मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| दशावतारस्तुतिः २ दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना दशावतरवर्णनम् दशावतारस्तवः जयदेवकृत दशावतार स्तवः दशावतारस्तुतिः १ दशावतारस्तुतिः २ दशावतारस्तुतिः २ देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtastotraदशावतारदेवतास्तोत्र दशावतारस्तुतिः २ Translation - भाषांतर अशेषविश्ववैचित्र्यरचनारुचये नमः ।मायागहनगूढाय नानारूपाय विष्णवे ॥१॥देवः पायादपायात् त्रिभुवनभवनस्तम्भभूतः स युष्मा-नायुष्मान् यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गे ।मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यःकाकुत्स्थः कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः ॥२॥आदि मत्स्यः स जयताद् यः श्वासोच्छ्रवासितैर्जलैः ।गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥३॥तं नमस्कुर्महे कूर्मं यः कवाटमसङ्कटम् ।अतीतसर्वब्रह्माण्डमवशेषमिवावहत् ॥४॥वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् ।अधोधृतार्धच्छत्रेव तलस्थार्कातपासहा ॥५॥जयाय नृहरिर्वोऽस्तु दैत्योरः शोणितार्णवे ।हारमौक्तिकगर्भास्ताश्चेरुर्यन्नखशुक्तयः ॥६॥त्रिविक्रमोऽस्तु भूत्यै वः प्राग् लघ्वी मध्यमा ततः ।यस्य पश्चादनन्ताभूत् सत्सङ्गतिरिवाकृतिः ॥७॥अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् ।यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥८॥नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः ।होमानलशिखारूढमिव वक्त्रवनं पुनः ॥९॥शौरिर्जयति कंसस्य जीवितप्रथमातिथिः ।यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥१०॥यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनिकाः ।चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥११॥स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः ।कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु वः ॥१२॥अवतारकथायुक्त्या भक्त्या भगवतो हरेः ।श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥१३॥इति महाकविश्रीक्षेमेन्द्रविरचिते दशावतारचरितेदशावतारस्तुतिः समाप्ता ॥ N/A References : N/A Last Updated : September 14, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP