द्वितीया कण्डिका
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
इकारान्ते पदे पूर्व उकारे परतः स्थिते
ह्रस्वकम्पं विजानीयान्मेधावी नात्र संशयः
इकारान्ते पदे चैवोकारद्वयपदे परे
दीर्घं कम्पं विजानीयाच्छ्रग्ध्यूष्विति निदर्शनम्
त्रयोदीर्घास्तु विज्ञेया ये च सन्ध्यक्षरेषु वै
मन्यापत्र्या न इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि
शिवकम्पं विजानीयादुदात्तः प्रत्ययो यदि
यत्रद्विप्रभृतीनिस्युरुदात्तान्यक्षराणि तु
नीचं चोच्चं च परतस्तत्रोदात्तं विदुर्बुधाः
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित्
न च वर्गद्वितीयेषु न चतुर्थे कदा चन
न चतुर्थं तृतीयेन द्वितीयं प्रथमेन तु
आद्यमन्त्यं च मध्यञ्च स्वाक्षरेणैव पीडयेत्
अनन्त्यश्च भवेत् पूर्वोऽन्त्यश्च परतो यदि
तत्र मध्ये यमस्तिष्ठेत् स वर्णः पूर्ववर्णयोः
वर्गान्त्याञ्छषसैः सार्द्धमन्तस्थैर्नापि सँय्युतान्
दृष्ट्वा यमा निवर्त्तन्त आदेशिकमिवाध्वगाः
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम्
द्वौ तृतीयौ हकारश्च हकारादि परं पदम्
अनुस्वारोपधामूलानां न क्वचित् क्रमतेपरम्
रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम्
संयोगे स्वरितं यत्र चोद्घातैः पतने यथा
पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत्
संयोगे यत्रदृश्येत् व्यञ्जनं विरते पदे
पूर्वाङ्गं तद्विजानीयाद्येनारम्भस्तत्पराङ्गम्
संयोगात्तु परं स्वर्यं परं संयोगनायकम्
संयुक्तस्य तु वर्णस्य स्वरितं पूर्वमक्षरम्
अनुस्वारः पदान्तश्च क्रमजः प्रत्यये स्वके
स्वरभक्तिस्तथा रेफः सर्वं पूर्वाङ्गमुच्यते
पादादौ च पदादौ च संयोगावग्रहेषु च
यः शब्दैति विज्ञेयो योऽन्यः स य इतिस्मृतः
पदादावप्यविच्छेदे संयोगान्ते च तिष्ठताम्
वर्ज्जयित्वा रहर्याणामयादेशः प्रदृश्यते
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्रिमः स्फुटः
अणुशेषोऽध्रिगोर्वापि युगलादिरविस्फुटः
इति द्वितीया कण्डिका
N/A
References : N/A
Last Updated : September 21, 2026

TOP