वेंकटेश्वर माहात्म्य - त्रयोदशोऽध्याय

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


॥ जनक उवाच ॥

तत किमकरोत्कृष्णो श्रीनिवास सतांगति ॥ तन्ममाचक्ष्व विपेंद्र यत्कृतं चक्रपाणिना ॥१॥

शतानंद उवाच ॥

एवं काले गते तस्मिन्षण्मासाश्र्च समत्ययु ॥ नारायणपुराद्दूत आगतो वेंकटेश्र्वरम् ॥२॥

दूतं दृष्ट्वाब्जजाता सा सुवर्णमुखरीजले ॥ स्नातुकामारविंदाक्षी दूतं वचनमब्रवीत् ॥३॥

पद्मावत्युवाच ॥

किमर्थ मागतो दूत केन त्वं प्रेषितास्त्विह ॥ राज्ञा वा राजपुत्रेण तोंडमानेन वा पुन ॥४॥

पप्रच्छ कुशलं तं च राज्ञस्तस्य पितुस्तथा ॥ कुशलीवर्त्तते चार जनको जननी मम ॥५॥

तोंडमान्राजशार्दूल कुशली वर्तते बली ॥ राज्ञ प्रकृतय सर्वा वर्तते क्षेमसंयुता ॥६॥

एवमुक्तस्तदा दूतो दुखसंदिग्धलोचन ॥ उवाच दीनया वाचा राजपुत्रीं निदेशत ॥७॥

दूत उवाच ॥

किं वदिष्यामि हे मात पितुस्ते कालआगत ॥ मरणाभिमुखो भूत्वा किंचिज्जीसमन्वित ॥८॥

त्वां द्रष्टुकामो राजेंद्र श्रीनिवास सुहृद्वृतम् ॥ नय शीघ्रं पतिं भद्रे राजधानीं पितुस्तु ते ॥९॥

सापि दूतवच श्रुत्वा पपात गतचेतना ॥ अगस्त्यभार्या तां बालामुत्थाप्य कमलालयाम् ॥१०॥

श्रीनिवासांतिकं निन्ये राजपुत्रीं पितृप्रियाम् ॥ तद्वार्तामवदद्देवी श्रीनिवासाय विष्णवे ॥११॥

तच्छ्रत्वा वासुदेवस्तु रुदोद नरवत्प्रभु ॥

श्रीनिवास उवाच ॥

अहो बत महत्कष्टं संप्राप्तं मम भामिनी ॥१२॥

किं करोमि क्व गच्छामि ब्रूहि त्वं पद्मसंभवे ॥ इत्येवमुत्क्वा तां देवीमब्रवीत्कुंभसंभवम् ॥१३॥

श्रीभगवानुवाच ॥

अगस्त्य मुनिशार्दूल गच्छामि नगरं प्रति ॥ पद्मावत्या सहाद्यैव सार्धं बकुलमालया ॥१४॥

इत्युत्क्वा प्रययौ राजन्भगवान्भक्तवत्सल ॥ अगस्त्येनापि सहितस्त्वरयैव महर्षिणा ॥१५॥

आदित्येऽस्तंगते राजन्नगरद्वारमागत ॥ पप्रच्छ द्वारपालांश्र्च राजक्षेमं सुरेश्र्वर ॥१६॥

राजमार्गे महाराज भगवान्वियया सह ॥ अंतर्निकेतनं प्राप्य राजानं पृथिवीपते ॥१७॥

शयानं दर्शयामास विनिश्र्वाससभन्वितम् ॥ पपातास्य महाराज काये कमललोचन ॥१८॥

मुखे मुखं विनिक्षिप्य ललाटं च ललाटके ॥ उदरे चोदरं बध्वा नेत्रं नेत्रे समर्पयत् ॥

अंगंसंग ददौ तस्य श्र्वशुरस्य महात्मन ॥१९॥

हा तात नाथ क्व महिपते त्वं संत्यज्य देहं स्वसुतं स्वपुत्रीम् ॥

स्वभ्रातारं सूक्ष्ममति सराष्ट्रकं राज्यं त्वदीयं क्व विसृज्य गच्छसि ॥२०॥

माता पितृविहीनानामस्माकं जनको भवान् ॥२१॥

कथं पश्यामि नेत्राभ्यां त्वन्मुखांभोजमुत्तमम् ॥ उत्थापय सुतां राजन्रुदंतीं तनयं तथा ॥२२॥

वसुदानं शिशुं राजन्पितृहीनं च मां नृप ॥ कस्त्राता त्वां विना राजन्नस्माकं तु भविष्यति ॥२३॥

अनाथान्नाथ न पाहि प्रजा पाहि प्रजापते ॥ प्रलपन्पुनरप्याह लोकानित्थं विडंबयन् ॥२४॥

कलेवर कथं दास्याम्यग्नये लोकमोहनम् ॥ एतदर्थं स्वपुत्रीं मे दत्वा मृतिमवाप्स्यसि ॥२५॥

श्रीनिवास न गच्छेति पूर्वमेव त्वयोदितम् ॥ उल्लंघितं मया तात न श्रुतं ते महिपते ॥२६॥

न तृप्तं नेत्रयुगलं दृष्ट्वा त्वन्मुखपंकजम् ॥ तोंडमान्मंडलाधीश वसुधायां महामते ॥२७॥

का गतिर्मम राजेंद्र का वार्ता क्व भविष्यति ॥ विलोकय महाराज मां च पद्मावतीं तथा ॥२८॥

मुनिरुवाच ॥

जामातायं समायात पद्मावत्या समन्वित बहिर्गच्छ पुरेव त्वं समानयनकारणात् ॥२९॥

भोजनं तस्य जामातु परितोषकं ॥ गजानश्र्वान्महाराज वस्त्राणीच्छति ते सुता ॥३०॥

तां ददस्व महाराज प्रीतये मधुघातिन ॥ इत्यगस्तेन वै राज्ञि बोधितेऽप्यप्रवोधिनि ॥

विललाप महाराज भगवॉंलौकिकै सम ॥३१॥

तदद्भुतं कर्म चकार देवो विडंबयन्सर्वजनं जगत्पति ॥ यथा कुरूणां रणरंमध्ये कर्णे हते धर्मराजश्र्चकार ॥३२॥

एवं रुदति गोविंदे राजाकाशश्र्च सन्नृप ॥३३॥

किंचित्संज्ञायुतो भूत्वा वासुदेवमभाषत ॥

राजोवाच ॥

पुत्रं सभ्रातरं त्राहि श्रीनिवास निरामय ॥३४॥

इत्युक्त्वा भूपती राजन्करे कृष्णस्य तौ ददौ ॥ भार्यां संदेशयामास स्वलोकगमनाय च ॥३५॥

इत्यादिश्य त्यजन्प्राणान्सत्यलोकं जनाधिप ॥ दिव्यं विमानमारूढो जगाम स नृपोत्तम ॥३६॥

सापि तेन जगामाशु धरणी राजसत्तम ॥ ततश्र्चितां समारोप्य राजानं सपरिग्रहम् ॥३७॥

वसिष्ठो गौतमोऽत्रिश्र्च भरद्वाजोऽतिविश्रुत ॥ दहंतो राजशार्दूलं श्रीनिवासप्रिय नृप ॥३८॥

जुहुवुब्रह्ममेधेन मंत्रैश्र्च विधिपूर्वकम् ॥ तत कृतानि सर्वाणि प्रेतकार्याणि भूपते ॥३९॥

षोडशे दिवसे प्राप्ते मासिकान्यकरोत्सुत ॥ निमंत्रिताश्र्चारुपुण्या ब्राह्मणा वेदपारगा ॥४०॥

कश्यपोऽमित्रर्भरद्वाजो विश्र्वामित्रोऽथ गौतम ॥ वामदेव पुलस्त्योऽथ वाल्मीकिर्वसुधाधिप ॥४१॥

जमदग्निर्भृगु श्रीमान्सनंदश्र्च पराशर ॥ याज्ञवल्क्यश्र्च जाबालि शुनशेपोऽथ कोहल ॥४२॥

एते महर्षयो राजन्राजार्थे ब्राह्मणोत्तमा ॥ अभुंजतान्नसारं च श्रीनिवासनिमंत्रिता ॥४३॥

समाप्य सर्वकार्याणि हरि स्वस्थानमास्थित ॥ पद्मावतीं पुरस्कृत्य पुराणपुरुषोत्तम ॥४४॥

अगस्त्यालयमासाद्य सुखामास्त सुरेश्र्वर ॥ मृते राज्ञि गते कृष्णे कलह प्रत्यपद्यत ॥४५॥

तोंडमान्नृपतेस्तस्य विष्वक्सेनस्य भूमिप ॥

तोंडमान उवाच ॥

ज्येष्ठे मृते कनिष्ठस्य राज्यमेतद्विदो विदु ॥४६॥

परंपरार्जितं हीति तोंडनब्रवीत्सुतम् ॥

वसुदान उवाच ॥

पराक्रम्यार्जितं राज्यं पित्रा मम नृपोत्तम ॥४७॥

ममैव स्यादिदं हीति तोंडमानं सुतोऽब्रवीत् ॥ एवं विवादमापन्नौ तोंडमान्नृपपुत्रकौ ॥४८॥

राजशार्दूल राज्यार्थमुभावपि महाबलौ ॥ समयं कृतवंतौ तौ युध्दे यस्य जयो भवेत् ॥४९॥

तस्यराज्यमिदं सर्वमन्यथा यो वज्रेदिति ॥ कृत्वा समयमारब्धौ संगरं जयकांक्षिणौ ॥५०॥

नानादेशात्किरातांश्र्च क्षत्रियान्युद्धदुर्मदान् ॥ आवाहयच्च राजेंद्र तोंडमान्युद्धदुर्मद ॥५१॥

अक्षोहिणीद्वयं तेन सैन्य संपादितं नृप ॥ तावद्राजकुमारेण मिलितं सैन्यमक्षयम् ॥५२॥

नारायणपुरप्रांते दक्षिणे रणमेदिनीं ॥ कृत्वा साहाय्याशया राजंस्तोंडमान्राजनंदनौ ॥

संप्रासौ वासुदेवस्य चरणौ शरणंगतौ ॥५३॥

तावागतौ राजकुमारराजौ दृष्ट्वातिवेगेन स चालिलिंगे ॥ संभाष्य दत्वापि च रत्नपीठं प्रीत्यातिहृष्टो वचनं बभाषे ॥५४॥

श्रीनिवास उवाच ॥

किमर्थमागमस्तात तन्ममाचक्ष्व भूमिप ॥५५॥

श्रीनिवासवच श्रुत्वा शालकस्तमभाषत ॥

शालक उवाच ॥

युद्धं प्रसक्तं गोविंद कनिष्ठजनकेन मे ॥५६॥

राज्यार्थं मम साहाय्यं कुरु वारिजलोचन ॥ बालोऽस्मि तिहीनोऽहमसहायोऽस्मि देवराट् ॥५७॥

शालकस्य वच श्रुत्वा राजा तं वाक्यमब्रवीत् ॥

राजोवाच ॥

श्रीनिवासारविंदाक्ष कुरु कार्यं पुरस्थितं ॥५८॥

श्रीनिवास उवाच ॥

एकोऽहं कस्य साहाय्यं करिष्ये नृपसत्तम ॥ तमेवमुक्त्त्वा भगवानंतरर्भवनमभ्यगात् ॥५९॥

पद्मावती विशालाक्षीं पद्मनाभोऽभ्यभाषत ॥ श्रीनिवास उवाच ॥ कल्याणी कार्यमापन्नं महत्कष्टतरं मम ॥६०॥

तव भ्राता वरारोहे कनिष्ठजनकस्तव ॥ राज्यार्थं कलहं कृत्वा मम साहाय्यकांक्षिणी ॥६१॥

छिंधि संदेहमधुना कस्य साह्यं विधीयताम् ॥ नियोजयस्व मां देवि युक्तमालोच्य विस्तरात् ॥६२॥

पद्मोवाच ॥

धर्माधर्मौ मनुष्याणां सर्वदा संस्थितौ हरे ॥ धर्ममेव प्रशंसंति सर्वदा ब्रह्मवादिन ॥६३॥

धर्व एव त्वया कार्यो धर्भाधारो भवानिह ॥ बालक पितृहीनश्र्च मातृहीनोऽधन कुश ॥६४॥

तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम ॥ स राजा बहुवित्ताढ्यो राज्यकांक्षी पितुर्मम ॥६५॥

स एव सर्वधर्मज्ञस्तौडमान्नृपसत्तम ॥ सर्वधर्मस्य वेत्तात्त्वमालोचयितुमर्हसि ॥६६॥

पद्मावतीवच श्रुत्वा शालकस्यैव साह्यकृत् ॥ तोंडमान्नृपतेर्दिव्ये शंखचक्रे ददौ हरि ॥६७॥

उच्चैश्रवसमं चाश्र्वं समारुह्य खगध्वज ॥ जगाम युध्दकुशल शालकेनाथ संगत ॥६८॥

चैत्र शुक्लत्रयोदश्यां युद्धंपरमदारुणम् ॥ कुरूणां पांडवानां च यथा युद्धं तथाभवत् ॥६९॥

रणस्तंभे महाघोरे हत्वापशुगणानपि ॥ शूराणा रणधीराणां संमर्दस्तु बभ्रौ तदा ॥७०॥

सिंहनाद शंखनादस्तथादुंदुभिनिस्वन ॥ शास्त्राणामस्त्रमुख्यानां गजानां च महास्वन ॥७१॥

हयानां वृषभाणां च रथानां च परस्परम् ॥ पद्मगृध्रव्यूहकारी तयोर्मध्ये जगत्पति ॥७२॥

रराज भगवान्साक्षाद्रणमंडलभ्यगात् ॥ विष्वक्सेनस्तोंडमानं दशभि सायकैर्नृप ॥७३॥

जघान वक्षसि क्रुद्ध सोपिविंशतिभिर्नृप ॥ ताडयामास राजेंद्रमर्धचंद्ररैजिह्मगै ॥

श्रीनिवासस्तोंडमानराजपुत्रौऽतिबालक ॥७४॥

शराणां पंचसाहस्त्रं श्रीनिवासस्य वक्षसि ॥ ताडयामास वेगेन सर्वान्विस्मापयन्जनान् ॥७५॥

तोंडमानोऽपि राजर्षिर्विष्वक्सेनं च माधवं ॥ वासुदेवो राजपुत्रं बाणैर्दशभिरेव च ॥७६॥

जधान तरसा बालं तदद्भुतामिवाभवत् ॥ वतुर्भिश्र्चतुरो वाहान्बाणेनैकेन सारथिम् ॥

छत्रमेकेन राजेंद्र रथं पंचेषुभिस्तथा ॥७७॥

रथादवप्लुत्य महानुभाव सराजपुत्रस्त्रिदलं च चक्रम ॥ चिक्षेप कृष्णे च हयोत्तमे च वक्षस्थले वासववज्रकल्पम् ॥७८॥

तेनाविविद्धो निपपात भूमौ चक्रेण चक्रांकितबाहुदंड ॥ शेषाचलेशो रणरंगगामिनो मनुष्यभावेन विडंबयन्जनान् ॥७९॥

मूर्छामुपागम्य हयोत्तमाद्धरिर्यथा मनुष्यो रणरंगमध्यत ॥ तथा ह्यसौ देवगणस्य मध्ये सविस्मयोत्फुल्लविलोचनस्य ॥८०॥

तदा प्राकारमारूढा राजपुत्री हरिप्रिया ॥८१॥

अगस्त्यमब्रवीद्राजंश्र्चक्रपाणोर्निपातनम् ॥

पद्मावत्युवाच ॥

अगस्त्य पश्य गोविंदं पतितं रणमंडले ॥८२॥

अवस्था किमियं प्राप्ता रणे कृष्णेन दृश्यताम् ॥ मूर्च्छा गतोवा किमयं मनो मे भ्रमते मुने ॥८३॥

किमत्र कार्यं यांगींद्र तन्ममाचक्ष्व कुंभज ॥ पद्मावतीवच श्रुत्वा पद्मनाभं च संस्मरन् ॥८४॥

उवाच वचनं श्र्लाघ्यं राजन्कालोचितं मुनि ॥

अगस्त्य उवाच ॥

देशकालावातिक्रम्य य कर्म कुरुते नर ॥८५॥

न स गच्छेत्कर्मफलं न सुखं विंदते नर ॥ सर्वे स्वकार्ये निपुणा परकार्ये न कश्र्चन ॥८६॥

नालोकयति को वापि त्वपतिं पतितं रणे ॥ क्षत्रियाणां शरीराणि रणरंगगतानि च ॥८७॥

विकसत्संगरोत्साह कौतुकान्युत्तरोत्तरम् ॥ जीवंति कुसुमायंते सजीवानि सतांप्रिये ॥८८॥

निर्जीवानि तु तान्येव वीक्षते नैव कश्र्चन ॥ आजीवमेव शूरेभ्य कार्यं गृह्येत राजभि ॥८९॥

तस्मात्त्वद्वल्लभदशां न कोऽप्यत्रानुशोचति ॥ तस्मात्त्वमस्यभद्रेच्छुर्निवर्तय पतिं रणात् ॥९०॥

स्त्रीणां तु परमो धर्म पतिभक्ति पतिप्रिये ॥ भद्रं ते भ्रातुरेव स्यात्कनिष्ठापितुरेववा ॥९१॥

एवं मत्वा महाभागे कुरु त्वं त्वद्रतेर्हितम् ॥ मनसो मम कल्याणि संधियत्न प्रशस्यते ॥९२॥

तावुभौ राजकर्त्तारौ पितापुत्रौ न संशय ॥ इत्युक्ता तेन राजपुत्री समुत्थिता ॥९३॥

प्राकारान्मुनिना सार्धं संग्रामधरणीं ययौ ॥ आंदोलिकां महाराज हेमदंडविभूषिताम् ॥९४॥

आरुह्य राजतनया श्रीनिवासपरायणा ॥ गरुडध्वजमालोक्य पतितं पृथिवीतले ॥९५॥

रणाग्रे स्वपतिं कृष्णं श्रीनिवासं सुरेश्र्वरम् ॥ सखड्गं वर्म सहितं समुत्थाप्य रणांगणे ॥९६॥

सशीतलोदकामोदैर्व्यजनै सममार्जयत् ॥ पद्मावत्यब्रवीच्चापि शोचंती तं पतिव्रता ॥९७॥

पद्मावत्युवाच ॥

उत्तिष्ठ रणभूम्यास्त्वं त्यक्त्वा मूर्च्छां खगध्वज ॥९८॥

इति विज्ञापितो देव्या पद्मावत्या तदा नृप ॥ मुहूर्तमात्रं गोविंदो नरलोकं विडंबयन् ॥९९॥

मूर्च्छागत इव स्थित्वा प्रबुद्ध इव चोत्थित ॥ उत्थाय रणभूम्यां स पश्र्यन्दशदिशो हरि ॥१००॥

ददर्श स्वप्रियां राजन्स्थितां पद्मावतीं विभु ॥ भुकुटीकृतनेत्रस्तु गर्हयन्वाक्यमब्रवीत् ॥१॥

श्रीनिवास उवाच ॥ अस्मिन्रणाजिरे घोरे वनितानां प्रयोजनम् ॥ किमस्ति मुनिशार्दूल द्रुतमेषाद्य गच्छतु ॥२॥

इत्थमुक्तो भगवता पद्मावत्या सहागत ॥ अगस्त्य श्रीनिवासं तं प्रत्यभाषत तापस ॥३॥

अगस्त्य उवाच ॥

संधिरत्र प्रकर्त्तव्य श्रीनिवास सतांगते ॥ उत्तिष्ठ शालकं बालं समानय नृपोत्तमम् ॥४॥

तोंडमानं महाराजं तत्सुतं तं महाबलम् ॥ श्रीनिवासाभिधानं च तव रोषकरं हरे ॥५॥

समाधानं कर्तुकामा संप्राप्तैषा रणांगणे ॥ शोचंती तव दुखेन भ्रातुश्र्च मरणं प्रति ॥६॥

अगस्त्यवचनं श्रुत्वा किंचित्क्रोधसमन्वित ॥ भर्त्सयन्पद्मनयनां संग्रामस्थलमागताम् ॥७॥

अयुक्तं योषितां धीमन्संग्रामागमनं मुने ॥ अथाहं तोंडमानस्य शिर कायाद्धराम्यहम् ॥८॥

तत्सुतं तं महाभागं श्रीनिवासं महाबलम् ॥ हत्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते ॥९॥

वासुदेववच श्रुत्वा साष्टांगं प्रणिपत्य सा ॥ कृतांजलिपुटा भूत्वा देवं वाक्यमभाषत ॥११०॥

श्रीपद्मावत्युवाच ॥

स्वामिन्नाथारविंदाक्ष श्रीनिवास कृपानिधे ॥ दयां कुरु दयासिंधो भक्तानामभयं कुरु ॥११॥

किमनेन जगन्नाथ लोकनाशनकारिणा ॥ उभौ राज्यस्य कर्तारौ भवतां राजसत्तमौ ॥१२॥

विभज्य राज्यं सर्वं च कोशं देहि रमापते ॥ स्वस्त्यस्तु सर्वलोकेभ्य पित्रे चापिकनीयसे ॥१३॥

प्रसादात्तव गोविंद निवर्त्तस्व रणांगणात् ॥ इति प्रियावच श्रुत्वा श्रीनिवास उवाच ताम् ॥१४॥

श्रीनिवास उवाच ॥

क्षत्रधर्म न जानासि त्वं गच्छाद्य रणांगणात् ॥ अथाहं तोंडमानस्य सपुत्रस्य रणे शिर ॥१५॥

पातयिष्ये महासंख्ये पश्यतां सर्वदोहिनाम् शालकार्थं म्रिये चापि नात्र कार्या विचारणा ॥१६॥

इत्युक्ता सा कंपमाना मुनिमाह कृपानिधिम् ॥ पद्मावत्युवाच ॥ निवर्तय रणात्त्वं वा वेंकटेशं मुनीश्र्वर ॥१७॥

इति विज्ञापितो देव्या लोपामुद्रापतिस्तदा ॥ मुनि प्रोवाच राजेंद्र श्रीनिवासं रणप्रियम् ॥१८॥

सांत्वयित्वा श्रीनिवासं विष्वक्सेनं महीपतिम् ॥ विभक्तं कुरु गोविंद राज्यं कोशं तयोरिति ॥१९॥

अगस्त्यवचनं श्रुत्वा तोंडमानं नृपात्मजम् ॥ समाहूयाह वचनं संधिकारो जनार्दन ॥१२०॥

श्रीनिवास उवाच ॥

किं ते मनोगतं राजन्नित्युक्तो वाक्यमब्रवीत् ॥

तोंडमान उवाच ॥

त्वमेव गतिरस्माकं त्वय्येव रमते मन ॥२१॥

तच्छूत्वा तं समाहूय शालकं वाक्यमब्रवीत् ॥

श्रीभगवानुवाच ॥

भगिनी ते पितृव्यस्य संधिं शालक वाञ्छति ॥२२॥

हृद्रतं तव यद्ब्रहि सत्यं तत्पृथिवीपते ॥ वासुदेववच श्रुत्वा विष्वक्सेनोऽ भ्यभाषत ॥२३॥

राजपुत्र उवाच ॥ शासने तव गोविंद स्थितोऽहं सर्वदा हरे ॥ यथैवेच्छा तव हरे तथैव कुरु केशव ॥२४॥

इति विज्ञापितस्ताभ्यामुभाभ्यां वेंकटेश्र्वर ॥ संधिं चकार राजेंद्र श्रीनिवासस्तयोस्तदा ॥२५॥

तदा राज्यं विभज्यात्र हस्त्यश्र्वरथसंयुतम् ॥ धनं कोशं तथा गा्रमान्दुर्गाणि नगराणि च ॥२६॥

विविच्य सर्वराज्यं च वस्त्रमास्तीर्यदेवराट् ॥ ययाचे षोडशं भागं राजानं राजनंदनम् ॥२७॥

भवद्भिस्तु रणं कृत्वा वृथा मरणमिच्छत ॥ दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा ॥२८॥

इत्येवं श्रीनिवासेन पृष्ठौ राजनृपात्मजौ ॥ ददतुस्तौ महाराज ग्रामान्द्वात्रिंशतं हरे ॥२९॥

तोंडमानं प्रतिष्ठाप्य तोंडराज्ये तदा हरि ॥ विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृप ॥३०॥

तद्भृहे भोजनं कृत्वा शालकस्य गृहे तथा ॥ स्वयं भुक्त्वा भोजयित्वा पद्मावत्यनुगो ययौ ॥३१॥

अगस्त्यनिलयं राजञ्छ्रीनिवास सतां गति ॥ मुमुदे रमया सार्धं भगवान्छुभदर्शन ॥३२॥

य इदं पुण्यमाख्यानं शृणुयाच्छ्रावयेच्चय ॥ श्रीनिवासप्रसादात्स सर्वमंगलवान्भवेत् ॥३३॥

इति श्रीभविष्योत्तर पुराणे श्रीवेंकटाचलमा तोंडमानयुद्धप्रशंसनं नाम त्रयोदशोऽध्याय ॥१३॥

N/A

References : N/A
Last Updated : April 19, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP