TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

फलदीपिकाः - चतुर्दशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


चतुर्दशोऽध्यायः

रोगनिर्णय रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः ।

रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसम्वादवशाद्वदन्तु ॥१॥

पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज- व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् ।

काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् ॥२॥

निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः ।

चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद् दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् ॥३॥

तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान् गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् ।

भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् ॥४॥

भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान् दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् ।

गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः ॥५॥

गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान् देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् ।

रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् ॥६॥

पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान् गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् ।

दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी- यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् ॥७॥

वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान् भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् ।

भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः ॥८॥

स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् ।

ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत् प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् ॥९॥

मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक् शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् ।

सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः ॥१०॥

षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् ।

राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् ॥११॥

जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः ।

रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् ॥१२॥

ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य ।

ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता ॥१३॥

अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु- ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः ।

पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात् स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि ॥१४॥

कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः ।

कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः ॥१५॥

लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् ।

निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा ॥१६॥

पैत्त्यज्वरोष्णैर्जठराग्निनाजे वृषे त्रिदोषैर्दनाच्च शस्त्रात् ।

युग्मे तु कालश्चसनोष्णशूलै- रुन्मादवातारुचिभिः कुलीरे ॥१७॥

मृगज्वरस्फोटजशत्रुजं हरौ स्त्रियां स्त्रियागुह्यजा प्रपातनात् ।

तुलाधरे धीज्वरसंनिपातजं प्लीहालिपाण्डुग्रहणीरुजालिनि ॥१८॥

वृक्षाम्बुकाष्टायुधजं हयाङ्ग मृगे तु शूलाचिधीभ्रमाद्यैः ।

कुम्भे तु कासज्वरयक्ष्मरोगै- र्जले विपद्वा जलरोगतोऽन्त्ये ॥१९॥

पापर्क्षयुक्ते निधने सपापे शस्त्रानलव्याध्रभुजङ्गपीडा ।

अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ कोपात्प्रभोः शस्त्रविषाग्निजैर्वा ॥२०॥

सौम्यांशके सौम्यगृहेऽथ सौम्य- सम्बन्धगे वा क्षयभे क्षयेशे ।

अक्लेशजातं मरणं नराणां व्यस्ते तदा क्रूरमृती वदन्ति ॥२१॥

स्वोच्चे स्वमीत्रे सति सौम्यवर्गे व्ययाधिपे चोर्ध्वगती ससौम्ये ।

विपर्ययेऽधोगतिमेव केचित्- उर्ध्वस्यशीर्षोदयराशिभेदात् ॥२२॥

केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः ।

द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥२३॥

धर्मेश्वरेणैव हि पूर्वजन्म वृत्तं भविष्यज्जननं सुतेशात् ।

तदीशजातीं तदधिष्ठितर्क्ष दिशं हि तत्रैव तदीशदेशम् ॥२४॥

स्वोच्चे तदीशे सति देवभूमी द्वीपन्तरं नीचरिपुस्थ्नलस्थे ।

स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव ॥२५॥

आर्यवर्तं गीष्पतेः शुयनद्यः काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि ।

पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः सौलारण्यं कीकटं भूमिजस्य ॥२६॥

स्थिरे स्थिरांशाधिगतः सपापः पृष्ठोदयेऽधोमुखभे च संस्थः ।

तदीश्वरो वृक्षलतादिजन्म स्यादन्यथाजीवयुतः शरीरी ॥२७॥

लग्नेशितुः स्वोच्चसुहृत्स्वगेहान् तदीश्वरो याति मनुष्यजन्म ।

समे मृगाः स्युवीहगाः परस्मिन् द्रेक्काणरूपैरपि चिन्तनीयम् ॥२८ ॥

ताधेकराशौ जननं स्वदेशे तौ तुल्यवीर्यौ यदि तुल्यजातौ ।

वर्णो गुणस्तस्य खगस्य तुल्यः संज्ञोदितैरेव वदेत्समस्तम् ॥२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-13T05:23:46.8070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दांडू

  • m  The bat at the game of trap-stick. 
  • न. विटीदांडू इ० खेळांतील खेळण्याची लहान काठी , दांडके . [ दांड ] 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.