अभिषेक


ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।


अभिषेक

पुण्याहवाचनोपरान्त कलशके जलको पहले पात्रमें गिरा ले । अब अविधुर (जिनकी धर्मपत्‍नी जीवित हो) ब्राह्मण उत्तर या

पश्‍चिम मुख होकर दुब और पल्लवके द्वारा इस जलसे यजमानका अभिषेक करे । अभिषेकके समय यजमान अपनी पत्‍नीको

बायी तरफ करले । परिवार भी वहां बैठ जाय । अभिषेकके मन्त्र निम्नलिखित है-
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य

ऋतसदनमा सीद ॥
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्यम् ।
सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसौ ।
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि ॥
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्‍विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि सरस्वत्यै भैषज्येन

वीर्यायान्नाद्यायाभि षिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥
ॐ विश्‍वानि देव सवितर्दुरितानि परा सुव । यद्‌भद्रं तन्न आ सुव ॥
ॐ धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः ।
सचेतसो विश्‍वे देवा यज्ञं प्रावन्तुः नः शुभे ॥
ॐ त्वं यविष्ठ दाशुषौ नृँ पाहि शृणधी गिरः ।
रक्षा तोकमुत त्मना ।
ॐ अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्र दातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्‍वे देवाः

शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥
यतो यतः समीहसे ततो नो अभयं कुरु ।
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ।
सुशान्तिर्भवतु ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥
शान्तिः पुष्टिस्तुष्टिश्‍चास्तु । अमृताभिषेकोऽस्तु ॥
दक्षिणादान - ॐ अद्य...कृतैतत्पुण्याहवाचनकर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च पुण्याहवाचकेभ्यो

ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे ।

N/A

References : N/A
Last Updated : December 15, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP