दर्पदलनम् - पञ्चमो विचारः
"दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"।
अहं शूरः क्रूरप्रतिभटघटापाटनपटु- स्तरस्वी सेनायां हयगजघटानामधिपतिः । इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां भवत्यन्तर्दर्पः परिभवपदं कालगलितः ॥१॥
शौर्येण दर्पः पुरुषस्य कोऽयं दृष्टस्तिरश्चामपि शूरभावः । औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥२॥
बालस्य शौर्यं कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु । वृद्धस्य शौर्यं शिथिलाङ्गसंधेः स्वश्लाघया पूर्वकथापथेषु ॥३॥
वयस्त्रिभागे तरुणस्य शौर्यं यदेव दर्पप्रभवाभिभूतम् । तच्चित्तवृत्तेर्विविधस्वभावात्पर्यायशो यात्यतिवैपरीत्यम् ॥४॥
verse 5 corrupted ह्यो येन भग्नाः पुरतोऽरिसेना भीतः स एवाद्य भवत्यधीरः । वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥६॥
verse 7 corrupted यः कार्तवीर्यस्य च दोःसहस्रं विच्छेद वीरो नहि युधि जामदग्न्यः । स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥८॥
रामोऽपि साहायकलाभलोभाच्चक्रे कपेः संश्रयदैन्यसेवाम् । शूरप्रतापः शिशिरर्तुनेव कालेन लीढस्तनुतामुपैति ॥९॥
वाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् । निक्षिप्य कक्षाञ्चलसंधिबन्धे सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥१०॥
युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम् । सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥११॥
भीमोऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः । कर्णेऽर्जुनस्याततकार्मुकस्य क्षणात्क्षणं याचकतां प्रयातः ॥१२॥
त्यक्त्वार्जुनः कृष्णकलत्रवर्गं जगाम गोपालबलाभिभूतः । न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥१३॥
भीरुः शूरत्वमायाति शूरोऽप्यायाति भीरुताम् । न क्वचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥१४॥
बाणस्त्र्यक्षेण कंसारिचक्रधारापथातिथिः । आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः ॥१५॥
वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् । शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः ॥१६॥
शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा । दृष्टिः कृता न चापेषु नृपैस्तत्पक्षिपातिभिः ॥१७॥
भीमनिष्पीयमाणसृग्दृष्टो दुर्योधनानुजः । अशस्त्राभिरेव स्त्रीभिर्द्रोणकर्णकृपादिभिः ॥१८॥
स्फाराजगरसंरुद्धभुजद्वन्द्वो वृकोदरः । जननीकरुणाक्रन्दनिनादमुखरोऽभवत् ॥१९॥
महतामपि पूर्वेषामेवंरूपा मदक्षितिः । सामान्यविक्रमोद्दामश्लाघा केनाभिनन्द्यते ॥२०॥
अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता । छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥२१॥
निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते । यः सर्प इव संनद्धः प्राणभाधाय देहिनाम् ॥२२॥
एतदेव परं शौर्यं यत्परप्राणरक्षणम् । नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥२३॥
न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः । पर्जन्यगर्जितामर्षी श्वभ्रे पतति केसरी ॥२४॥
किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः । बन्धकीलाभलोभेन यः क्षिपत्यवटे तनुम् ॥२५॥
शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम् । मेषस्येव वधो यस्य सूनाबद्धस्य् निश्चितः ॥२६॥
न दर्पविकृतं शौर्यं न मायामलिनं मनः । न द्वेषोष्णं श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥२७॥
कुलं कुतनयेनेव लोभेनेव गुणोदयः । ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥२८॥
प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत् । सप्ताब्धिपरिखालेखमेखलायाः प्रभुर्भुवः ॥२९॥
तस्य निःशेषितारातेः सदा युद्धमनोरथः । अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥३०॥
स सुरासुरयुद्धाप्तदर्पदर्पितमानसः । कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम् ॥३१॥
दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् । सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥३२॥
नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये सत्यमुच्यते । किं तु जाने रणार्हौ ते नरनारायणावृषी ॥३३॥
बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ । युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥३४॥
नारदेनेत्यभिहिते स बदर्याश्रमं ययौ । विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ ॥३५॥
दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः । मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥३६॥
तं युद्धकामुकं तिर्यग्दृशा गम्भीरधीरया । विलोक्योवाच सावज्ञस्मितदिग्धाधरं नरः ॥३७॥
महीपते निवर्तस्व न वयं युद्धकोविदाः । युक्तस्तैरेव सङ्ग्रामस्तव ये भूम्यनन्तराः ॥३८॥
इत्युक्तोऽपि यदा राजा न चचाल रणादरात् । तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत् ॥३९॥
प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः । विनष्टविग्रहरुचिर्नृपस्तत्याज धीरताम् ॥४०॥
अकाण्डखण्डितोच्चण्डदर्पज्वरभरो नृपः । कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥४१॥
वारितास्त्रस्ततस्तेन भग्नमानमनोरथः । लज्जाविकुण्ठकण्ठः स्वां राजधानीं ययौ नृपः ॥४२॥
इति मानस्य महतामपि घोराशनिर्मदः । लोहस्य स्वमलेनेव क्षयो दर्पेण तेजसः ॥४३॥
तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः । दर्पोग्रवक्त्रस्य सुहृज्जनोऽपि सर्वात्मना तिव्रनिपातसज्जः । अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः । प्रयान्ति वीराः सुकृतामृताद्रैर्यशःशरीरैरजरामरत्वम् ॥४५॥
N/A
References : N/A
Last Updated : October 29, 2025

TOP