संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|नारदीया शिक्षा|द्वितीयः प्रपाठकः| अष्टमी कण्डिका द्वितीयः प्रपाठकः प्रथमा कण्डिका द्वितीया कण्डिका तृतीया कण्डिका चतुर्थी कण्डिका पञ्चमी कण्डिका षष्ठी कण्डिका सप्तमी कण्डिका अष्टमी कण्डिका अष्टमी कण्डिका शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : naradsanskritshikshaनारदशिक्षासंस्कृत अष्टमी कण्डिका Translation - भाषांतर कौक्षेयाग्निं सदारक्षेदश्नीयादशनं हितम्जीर्णाहारःप्रबुद्धः सन्नुषसि ब्रह्म चिन्तयेत् शरद्विषुवतोऽतीतादुषस्युत्त्थानमिष्यतेयावद्वासन्तिकी रात्रिर्मध्यमा पर्युपस्थिता आम्रपालाशबिल्वानामपामार्गशिरीषयोःवाग्यतः प्रातरुत्त्थाय भक्षयेद् दन्तधावनम् खदिरञ्च कदम्बञ्च करवीरकरंजयोःसर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः तेनास्य करणं सौक्ष्म्यं माधुर्यं चोपजायतेवर्णांश्च कुरुते सम्यक्प्राचीनौदव्रजिर्यथा त्रिफला लवणाख्येन भक्षयेच्छिक्षकः सदाअग्निमेधाजनन्येषा स्वरवर्णकरी तथा कृत्वा चावश्यकान् धर्मान् जठरं पर्युपास्य चपीत्वा धूमं घृतं चैव शुचिर्भूत्वा ततो वदेत् मन्द्रेणोपक्रमेत् पूर्वं सर्वशाखास्वयं विधिःसप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् न तां समीरयेद् वाचं या प्राणमुपरोधयेत् अप्राणानामुपरोधेन वैस्वर्यं चोपजायतेस्वरव्यञ्जनमाधुर्यं लुप्यते नात्र संशयः कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम्न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् सुतीर्थादागतं व्यक्तं स्वाम्नातं सुप्रतिष्ठितम्सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते न करालो न लम्बोष्ठो न च सर्वानुनासिकःगद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति एकचित्तो निरुद्भ्रान्तस्तान्तगानविवर्जितःस तु वर्णान्प्रयुञ्जीत दन्तोष्ठं यस्य शोभनम् पञ्च विद्यां न गृह्णन्ति चण्डास्तब्धाश्च ये नराःआलसाश्चानरोगाश्च येषां च विसृतं मनः शनैर्विद्यां शनैरर्थानारोहेत पर्वतं शनैःशनैरध्वसु वर्त्तेत योजनानां परं व्रजेत् योजनानां सहस्राणि शनैर्याति पिपीलिकाअगच्छन्वैनतेयोऽपि पदमेकं न गच्छति नहि पार्ष्णिहता वाणी प्रयोगान्वक्तुमर्हतिबधिरस्येव तल्पस्था विदग्धा वामलोचना उपांशु त्वरितं चैवं योऽधीते वित्रसन्निवअपि रूपसहस्रेषु सन्देहेष्वेव वर्त्तते पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौराजते न सभामध्ये जारगर्भा इव स्त्रियः अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु सञ्चयम्अबन्ध्यन्दिवसं कुर्याद्दानाध्ययनकर्मसु योजनानां शतं साग्रं शनैर्याति पिपीलिकाःअगच्छन् वैनतेयोऽपि पदमेकं न गच्छति यत्कीटैः पांसुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान्न तत्र बलसामर्थ्यमुद्योगस्तत्र कारणम् सहस्रगुणिता विद्या शतशः परिकीर्त्तिताआगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् हयानामिव जात्यानामर्द्धरात्रार्द्धशायिनाम्नहि विद्यार्थिनां निद्रा चिरन्नेत्रेषु तिष्ठति न भोजनविलम्बी स्यान्न च नारीनिबन्धनःसुदूरमपि विद्यार्थी व्रजेद् गरुडहंसवत् अहेरिव गणाद्भीतः सौहृद्यं नरकादिवराक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति न शठाः प्राप्नुवन्त्यर्थान् न क्लीबा न च मानिनःन च लोकरवाद्भीता न च श्वः श्वः प्रतीक्षकाः यथा खनन् खनित्रेण भूतले वारि विन्दतिएवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयातिबन्ध्येव यौवनवती न तस्य विद्या फलवती भवति द्यूतं पुस्तकवाद्यं च नाटकेषु च सक्तिकास्त्रियस्तन्द्रा च निद्रा च विद्याविघ्नकराणि षट् यथा व्याघ्री हरेत्पुत्रान् दंष्ट्राभिर्न च पीडयेत्भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताःसम्यग् वर्णप्रयोगेण ब्रह्मलोके महीयते इति द्वितीयस्याष्टमी कण्डिका इति द्वितीयः प्रपाठकः इति नारदीया शिक्षा समाप्ता N/A References : N/A Last Updated : September 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP