मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्|
श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं

श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


धरणीनौकावितमनुरेकाधीश्वरः स त्वं ह्यसि ।
शङ्खासुरहा यो निजमोहाऽघाधिहा स त्वं ह्यसि ॥१॥

शान्तैकमठो भोऽभूत्कमठो योऽशठः स त्वं ह्यसि ॥२॥

यो भूदारोऽपि सभूदारोऽभूदुदारस्त्वं ह्यसि ।
स्तब्धरोमा भुवदुद्धारे स्तब्धरोमास्त्वं ह्यसि ॥३॥

नरसिंहतनूर्हतभक्तजनुः स्वेष्टदः स त्वं ह्यसि ।
भजकार्तिहरो दैत्यासुहरो भीहरः स त्वं ह्यसि ॥४॥

यो व्याजपटुर्बलिमार्षबटुश्चाग्रहीत्स त्वं ह्यसि ॥

द्वारे बलेर्यस्तिष्ठत्यभयः कीर्तिकृत्स त्वं ह्यसि ॥५॥

दुर्नृपहन्ता ब्राह्मणगोप्ता स्वाविता स त्वं ह्यसि ।
पूरितकामो भार्गवरामो विभ्रमः स त्वं ह्यसि ॥६॥

सीतारामो भजकारामो वैरिहृत् स त्वं ह्यसि ।
एकशरस्त्रीवाग्वरमन्त्री रावणारिस्त्वं ह्यसि ॥७॥

षोडशनारीसहस्रभोगी योगीराट् स त्वं ह्यसि ।
भूभारहरो हृतसंसारो योऽष्टमः स त्वं ह्यसि ॥८॥

अपापविद्धो युवसंशुद्धो बुद्ध एषस्त्वं ह्यसि ।
विठ्ठलनामा यः शुभधाम्ना तारकः स त्वं ह्यसि ॥९॥

कल्किर्भविता दुर्जनहन्ता योऽन्ततः स त्वं ह्यसि ।
गन्धर्वस्थो द्विभुजः स्वस्थो यो गुरुः स त्वं ह्यसि ॥१०॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 26, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP