मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्|
श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं

श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


ऋषयः ऊचुः- ।
गुरवो ब्रुवते गुह्यमपि शिष्यजनाय हि ॥५२॥

सूत उवाच-
स्तोत्रं तदुपदेक्ष्यामि श‍ृणुतावहितात्मना ।
सार्वकामिकमेतत्तु पठतां श‍ृण्वतामपि ॥५३॥

हयग्रीवं निहत्याशु वेदान् संरक्षितुं पुरा ।
धृतमत्स्यस्वरूपाय श्रीकृष्णाय नमो नमः ॥५४॥

तदा क्षीरोदधौ मग्नमुद्धर्तुं मन्दराचलं ।
गृहीतकूर्मरूपाय श्रीकृष्णाय नमो नमः ॥५५॥

हिरण्याक्षहतां भूमिमुद्धर्तुं प्रळयार्णवात् ॥
धृतपोत्रिस्वरूपाय श्रीकृष्णाय नमो नमः ॥५६॥

हिरण्यकशिपुं हत्वा जगतीमवितुं पुरा ।
नृसिंहगात्रस्वीकर्त्रे श्रीकृष्णाय नमो नमः ॥५७॥

बलेर्दिवं समादाय देवेभ्योर्प्पयितुं पुरा ।
धृतवामनरूपाय श्रीकृष्णाय नमो नमः ॥५८॥

निहत्य दुष्टराजन्यान् धर्मं संरक्षितुं पुरा ।
गृहीतरामरूपाय श्रीकृष्णाय नमो नमः ॥५९॥

रावणाद्यसतो हत्वा त्रिलोकीं रक्षितुं पुरा ।
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥६०॥

धेनुकादीन् निहत्याशु सतः संरक्षितुं पुरा ।
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ॥६१॥

भूभारमुपसंहर्तुं वसुदेवस्य वेश्मनि ।
गृहीतात्भुतरूपाय श्रीकृष्णाय नमो नमः ॥६२॥

कलेरन्ते खलान् हत्वा सत्यं स्थापयितुं सदा ।
कल्किरूपमुपादात्रे श्रीकृष्णाय नमो नमः ॥६३॥

अथ प्रीतैर्मुनिश्रेष्ठैः पूजितो रौमहर्षणिः ।
पुनः सत्सङ्गलाभाय तीर्थातीर्थं चचार ह ॥६४॥

इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये
दशावतारस्तोत्रं सम्पूर्णम् ।
== भक्तार्तिभङ्ग क्षमया धिया यः ।
स्तम्भान्तहालानुदितो नृसिंहः ॥

रिपुं सुराणां निशितैर्नखायैः ।
विदारयतं न च विस्मरामि ॥

इति दशावतारस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 26, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP