वेंकटेश्वर माहात्म्य - षष्ठोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


श्रीसूत उवाच ॥

कदाचिद्वकेंटेशस्तु चिंतयामास वै हयम् ॥ मनसा चिंत्यमाने तु हयः प्रत्यक्षतां गतः ॥१॥

वायुश्वरत्वमापन्नो रज्जुस्तत्त्वाभिमानिनी ॥ उपासर्यत्स्वयं लक्ष्मीस्ततोऽश्वं तं स पूजयन् ॥ तस्योपरि समातिष्ठत्सर्वाभरणभूषितः ॥२॥

शुभ्रवस्त्रं पंचदशहस्तं विभ्रत्तथोपरि ॥ कांची बध्वा रमाकांतः कांचीदामविराजितः ॥३॥

शुभ्रवस्त्रं परीधाय पंचहस्तं तथादधत् ॥ आदर्शालोकितं कृत्वा धृत्वा शुभ्रां च मृत्तिकान् ॥४॥

तनमध्ये कुंकुमस्यापि तिलकं सुमनोहरम् ॥ पूगीफलं सतांबुलं चूर्णनिक्षिप्तपात्रकम् ॥५॥

आदर्श मृत्तिकां शुभ्रा तथा मकूकुंभाजनम् ॥ स्वर्णनिर्मितवस्त्रेण बध्वा तु कटिमध्यतः ॥६॥

स्वर्णयज्ञोपवीतांगः कंण्थाभरणभूषितः ॥ कंकणांकितदार्भ्यां वै संपूर्णवरगात्रकः ॥७॥

भुजकीर्य्ता रत्नमय्या राजमानोङ्‌गुलीयकैः ॥ कुंकूमाक्तसुंगधेन लिप्तांगबरराजितः ॥८॥

कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्ट्य च ॥ लंबितैः पुष्पजालैश्च स्कंधगैः परिभूषितः ॥ सुवर्णरत्नसंवद्धपादुकागूहितांघ्रिक ॥९॥

धनुर्बाणधरः श्रीमान्साक्षान्मन्मथमन्मथः ॥ एवं मनोहरं रूपं धृत्वा श्रीवेंकटेश्वरः ॥१०॥

हयं रत्नसमाकीर्णमुपबर्हणभूषितम् ॥सुवर्णतिलकोल्लासिवक्रं वायुमनोजवम् ॥११॥

नीलवर्णं पांडुपादं हस्तं पंचदशान्नतम् ॥ आरुह्य देवमण्यादिसर्वंलक्षणसंयुतम् ॥१२॥

अवरुह्य गिरिश्रेष्ठं मृगयार्थं जगाम सः ॥ मृगानबहुविधाकारान् सिंहशार्दूलजंबुकान् ॥१३॥

मातंगाञ्शरभान्धोरान्नेणान्वै महिषानपि ॥ जघान विपिने देवः संचरन्स इतस्ततः ॥

तत्रैकं हस्तिपं दृष्ट्‌वा मदमत्तं वनेचरम् ॥ तं हंतुमगमत्पृष्ठमनुसुत्य रमापतिः ॥१४॥

स जगाम वने दूरं भयाद्वीतो वृषाकपेः ॥ योजनं सार्धकं गत्वा तत्र देवं जनार्दनम् ॥१५॥

दंडवत्पतितो भूत्वा शुंडामुद्यम्य गर्जयन् ॥ यदा नतस्तदा कन्या दृष्टिमार्गमुपागता ॥१६॥

ऋषय ऊचुः ॥ सा कन्या कस्य संबद्धा किमर्थं वनमागता ॥ कस्येयं तनया सर्वं तद्वदस्व महामते ॥१७॥

इति तैश्च समाज्ञप्तः सूतः परमधार्मिकः ॥ उवाच वचनं भक्त्या संतोषोद्रिक्तमानसः ॥१८॥

सूत उवाच ॥ शृण्वंतु मुनयः सर्व कन्याया जन्म पावनम् ॥ पुरा तु द्वापरस्यांते पांडवानां महात्मनाम् ॥१९॥

युद्धे तु भारतेऽतीते अष्टाविंशतिमे कलौ ॥ विक्रमार्कादयो भूपाः स्वर्गलोकं यदा ययुः ॥२०॥

तत्कालान्ते वत्सराणां सहस्त्रे च समागते ॥ चंद्रवंशे नृपः कश्चित्सुवीर इति नामकः ॥२१॥

जज्ञे सुधर्मस्तत्पुत्रस्तत्सुतौ नृपपुंगवौ ॥ आकाशतोंडमानाख्यौ सर्वलोकयशस्करौ ॥२२॥

धर्मिष्ठौ दृढभक्तौ तौ नारायणपरायणै ॥ ज्येष्ठो वियन्नृपः साघुः कनिष्टस्तोंडमान्नृपः ॥२३॥

तोंडदेशाधिपो भूत्वा शशास पृथिवीमिमाम् ॥ रक्षमाणे नृपे तस्मिन् जना धर्मपरायणाः ॥२४॥

निरांतकमभूबत्सर्वं जगत्स्थवरजंगमम् ॥ गावो बहुपयोदाश्च नार्यः पतिपरायणाः ॥२५॥

कदाचित्पुत्रकांक्षी च एकांते भवने स्थितः ॥ अपुत्रो नृपतिर्दुःखाद्‌गुरु प्रोवाच भक्तितः ॥२६॥

आकाशराज उवाच ॥ अनुभूतमिदं राज्यं हस्त्यश्वरथसंकुलम् ॥ नानादानं कृतं चैव तीर्थयात्रा विशेषतः ॥२७॥

नानुभूंत पुत्रसौख्यं पितृणं मुक्तिदं द्विज ॥ किं मया चरितं पापं कस्य पुत्रो हतः पुरा ॥२८॥

तेन पापेन विपेंद्र न प्राप्तं पुत्रजन्म मे ॥ नेत्राभ्या नैव दृष्टं च पुत्रस्य मुखपंकजम् ॥२९॥

कर्णाम्यां न श्रुतः शब्दः पुत्रेण रुदता कृतः ॥ द्विजेंद्र पितृबंधूंना दुर्गतिश्च भवेत्ततः ॥३०॥

अपुत्रस्य गतिर्नास्ति इति वेदविदो विदुः ॥ पुत्रेण रुक्मपात्रे तु न भक्तं हि मया सह ॥३१॥

मदंके कृतभूषश्च लालितो न मया सुतः ॥ पापिष्ठोऽहं दुराचारी ह्यपुत्रोहं दरिद्रवान् ॥३२॥

भूषणानि कृतान्यद्य पुत्रार्थं यत्नतो मया ॥ तेषां प्राप्तो न मे जातः पुत्रः पितृहिते रतः ॥३३॥

पुत्रार्थं कवचं कृत्वा इत एहीति नोदितम् ॥ पुत्रहीनं च मां दृष्ट्‌वा कर्षंति यमकिंकराः ॥३४॥

गच्छ राजन् त्वरेणैव यमस्य भवनं प्रति ॥ पाशकंठितसर्वांगः किमु वक्ष्याम्यपुत्रवान् ॥३५॥

लिखितं चित्रगुप्तेन ह्यपुत्रत्वं महामते ॥ मद्भर्भजातपुत्रेण मार्जनं तु कदा भवेत् ॥३६॥

दुराचारातिदुर्बुद्धे ह्यपुत्रेति यमेन च ॥ भाषितं वचनं श्रुत्वा कः पुमान् स्थातुमुत्सहेत् ॥३७॥

नष्टदीपोतिनैष्टुर्यः कष्टोद्‌भूतकलेवरः ॥ वृथा जातोतिपापात्मा आत्मानं नरकावहम् ॥३८॥

पुत्रहीनं कुलंचापि ह्यनीरं कूपगव्हरम् ॥ भर्तृहीनां यथा लोका निंदंति जनसंसदि ॥३९॥

किं करोमि मंहीदेव क्व गच्छाम्यद्य का गतिः ॥ कं देवं शरणं गत्वा भवाब्धिं प्रतराम्यहम् ॥४०॥

रुदंतं पुत्रमालोक्य वाचं प्रेम्णाथ वा मया ॥ नोदेति मा रुदस्वेति विनिंद्यात्मसती रुषा ॥४१॥

पयः संपाययेत्याभून्नोचेत्त्वां ताडयाम्यहम् ॥ घंटां च प्रतिमां देहि पुत्रस्य फलकंदुकौ ॥४२॥

गजमारोप्य तनयं कुरु ग्रामप्रदक्षिणम् ॥ सभां गच्छाम्यहं राज्ञि तथा तालस्वनेनच ॥४३॥

वाल्ये न जातकर्माणि तथा पुत्राभिधं द्विज ॥ कवचं कारयित्वा तु शिरोभूषणमद्‌भुतम् ॥४४॥

केशभूषणमत्यर्थं रत्नवज्रसमाकुलम् ॥ भूषयित्वां शिशुं नाहमालोक्य प्रीतिमाप्तवान् ॥४५॥

अंकमारोप्य तनयं न मया लालितः सुतः ॥ नोपनीतोतिप्रीत्यैव सुतो मे पंचवार्षिकः ॥४६॥

अष्टमे वाऽथ दशमे न कृतो दारसंग्रहः ॥ तेनार्जितं धनं ब्रह्मन्नोपजीवितमद्य मे ॥४७॥

अभिषिच्य सुतं राज्ये भार्यया कृतभोजनम् ॥ न गतं च वनं ब्रह्मन् पारंपर्यागतं मम ॥४८॥

अहो दरिद्रस्य महानुभाव सत्पुत्रहीनस्य गतिर्भवेत्का ॥ वृथा शरीरं घटकुड्यसन्निभं जातं सुधर्मस्यकुले सुपुण्ये ॥४९॥

मनुष्याणामनाथानां दुर्लभ पुत्रजन्म च ॥ बहुपुण्यवशात्पुत्रो जायते मानवोदरे ॥५०॥

अस्माकमतिपापानां कन्यका नैव चाभवत् ॥ सत्पुत्री नैव संजाता धर्मसंतानसंज्ञिका ॥५१॥

वरदाच्युत रंगेश जगन्नाथ जगद्‌गुरो ॥ सुब्रह्मण्य सुराधीश कृपां कुरु कुपानिधे ॥५२॥

वेंकटेश रमाकांत वराहवदनाच्युत ॥ नारायण नगाधीश रामकृष्ण नमोस्तु ते ॥५३॥

सुपुत्रवन्तःखलु भाग्यवंतो ह्यपुत्रवन्तः खलु भाग्यहीनाः ॥

संसारसागरसमुत्तरणे ह्यशक्ताः का नो गतिः कर्मफलानुभोगिनाम् ॥५४॥

एवमुक्त्वा महीदेवं विरराम महीपतिः ॥ कांल्लोकान्हा गमिष्यामि क्रूरं वा नरकं गुरो ॥५५॥

क उपायो महाप्राज्ञ पुत्रलाभे द्विजोत्तम ॥ इति राजवचः श्रुत्वा गुरुर्वाक्यमुवच तत् ॥५६॥

गुरुरुवाच यज्ञं कुरु नृपश्रेष्ठ पुत्रस्तेन भविष्यति ॥ गुरोर्वाक्यं समाकर्ण्य यज्ञार्थं शोधयद्धराम्‍ ॥५७॥

स्वर्णलांगलसंघेश्च द्विजमंत्रगणैस्तथा ॥ शोध्यमाने धरापृष्ठे तत्र पद्मं ददर्श सः ॥

सहस्त्रपत्रं राजेंद्रः किमिदं विस्मयाकुलः ॥५८॥

विस्तीर्णपत्रेषु रमाकृतिं शुभां दृष्ट्‌वा च संतोषमना बभूव ॥ दैवेन दत्तां भगवत्प्रचोदितां कन्यां कुमारी कुसुमाभ नेत्राम् ॥५९॥

इत्थं समाभाष्य नृपोत्तमः शिशुं हस्ते प्रगृह्याशु मुमोद दीनः ॥ माया महेशस्य दुरत्यया हरेः कस्यै प्रदेया प्रतिगृह्यता मया ॥६०॥

उवाचाकाशगा वाणी पुत्रीयं तव पुण्यदा ॥ संरक्षस्व महाभाग बहुकीर्तिफलप्रदाम् ॥६१॥

इत्यनंतगतां वाणी श्रुत्वा राजा च हर्षितः ॥ तां कन्यां प्रतिगृह्याशु स्वभार्यां प्रत्युवाच सः ॥६२॥

शृणु भद्रे महाप्राज्ञि देवदत्तामिमां शुभाम् ॥ संवर्धस्व वरां पुत्रीं यथा गर्भंगता तव ॥६३॥

इत्युक्त्वा तस्करे दत्वा बहुदानमथाकरोत् ॥ कन्यागमनपुण्येन सा देवी गर्भमादघे ॥६४॥

गर्भिणी स्वसती दृष्ट्‌वा गर्भचिन्ह चकार सः ॥ षंचमे मासि संप्राप्ते सीमंतं नृपपुंगवः ॥६५॥

कारयामास विधिवद्‌ब्राह्मण्यैर्यजुषां गणैः ॥ ततः कालांतरे बाला नवमासे समागते ॥६६॥

मासे त दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ॥ मासे कन्यागते भानौ दशम्यां रोहिणीयुते ॥६७॥

पक्षे तु प्रथमे वीरः सायंकाले गुरोर्दिने ॥ पुत्रोत्पत्तिप्रवक्तृणां सर्वस्वं दानमाचरत् ॥६८॥

गवां कोटिसहस्त्राणि अश्वानामयुत तथा ॥ नवधान्यादिकं दानं विना तौ छत्रचामरौ ॥६९॥

स्नानं कृत्वा नृपश्रेष्ठः स्वस्तिवाचनमाचरत ॥ जातकर्मादिकं कर्म कृतवान् तत्क्षणे नृपः ॥७०॥

दिवसे द्वादशे प्राप्ते कृता पुत्राभिधा तथा ॥ तद्दिने बहुविप्राणां भोजनं कृतवान्नृपः ॥७१॥

नाम्ना तु वसुधानेति लोके ख्याति गमिष्यति ॥

ऋषय ऊचुः ॥ शृतं पुत्रप्रभावं च न शृतं मुनिपुंगव ॥ अयोनिजायास्तत्पुत्र्याः किं नाम कृतवान्नृपः ॥७२॥

सूत उवाच ॥ पद्मोदरा पद्मगर्भां पद्मजाता वराननाम् ॥ पद्माया अवतारत्वाद्राजा पद्मावतीति च ॥

कृत्वा तु नामकरणं निजपुत्र्या नृपोत्तमः ॥७३॥

वर्धमानौ सुतौ दृष्ट्‌वा राजा संतोषमागतः ॥ अकलंकेदुसदृशौ रमाचंद्रसमावुभौ ॥७४॥

किं तेन सुकृतं राज्ञा बहुजन्मार्जितं फलम् ॥ अग्रजां पुत्रिकां दृष्ट्‌वा तदंते पुत्रमुत्तमम् ॥७५॥

दृष्ट्‌वा तुतोष मनसा संपूर्णानंदसागरः ॥ एवं काले गते तस्मिन् सा बाला यौवनं गता ॥७६॥

यौवनाढ्यां विज्ञालाक्षी दृष्ट्‌वा राजा व्यचिंतयत् ॥ विचारयामास नृपः पुत्र्यर्थं वरमुत्तममं ॥७७॥

न प्राप दुःखसंतप्तः कस्मै देया मया सुता ॥ इति चिंताब्धिमन्गोभूत्पुत्रीं यौवनमागताम् ॥७८॥

दृष्ट्‌वा राजा सुतं बालं ब्राह्मणं कृतवान् द्विजैः ॥ सा कदाचिद्वनं देवी सखीभिः परिवारिता ॥७९॥

वनं जगाम पुष्पार्थं कन्या कमललोचना ॥ वसंतमागतं वीक्ष्य वने ताभिर्भयाकुले ॥८०॥

पुष्पाण्याहारयामास तरुमूलमुपाश्रिता ॥ तदागतो नारदस्तु वृद्भो भूत्वा जटाधरः ॥८१॥

धूलिधूसरितांगश्च कर्पूरसदृशद्युतिः ॥ आगतं तं मुनिं दृष्ट्‌वा विस्मयाकुलमानसा ॥८२॥

कोऽसौ भयंकरो बालाः कथमत्र विचार्यतां ॥ कन्या ऊचुः ॥ कोऽसि विप्र महाप्राज्ञ किमर्थं त्वमिहागतः ॥८३॥

वाक्यं तासां समाकर्ण्य गुरुः प्रोवाच सद्वचः ॥ नारद उवाच ॥ अहं कुलगुरुः साक्षाद्युष्माकं वरयोषिताम् ॥८४॥

हस्तं दर्शय बाले त्वं लक्षणं प्रवदामि ते ॥ उवाच लज्जया देवी किं वदिष्यासि हे द्विज ॥८५॥

नारद उवाच ॥ विद्भि त्वं पितृतुल्यं मां मनसा निर्मलेन च ॥ इत्युक्ता ऋषिणा तेन दत्वा हस्तं वरांगना ॥८६॥

सत्यं वद महाप्राज्ञ लक्षणानि वराणि मे ॥ दृष्ट्‍वा पाणितलं प्राह हसन्विधितनूद्भवः ॥८७॥

नारद उवाच ॥ पतिर्भवति धर्मज्ञे त्रिलोकेशो रमापतिः ॥ पाणीपद्मदलोपेतौ पादौ ते स्वस्तिकायुतौ ॥८८॥

मुखं चन्द्रसमाकारं चक्षुः कमलकुड्‌मलं ॥ तिलपुष्पसमाकारा नासिका ते विराजिते ॥८९॥

मुकुराभौ कपौलौ तौ भुवौ ते धनुषा समे ॥ आस्यं कर्पूरपात्रं च दंता दाडिमबीजवत् ॥९०॥

अधरं रक्तपद्माभं जिव्हा मृदुतरा शुभे ॥ अरालालकसंबद्धा असिता भाति वेणिका ॥९१॥

ललाटं रत्नपीठाभं श्रोत्रे शष्कुलिकासमे ॥ समभ्‍रूमन्मथाकारप्रतिमाऽप्रतिमप्रभा ॥९२॥

कंठः सूर्यांशुसदृशस्तांबूलरसदर्शनः ॥ स्तनौ पीनौ घनौ कुब्जौ ब्रह्मणा स्वादितावुभौ ॥९३॥

उदरं कदलीपर्णसदृशं निम्ननाभिकम् ॥ कटिस्तव करिध्वंसिकटिसाम्यमनाकुलम् ॥९४॥

रंभास्तंभसमाकारं तवोरुयुगुलं रमे ॥ पृष्ठं ते वेदिवद्भाति किं त्वया सुकृतं कृतम् ॥९५॥

गमनं करिराजस्य सदृशं ते वरानने ॥ पूर्वार्जितेन पुण्येन लभ्यते सकलं शुभे ॥९६॥

इति संभाष्य तां देवी देवर्षिः पद्मसंभवाम् ॥ अंतर्दधे नारदस्तु सर्वासां पुरतो मुनिः ॥९७॥

संस्तुत्य कमलां देवी मनसा चिंतयन् रमाम् ॥ मनसा वंदनं कृत्वा जगामाथ ऋषिस्तदा ॥९८॥

स्तुतिं रमायाः कमलोद्भवाया ऋषिश्च कृत्वा कमलोद्भवात्मजः ॥ जगाम सुस्थानमनंतशैलं नारायणस्यैव मनोहरं शुभम् ॥९९॥

इति श्रीमद्भविष्योत्तरपुराणे वेंकटेशमाहात्म्ये षष्ठोऽध्यायः ॥६॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP