्बी ॥१॥

भुक्तः पीतश्चेति पूर्वयोगवद् धनभागस्य भोजनं द्रवस्य च पानं ज्ञेयम् ॥२॥


आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत्स गच्छेत् स्त्रीषु न क्षयम् ॥६-२.४.१७॥

घृतभृष्टान् रसे छागे रोहितान् फलसारिके ।
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत् ॥६-२.४.१८॥

आयुर्वेददीपिका


मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति ॥१॥

फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम् ॥२॥


कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः ।
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत् ॥६-२.४.१९॥

माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत् ।
रसे चानुगते मांसं पोथयेत्तत्र चावपेत् ॥६-२.४.२०॥

मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम् ।
माषपूपलिकानां तद्गर्भार्थम् उपकल्पयेत् ॥६-२.४.२१॥

एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ ।
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ ॥६-२.४.२२॥

आयुर्वेददीपिका


कुट्टकमिति कुट्टनेनाणुशः कृतम् ॥१॥


माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम् ।
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ॥६-२.४.२३॥

संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत् ।
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम् ॥६-२.४.२४॥

शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः ।
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च ॥६-२.४.२५॥

अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च ।
तत्सर्वं मूर्छितं तिष्ठेन् मार्त्तिके घृतभाजने ॥६-२.४.२६॥

मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत् ।
एष वृष्यः परं योगो बल्यो बृंहण एव च ॥६-२.४.२७॥

आयुर्वेददीपिका


इक्षुरकः कोकिलाक्षः ॥१॥


शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः ।
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक् ॥६-२.४.२८॥

साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः ।
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत् ॥६-२.४.२९॥

आयुर्वेददीपिका


शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः ॥१॥


घृतपात्रं शतगुणे विदारीस्वरसे पचेत् ।
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ॥६-२.४.३०॥

शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च ।
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम् ॥६-२.४.३१॥

गुटिकाः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम् ।
तासां प्रयोगात्पुरुषः कुलिङ्ग इव हृष्यति ॥६-२.४.३२॥

आयुर्वेददीपिका


पादांशिकैरिति घृतापेक्षया पादप्रमाणैः ॥१॥


सितोपलापलशतं तदर्धं नवसर्पिषः ।
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम् ॥६-२.४.३३॥

सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले ।
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत् ॥६-२.४.३४॥

शुद्धा उत्कारिकाः कार्याश् चन्द्रमण्डलसंनिभाः ।
तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः ॥६-२.४.३५॥

आयुर्वेददीपिका


समुत्कीर्येति विस्तीर्य ॥१॥

उत्कारिकाः कार्या इत्यत्र पुनः पाके नैवोत्कारिकाकरणम् ॥२॥


यत् किंचिन् मधुरं स्निग्धं जीवनं बृंहणं गुरु ।
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ॥६-२.४.३६॥

द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत् ।
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ॥६-२.४.३७॥

गत्वा स्नात्वा पयः पीत्वा रसं वानु शयीत ना ।
तथास्याप्यायते भूयः शुक्रं च बलमेव च ॥६-२.४.३८॥

यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते ।
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम् ॥६-२.४.३९॥

नर्ते वै षोडशाद् वर्षात् सप्तत्याः परतो न च ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥६-२.४.४०॥

अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियं व्रजन् ।
उपशुष्येत सहसा तडागमिव काजलम् ॥६-२.४.४१॥

शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् ॥६-२.४.४२॥

जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात् ।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात् ॥६-२.४.४३॥

क्षयाद्भयादविश्रम्भाच्छोकात्स्त्रीदोषदर्शनात् ।
नारीणामरसज्ञत्वाद् अविचाराद् असेवनात् ॥६-२.४.४४॥

तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते ।
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥६-२.४.४५॥

आयुर्वेददीपिका


अनुक्तवाजीकरणं संगृह्णन्नाह यत्किंचिद् इत्यादि ॥१॥

भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति ॥२॥

आत्मवेगेनेति संकल्पजातेनात्मवेगेन ॥३॥

बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाभूयिष्ठतां च दर्शयति ॥४॥

ननु तृप्तस्य शरीरबलं भवत्येव तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यम् इत्याह देहेत्यादि ॥५॥

एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोर् उपहतत्वाद्धर्षो न भवति हर्षाभावाद् व्यवायशक्तिर् न भवतीत्युक्तं भवति ॥६॥


रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा ।
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ॥६-२.४.४६॥

तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात् ।
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात्पटादिव ॥६-२.४.४७॥

हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद् गौरवादपि ।
अणुप्रवणभावाच्च द्रुतत्वान् मारुतस्य च ॥६-२.४.४८॥

अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते ।
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ॥६-२.४.४९॥

आयुर्वेददीपिका


सम्प्रति सम्भवति शुक्रं यथा देहे स्थितं यथा च प्रवर्तते तदाह रस इत्यादि ॥१॥

इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति ॥२॥

संस्पर्शन इति संस्पर्शनवति तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति ॥३॥

स्त्रीपुरुषसंयोगो मिश्रीभावः ॥४॥

चेष्टा व्यवायचेष्टा संकल्पो योषिदनुरागः पीडनं नारीपुरुषयोः परस्परसम्मूर्छनम् अत्र च नारीपुरुषसंयोगः प्रधानं कारणं तत्सहकारीणि चेष्टादीनि ॥५॥

आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति ॥६॥

अपरमपि शुक्रप्रवृत्तिहेतुमाह हर्षाद् इत्यादि ॥७॥

हर्षः संकल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकरीच्छा ॥८॥

तर्षः वनिताभिलाषः ॥९॥

सरत्वम् अस्थैर्यम् ॥१०॥

अणुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः ॥११॥

द्रुतत्वान् मारुतस्य चेति शुक्रप्रेरकस्य वायोर् अभिद्रवणशीलत्वाद् इत्यर्थः ॥१२॥

एते च यद्यपि हेतवस्तथापि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः ॥१३॥

चरत इति नानामानुषपश्वादिजातिषु भ्रमतः ॥१४॥

विश्वरूपस्येति आत्मनः ॥१५॥

तथा ह्य् आत्मपर्यायेषूक्तं विश्वकर्मा स च विश्वरूपः इति ॥१६॥

रूपद्रव्यमिति रूपप्राक्तनकारणम् ॥१७॥

एतेन अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुर् इत्युक्तं भवति ॥१८॥

शुक्रं चेह प्रकरणागतत्वेनोक्तं तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम् ॥१९॥


बहलं मधुरं स्निग्धम् अविस्रं गुरु पिच्छिलम् ।
शुक्लं च यच्छुक्रं फलवत्तदसंशयम् ॥६-२.४.५०॥

आयुर्वेददीपिका


प्रशस्तशुक्रगुणान् आह बहलमित्यादि ॥१॥


येन नारीषु सामर्थ्यं वाजीवल्लभते नरः ।
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ॥६-२.४.५१॥

आयुर्वेददीपिका


वाजीकरणशब्दनिरुक्तम् आह येनेत्यादि ॥१॥

व्रजेच्चाभ्यधिकम् इति पुनः पुनर्गच्छेत् व्यज्यते इति वा पाठः तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते ॥२॥

व्यज्यात् इति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः ॥३॥

अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते यथा शुक्रवृद्धिकरं च माषादि तथा स्रुतिकरं संकल्पादि शुक्रस्रुतिवृद्धिकरं क्षीरादि ॥४॥

यदुक्तमन्यत्र शुक्रस्रुतिकरं किंचित् किंचिच्छुक्रविवर्धनम् ॥५॥

स्रुतिवृद्धिकरं किंचित् त्रिविधं वृष्यमुच्यते इति ॥६॥

त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति ॥७॥


हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः ।
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनाद् अनु ॥६-२.४.५२॥

यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः ।
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ॥६-२.४.५३॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः ॥६-२.४.५४॥

समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः ॥६-२.४.५५॥

आयुर्वेददीपिका


हेतुरित्यादि ॥१॥

संग्रहो व्यक्तः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:29.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

self fertilisation

  • न. स्वयंफलन 
  • न. स्वयंनिषेचन 
  • स्वनिषेचन, स्वफलन, स्वयंफलन 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site