मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| दशावतारस्तोत्रं दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना दशावतारस्तोत्रं देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtastotraदशावतारदेवतास्तोत्र दशावतारस्तोत्रं Translation - भाषांतर आदाय वेदाः सकलाः समुद्रान्निहत्य शङ्खासुरमत्युदग्रम् ।दत्ताः पुरा येन पितामहाय विष्णुं तमाद्यं भज मत्स्यरूपम् ॥१॥दिव्यामृतार्थं मथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम् ।भूमेर्महावेगविघूर्णितायास्तं कूर्ममाधारगतं स्मरामि ॥२॥समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा ।दंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपद्ये ॥३॥भक्तार्तिभङ्गक्षमया धिया यः स्तम्भान्तरालादुदितो नृसिंहः ।रिपुं सुराणां निशितैर्नखाग्रैर्विदारयन्तं न च विस्मरामि ॥४॥चतुःसमुद्राभरणा धरित्री न्यासाय नालं चरणस्य यस्य ।एकस्य नान्यस्य पदं सुराणां त्रिविक्रमं सर्वगतं स्मरामि ॥५॥त्रिःसप्तवारं नृपतीन् निहत्य यस्तर्पणं रक्तमयं पितृभ्यः ।चकार दोर्दण्डबलेन सम्यक् तमादिशूरं प्रणमामि भक्त्या ॥६॥कुले रघूणां समवाप्य जन्म विधाय सेतुं जलधेर्जलान्तः ।लङ्केश्वरं यः शमयाञ्चकार सीतापतिं तं प्रणमामि भक्त्या ॥७॥हलेन सर्वानसुरान्विकृष्य चकार चूर्णं मुसलप्रहारैः ।यः कृष्णमासाद्य बलं बलीयान् भक्त्या भजे तं बलभद्ररामम् ॥पुरा पुराणामसुरान्विजेतुं सम्भावयन् चीवरजिह्मवेशम् ।चकार यः शास्त्रममोघकल्पं तं मूलभूतं प्रणतोऽस्मि बुद्धम् ॥९॥कल्पावसाने निखिलैः खुरैः स्वैः सङ्घट्टयामास निमेषमात्रात् ।यस्तेजसा निर्दहतातिभीमो विश्वात्मकं तं तुरगं भजामः ॥१०॥शङ्खं सुचक्रं सुगदां सरोजं दोर्भिर्दधानं गरुडाधिरूढम् ।श्रीवत्सचिह्नं जगदादिमूलं तमालनीलं हृदि विष्णुमीडे ॥११॥क्षीराम्बुधौ शेषविशेषतल्पे शयानमन्तः स्मितशोभिवक्त्रम् ।उत्फुल्लनेत्राम्बुजमम्बुजाभमाद्यं श्रुतीनामसकृत् स्मरामि ॥१२॥प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥१३॥इति दशावतारस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : August 26, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP