TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

फलदीपिकाः - विंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


विंशोऽध्यायः

अन्तर्दशाफल भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन ।

यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण ॥१॥

लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः ।

उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥२॥

पाकेऽर्थनाथस्य कुटुम्बसिद्धिं सत्पुत्रिकाप्तिं सुखभोजनं च ।

प्राप्नोति वाग्जीविकया धनानि वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥३॥

शौर्ये सवीर्ये सहजानुकूल्यं सण्तोषवातश्रिवणं च शौर्यं ।

सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम् ॥४॥

बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति ।

क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये ॥५॥

पुत्रप्राप्तिं बन्धुविलासं नृपतीनां साचिव्यं वा धीशदशायां बहुमानम् ।

प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति ।

श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥६॥

रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे । अरोगतानुदारतामधृष्यतामतिश्रियम् ॥७॥

सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः ।

करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये ॥८॥

ऋणविमोचनमुच्छ्रतिमात्मनः कलहकृत्यनिवृत्तिमुपैति सः ।

महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः ॥९॥

स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै- र्भाग्यंश्रियं चानुभवत्यजस्त्रम् ।

श्रेयांसि कार्याण्यवनीशपूजां भाग्येशदाये विजदेवभक्तिम् ॥१०॥

यत्कार्यमारब्धमुपैत्यनेन तस्यैव सिद्धिं सुखजीवनं च ।

कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं मानोन्नतिं कर्मपतेर्दशायाम् ॥११॥

एश्वर्यमव्याहतमिष्टबन्धु- समागमं भृत्यजनांश्च दासान् ।

संसारसौभाग्यमहोदयं च लभेत लाभाधिपतेर्दाशायाम् ॥१२॥

व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने ।

अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥१३॥

वक्रगस्य निजतुङ्गसुहृत्- सुस्थानगस्य दशाफलमेवम् ।

शत्रुनीचगृहमौढ्यषडन्त्य- छिद्रगस्य तु फलान्यपि वक्ष्ये ॥१४॥

दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् ।

जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥१५॥

दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना- मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् ।

मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥१६॥

वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना- मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् ।

चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् ॥१७॥

जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् ।

रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥१८॥

पूर्वोपासितदेवकोपमशुभं जायातनूजापदं दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले ।

यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो- भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् ॥१९॥

श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं भवपवयसि दैन्यं वञ्चनं कर्णरोगम् ।

बहुरुजमपमानं बन्धनं सर्वसम्पत्- क्षयमपरशशीवाऽयाति रिःफेशदाये ॥२०॥

मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ ।

यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥२१॥

वर्गोत्तमांशस्थदशा शुभप्रदा मिश्रैव सा चास्तमिते च नीचगे ।

मृत्युव्ययारीशदशापहारयो- स्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥२२॥

क्रूरग्रहस्यैव दशापहारे त्रिपञ्चसप्तर्क्षपतेविपाके ।

तथैव जन्माष्टमनाथभुक्तौ चोरारिपीडां लभतेऽतिदुःखम् ॥२३॥

शनेश्चतुर्थी च गुरोस्तु षष्ठी दशा कुजाह्योर्यदि प~चमी सा ।

कष्ट भवेद्राश्यवसानभाग- स्थितस्य दुःस्थानपतेस्तथैव ॥२४॥

उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य कर्मायगस्य हि दशा विदधाति राज्यम् ।

जित्वा रिपून्विपुलवाहनसैन्ययुक्तां राज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥२५॥

स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा लाभेऽपि वाऽस्तरहितो न च पापयुक्तः ।

तस्याब्दपाकसमये बहुरत्नपूर्णो धीमान्विशालविभवो जयति प्रशस्तः ॥२६॥

नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे ।

शुभेतरास्त्वेषु गताः प्रयच्छ- न्त्यमोघदुःखानि दशासु तेषम् ॥२७॥

दशेशत्रोररिगेहभाजो लग्नेशशत्रोरपि वाऽथ भुक्तौ ।

शत्रोर्भयं स्थानलयः तदास्य स्निग्धोपि शत्रुत्वमुपैति नूनम् ॥२८॥

यद्भावगः पाकपतिर्दशेशात्- तद्भावजातानि फलानि कुर्यात् ।

विपक्षरिःफाष्टमभावगश्चेद्- दुःखं विदध्यादितरत्र सौख्यम् ॥२९॥

स्वोच्चत्रिकोणस्वहितारिनीचे पूर्णं त्रिपादार्द्धपदाल्पशून्यम् ।

क्रमाच्छुभं चेदशुभं विलोमाट् मूढे ग्रहे नीचसमं फलं स्यात् ॥३०॥

मन्दमान्द्यगुखरेशरन्ध्रपाः- तन्नवांशपतयोऽपि ये ग्रहाः ।

तेषु दुर्बलदशा मृतिप्रदा कष्टभे चरति सूर्यनन्दने ॥३१॥

मृतीशनाथस्थितभांशकेशयोः खरत्रिभागेश्वरयोर्बलीयसः ।

दशागमे मृत्युयुक्तभांशक- त्रिकोणगे देवगुरौ तनुक्षयः ॥३२॥

चतुष्टयस्था गुरुजन्मलग्नपा भवन्ति मध्ये वयसः सुखप्रदाः ।

क्रमेण पृष्ठोभयमस्तकोदय- स्थितोऽन्त्यमध्यप्रथमेषु पाकदः ॥३३॥

यद्भावगो गोचरतो विलग्नात्- दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।

तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥३४॥

बलोनितो जन्मनि पाकनाथो मौढ्यं स्वनीचं रिपुमन्दिरं वा ।

प्राप्तश्च यद्भावमुपैति चारात्- तद्भावनाशं कुरुते तदानीम् ॥३५॥

दशेशस्य तुङ्गे सुहृद्भे दशेशात् त्रिषत्कर्मलाभत्रिकोणास्तभेषु ।

यदा चारगत्या समायाति चन्द्रः हुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥३६॥

पाकप्रभुर्गोचरतः स्वनीचं मौढ्यं यदायाति विपक्षभं वा ।

कष्टं विदध्यात्स्वगृहं स्वतुङ्गं वक्रं गतः सौख्यफलं तदानीम् ॥३७॥

पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् ।

नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥३८॥

येन ग्रहेण सहितो भुजगाधिनाथ- स्तत्खेटजातगुणदोषफलानि कुर्यात् ।

सर्पान्वितः स तु खगः शुभदोऽपि कष्टं दुःखं दशान्त्यसमये कुरुते विशेषात् ॥३९॥

द्वावर्थकामाविह मारकाख्यौ तदीश्वरस्तत्र गतो बलाढ्यः ।

हन्ति स्वपाके निधनेश्वरो वा व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् ॥४०॥

केन्द्रेशस्य सतोऽसतो.शुभशुभौ कुर्याद्दशा कोणपाः सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः ।

रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥४१॥

कोणाधीशः केन्द्रगः केन्द्रपो वा कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः ।

द्वावप्येतौ भुक्तिकाले दशाया- मन्योन्यं तौ योगदौ सोपकारौ ॥४२॥

न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।

भवाशुभफलं नॄणामात्मभावानुरूपतः ॥४३॥

आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः ।

तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् ॥४४॥

केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।

सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको ॥४५॥

त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।

केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥४६॥

केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ ।

अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः ॥४७॥

योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः ।

तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् ॥४८॥

स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् ।

दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् ॥४९॥

केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ।

मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥५०॥

बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः ।

पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥५१॥

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।

नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ ॥५२॥

तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् ।

अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥५३॥

आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।

प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः ॥५४॥

रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ- रन्ध्रत्रिभागाधिपमान्दिभेशाः ।

दुःखप्रदास्तेष्वपि दुर्बलो यः स नाशकारी स्वदशापहारे ॥५५॥

भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत्सा सुहृदुच्चभागे ।

आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ॥५६॥

शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि ।

तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥५७॥

तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च ।

वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥५८॥

दशापतिर्लग्नगतो यदि स्यात् त्रिषट्दशैकादशगश्च लग्नात् ।

तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा लग्ने शुभो वा शुभदा दशा स्यात् ॥५९॥

यावन्ति वर्षणि दशा च सा स्यात्- चारक्रमात्तत्र दशापतिः सः ।

यत्र स्थितस्तद्भवनाद्विधोस्तु स्थितेः प्रकल्प्यं सदसत्फलं हि ॥६०॥

दशाधिनाथस्य सुहृद्गृहस्थ- स्तदुच्चगो वाऽथ दशाधिनाथात् ।

स्मरत्रिकोणोपचयोपगश्च ददाति चन्द्रः खलु सत्फलानि ॥६१॥

उक्तेषु राशिषु गतस्य विधोः स राशिः स्याज्जन्मकालभवमूर्तिधनादिभावः ।

तत्तद्विवृधिकृदसौ कथितो नराणां तद्भावहानिकृदथेतरराशिसंस्थः ॥६२॥

सारावलीमुडुदशां च वराहहोरा- मालोक्य जातकफलं प्रवदेन्नराणाम् ।

प्रश्नोदयग्रहवशादथ वा स्वजन्म- राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-13T05:31:33.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

puboprostatic

  • जघन-पुरःस्थ- 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.