तृतीया कण्डिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति नीचम्
यन्नीचन्नीचमेव तद्यत्प्रचयं तदपि नीचम्
अयमग्निः सुतो मित्रमिदं वयमयावनाः
प्रियं दूतं घृतं चित्रमभिशब्दश्च नीचतः
अर्केष्वेव सुतेष्वेव यज्ञेषु कलशेषु च
शतेषु सपवित्रेषु नीचादुच्चार्यते श्रुतिः
हरिवरुणवरुण्येषु धारा पुरुषेषु च स्वरति रेफः
विश्वानरो नकारेषु शेषारस्वरितानराः
द्वौ वरुणौ वस्वरित उदुत्तमं त्वं वरुण
धाकारे चोरुधारायामुरुधारेव दोहने
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम्
तस्यादितोऽर्द्धमात्रा वैशेषं तु परतो भवेत्
अदीर्घं दीर्घवत्कुर्याद् द्विस्वरं यत्प्रयुज्यते
कम्पोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च
निमेषकाला मात्रास्याद्द्विद्युत्कालेति चापरे
ऋक्स्वरा तुल्ययोगा वामतिः स्यात्सोमशर्मणः
समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम्
यतोऽक्षरादिति करणं पदान्तं तस्य तं विदुः
सर्वत्र मित्रपुत्रसखिशब्दा अद्रिशतक्रतोरवग्रह्याः
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहा समुद्राश्च
स्वर्युवो देवयवश्चारति देवतातये
चिकितिश्चुक्रुधं चैवनावगृह्णन्ति पण्डिताः
इति तृतीया कण्डिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP