पुण्याहवाचन

ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।


पुण्याहवाचन के दिन आरम्भें वरुण-कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे । वरुण-कलशके पूजनके साथ-साथ

इसका भी पूजन कर लेना चाहिए । पुण्याहवाचनका कर्म इसीसे किया जाता है । सबसे पहले वरुणकी प्रार्थना करे ।

वरुण प्रार्थना -

ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।

पुण्यावाचनं यावत् तावत् त्वं सुस्थिरो भव ॥

यजमान अपनी दाहिनी ओर पुण्याहवाचन-कर्मके लिए वरण किये हुए युग्म ब्राह्मणोंको, जिनका मुख उत्तरकी ओर हो, बैठा ले ।

इसके बाद यजमान घुटने टेककर कमलकी कोंढ़ीकी तरह अञ्जलि बनाकर सिरसे लगाकर तीन बार प्रणाम करे । तब आचार्य

अपने दाहिने हाथसे स्वर्णयुक्त उस जलपात्र (लोटे) को यजमानकी अञ्जलिमे रख दे । यजमान उसे सिरसे लगाकर

निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंसे अपनी दीर्घ आयुका आशीर्वाद मांगे -

यजमान - ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥

यजमानकी इस प्रार्थनापर ब्राह्मण निम्नलिखित आशीर्वचन बोले-

ब्राह्मण - अस्तु दीर्घमायुः ।

अब यजमान ब्राह्मणोंसे फिर आशीर्वाद मांगे -

यजमान -

ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इत भवन्तो ब्रुवन्तु ।

ब्राह्मण - पुण्यं पुण्याहं दीर्घमायुरस्तु ।

यजमान और ब्राह्मणोंका यह संवाद इसी आनुपूर्वीसे दो बार और होना चाहिये । अर्थात् आशीर्वाद मिलनेके बाद यजमान

कलशकोसिरसे हटाकर कलशके स्थानपर रख दे । फिर इस कलशको सिरसे लगाकर-

'ॐ दीर्घा नागा नद्यो.... रस्तु'

बोले इसके बाद ब्राह्मण

'दीर्घमायुरस्तु' बोलें ।

इसके बाद यजमान पहलेकी तरह कलशको कलश-स्थानपर रखकर फिर सिरसे लगाकर

'ॐ दीर्घा नागा....रस्तु'

कहकर आशीर्वाद मांगे और ब्राह्मण

'दीर्घमयुरस्तु'

यह कहकर आशीर्वाद दें ।

यजमान - ॐ अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।

ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ॥

ॐ शिवा आपः सन्तु ।

ऐसा कहकर यजमान ब्राह्मणोंके हाथोंमें जल दे ।

ब्राह्मण - सन्तु शिवा आपः ।

अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथोंमें पुष्प दे -

यजमान - लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।

सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ सौमनस्यमस्तु ।

ब्राह्मण - 'अस्तु सौमनस्यम्'

ऐसा कहकर ब्राह्मण पुष्पको स्वीकार करें ।

अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथमें अक्षत दे-

यजमान - अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् ।

यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ अक्षतं चारिष्टं चास्तु ।

ब्राह्मण - 'अस्त्वक्षतमरिष्टं चं' । -

ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमें चन्दन, अक्षत, पुष्प आदि देता जाय

और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मङ्गल कामना करें ।

यजमान - (चन्दन) गन्धाः पान्तु ।

ब्राह्मण - सौमङ्गल्यं चास्तु ।

यजमान - (अक्षत) अक्षताः पान्तु ।

ब्राह्मण - आयुष्यमस्तु ।

यजमान - (पुष्प) पुष्पाणि पान्तु ।

ब्राह्मण - सौश्रियमस्तु ।

यजमान - (सुपारी-पान) सफलताम्बूलानि पान्तु ।

ब्राह्मण - ऐश्‍वर्यमस्तु ।

यजमान - (दक्षिणा) दक्षिणाः पान्तु ।

ब्राह्मण - बहुदेयं चास्तु ।

यजमान - (जल) आपः पान्तु ।

ब्राह्मण - स्वर्चितमस्तु ।

यजमान - (हाथ जोड़कर) दिर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।

ब्राह्मण - 'तथास्तु' -

ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें-

ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिचास्तु ।

यजमान - (अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोङ्कारमादिं

कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।

ब्राह्मण - 'वाच्यताम्' -

ऐसा कहकर निम्न मन्त्रोंका पाठ करे -।

ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥

सविता त्वा सवाना सुवतामग्निर्गृहपतीना सोमो वनस्पतीनाम् ।

बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ।

न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोजः प्रथमज ह्येतत् ।

यो बिभर्ति दाक्षायण हिरण्य स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रवः ॥

उपास्मै गायता नरः पवमानायेन्दवे । अभि देवॉं२ इयक्षते ।

यजमान - व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ ।

ब्राह्मण - समाहितमनसः स्मः ।

यजमान - प्रसीदन्तु भवन्तः ।

ब्राह्मण - प्रसन्नाः स्मः ।

इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेसे पहले सकोरेमें आमके पल्लव या दूबसे थोड़ा जल कलशसे डाले और

ब्राह्मण बोलते जाय -

पहले पात्र (सकोरे) में- ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ

आयुष्यमस्तु । ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्म समृद्धिरस्तु । ॐ धर्म

समृद्धिरस्तु । ॐ वेद समृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । धनधान्य समृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ

इष्टसंपदस्तु ।

दूसरे पात्र (सकोरे) - मे- ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ।

पुनः पहले पात्रमें -

ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः

शुभाः शोभनाः संपद्यंताम् । ॐ तिथिकरणमुहुर्तनक्षत्रसंपदस्तु । ॐ तिथिकरणमुहुर्तनक्षत्रग्रहलग्नादिदेवताः

प्रीयंताम् । ॐ तिथिकरणेमुहुर्तनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम् । ॐ दुर्गा पांचाल्यौ प्रीयेताम् । ॐ

अग्निपुरोगा विश्वेदेवाः प्रीयंताम् । ॐ इंद्रपुरोगा मरुद्‌गणाः प्रीयंताम् । ॐ वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् ।
ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । ॐ अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम् । ॐ ब्रह्म पुरोगा सर्वे

वेदाः प्रीयंताम् । ॐ विष्णु पुरोगा सर्वे देवाः प्रीयंताम् । ॐ ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् ।

ॐ ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । ॐ श्रीसरस्वत्यौ प्रीयेताम् । ॐ श्रद्धामेधे प्रीयेताम् । ॐ भगवती कात्यायनी

प्रीयेताम् । ॐ भगवती माहेश्वरी प्रीयेताम् । ॐ भगवती पुष्टिकरी प्रीयेताम् । ॐ भगवती तुष्टिकरी प्रीयेताम् ।

भगवती ॐ ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । ॐ भगवंतौ विघ्नविनायकौ प्रीयेताम् । सर्वाः

कुलदेवताः प्रीयंताम् । सर्वा ग्रामदेवताः प्रीयंताम् । ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ।

दूसरे पात्रमें -

ॐ हताश्‍च ब्रह्मद्विषः । ॐ हताश्‍च परिपंथिनः । ॐ हताश्‍च कर्मणो विघ्नकर्तारः । ॐ शत्रवः पराभवं यांतु ।

ॐ शाम्यंतु घोराणि । ॐ शाम्यंतु पापानि । ॐ शाम्यंत्वीतय । ॐ शाम्यन्तूपद्रवाः ॥

पहले पात्रामें - ॐ शुभानि वर्धंताम् । ॐ शिवा आपः संतु । ॐ शिवा ऋतवः संतु । ॐ शिवा अग्नयः संतु ।

शिवा आहुतयः संतु । शिवा ओषधयः संतु । शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे

शिवेस्त्याताम् ।

ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

ॐ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । ॐ भगवान् नारायणः

प्रीयताम् । ॐ भगवान पर्जन्यः प्रीयताम् । ॐ भगवान स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं

तदस्तु । ॐ याज्यया यत्पुण्यं तदस्तु । ॐ वषट्‌कारेण यत्पुण्यं तदस्तु । ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।

इसके बाद यजमान कलशको कलशके स्थानपर रखकर पहले पात्रमें गिराये गये जलसे मार्जन करे । परिवारके लोग भी मार्जन
करें । इसके बाद इस जलको घरमें चारों तरफ छिड़क दे । द्वितीय पात्रमें जो जल गिराया गया है, उसको घरसे बाहर एकान्त

स्थानमें गिरा दे ।

अब यजमान हाथ जोड़कर ब्राह्मणोंसे प्रार्थना करे -

यजमान - ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।

ब्राह्मण - वाच्यताम् ।

इसके बाद यजमान फिरसे हाथ जोड़कर प्रार्थना करे -

यजमान - ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।

(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

यजमान - भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः

(दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

यजमान - भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः

(तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ पुण्याहम् ।

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥

यजमान - पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।

(पहली बार) ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ कल्याणम् ।

ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।

ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।

प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।

यजमान - ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।

(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रबुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ ऋद्ध्यताम् ।

ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम ।

दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥

यजमान - ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।

(पहिली बार) विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

यजमान - ॐ समुद्रमथनाज्जाता जगदानन्दकारिका ।

(पहली बार) हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥

भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(दूसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

यजमान - भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे

(तीसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण - ॐ अस्तु श्रीः ।

ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् ।

इष्णन्निषानामुं म इषाण सर्वलोकं म इषाण ॥

यजमान - ॐ मृकण्डुनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा ।

आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥

ब्राह्मण - ॐ शतं जीवन्तु भवन्तः ।

ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

यजमान - ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।

धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥

ब्राह्मण - ॐ अस्तु श्रीः ।

ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।

पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥

यजमान - प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।

भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥

ब्राह्मण - ॐ भगवान् प्रजापतिः प्रीयताम् ।

ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥

यजमान - आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।

श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥

देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे ।

एकलिङ्गेः यथा स्वस्ति तथा स्वस्ति सदा मम ॥

ब्राह्मण - ॐ आयुष्मते स्वस्ति ।

ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।

येन विश्‍वाः परि द्विषो वृणक्ति विन्दते वसु ॥

ॐ पुण्याहवाचनसमृद्धिरस्तु ॥

यजमान - अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्

श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु ।

दक्षिणाका संकल्प - कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं

पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।

ब्राह्मण - ॐ स्वस्ति ।

N/A

References : N/A
Last Updated : December 29, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP