पञ्चमी कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः
चतुर्णां पदजातीनां पदान्ता दशकीर्तिताः
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च
व्यञ्जनान्वनुवर्त्तन्ते यत्र तिष्ठति स स्वरः
स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते
मणिवद्व्यञ्जनं विद्यात्सूत्रवच्च स्वरं विदुः
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः
दुर्बलं व्यञ्जनं तद्वद्धरते बलवान् स्वरः
ओभावश्च विवृत्तिश्च शषसा रेफएव च
जिह्वामूलमुपध्मा च गतिरष्टविघोष्मणः
स्वरप्रत्यया विवृत्तिः संहितायां तथा भवेत्
विसर्गस्तत्र मन्तव्यस्तालव्यो वात्र जायते
सन्ध्यक्षरोपधे सन्धौ प्राप्तलुप्तौ यवौ यदि
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता
ऊष्मान्तं विरतं यत्र सन्धावो भवते च यत्
विवृत्तिर्या भवेत्तत्र स्वाराख्यां तां विनिर्दिशेत्
यद्योभावप्रसन्धानमुकारादि परं पदम्
स्वरान्तं तादृशं विद्याद्यदन्यद्व्ययक्तमूष्मणः
प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि
प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत्
न चैनान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोऽप्सरा इति
इति पञ्चमी कण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP