प्रथमा कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


सयकारं सर्वं वाप्यक्षरं स्वरितं भवेत्
न चोदात्तं पुरस्तस्य जात्यः स्वारः स उच्यते
इ उ वर्णौ यदोदात्तावापद्येते यवौ क्वचित्
अनुदात्ते प्रत्यये नित्यं विद्यात्क्षैप्रस्य लक्षणम्
ए ओ आभ्यामुदात्ताभ्यामकारो निहितश्चयः
अकारं यत्र लुम्पति तमभिनिहितं विदुः
उदात्तपूर्वं यात्किञ्चिच्छन्दसि स्वरितं भवेत्
एव सर्वत्रह्रस्वारस्तैरव्यञ्जन उच्यते
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम्
तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः
इकारं यत्र पश्येयुरिकारेणैव संयुतम्
उदात्तमनुदात्तेन प्रश्लिष्टं तं निबोधत
स्वरे चेत् स्वरितं यत्र विवृत्ता यत्र संहिता
एतत्पादान्तवृत्तस्य लक्षणं शास्त्रचोदितम्
जात्यः स्वारः स जात्येन श्रुष्ट्यग्रे क्षैप्र उच्यते
ते मन्वताभिनिहितस्तैरव्यञ्जन ऊतये
तिरोविरामो विष्कभिते प्राश्लिष्टो हीन्द्रगिर्वणः
पादवृत्तः क ईं वेद स्वाराःसप्तैवमादयः
उच्चादेकाक्षरात्पूर्वात्स्वर्यते यदिहाक्षरम्
स्वाराणां जात्यवर्ज्जानामेषा प्रकृतिरुच्यते
चत्वारस्त्वादितः स्वाराः कम्पं पुष्यन्ति शास्त्रतः
उदात्ते वैकनीचे वाजुह्वग्रिस्तत्र दर्शनम्
इति प्रथमा कण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP