दर्पदलनम् - प्रथमो विचारः
"दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"।
प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् । सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥१॥
संसारव्यतिरेकाय हृतोत्सेकाय चेतसः । प्रशमामृतसेकाय विवेकाय नमो नमः ॥२॥(युग्मम्)
क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः । स्वासथ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥३॥
कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा । प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥४॥
अहंकाराभिभूतानां भूतानामिव देहिनाम् । हिताय दर्पदलनं क्रियते मोहशान्तये ॥५॥
कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् । लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥६॥
कुलस्य कमलस्येव मूलमन्विष्यते यदि । दोषपङ्कप्रस्तान्तस्तदावश्यं प्रकाशते ॥७॥
यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते । तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥८॥
एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः । अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ॥९॥
लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः । गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥१०॥
कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् । कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥११॥
कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया । किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥१२॥
गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते । दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥१३॥
स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः । गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥१४॥
मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् । एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥१५॥
कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा । योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥१६॥
सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः । दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥१७॥
भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः । गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥१८॥
कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः । सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥१९॥
मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः । यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥२०॥
तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा । बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥२१॥
तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः । पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥२२॥
स धीमान्वेदविद्वादी कविः सर्वकलालयः । सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥२३॥
तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः । प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥२४॥
पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् । यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥२५॥
नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् । मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥२६॥
कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः । मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥२७॥
अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी । मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥२८॥
एतदेव कुलीनत्वमेतदेव गुणार्जनम् । यत्सदैव सतां सत्सु विनयावनतं शिरः ॥२९॥
दयैव विदिता विद्या सत्यमेवाक्षयं धनम् । अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥३०॥
अभोगसुभगा भूतिरदैन्यधवलं कुलम् । अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥३१॥
द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये । दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥३२॥
त्यागिना किं दरिद्रेण किं कुलीनेन पापिना । तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥३३॥
वैरायते सुहृद्भावः प्रदानं हरणायते । दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥३४॥
गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः । सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥३५॥
तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन । दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥३६॥
वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा । रोहन्मोहमहातरुर्मदमयः संजायते यः सदा तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥३७॥
गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥३८॥
कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् । विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥३९॥
पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् । तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥४०॥
विभूतिनलिनीगजः सुजनमानभङ्गशनि- निपातपथदैशिकः सुकृतचित्रधूमोद्गमः । पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः सदा समदचेतसां गुणविनाशहेतुर्मदः ॥४१॥
अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् । कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥४२॥
अहं वादी विद्यापरिचयगुरुः सर्वविदुषा- महं मानी वाणीप्रसरपरिपाकेन सुकविः । अहं लीलाहंसः कुवलयदृशां मानसचरः करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥४३॥
लक्ष्मीः क्षणक्षयवती परिरक्षितापि कायोऽप्यपायनिचयस्य निकाय एव संभोगयोगसुखसंगतिरप्यतथ्या मिथ्याभिमानकलनाघन एष शापः ॥४४॥
इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः । स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥४५॥
पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन- स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् । सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥४६॥
स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् । प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥४७॥
तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः । खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ॥४८॥
स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया । सोऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥४९॥
मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः । विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥५०॥
किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना । अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥५१॥
इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी । तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥५२॥
वहैन्ं दुर्मदं पुत्र सहस्व विषमां व्यथाम् । अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥५३॥
रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः । परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥५४॥
दयादरिद्रं हृदयं वचः क्रकचकर्कशम् । योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥५५॥
नवनीतोपमा वाणी करुणाकोमलं मनः । एकबीजप्रजातानां भवत्यवनतं शिरः ॥५६॥
रटति कटुकाटोपं कोपादकारणवैरवा- न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः । क्षणरसिकतालोलः सेवाश्रितानवमन्यते गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥५७॥
इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः । सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥५८॥
स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः । तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥५९॥
संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् । यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥६०॥
तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता । अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ॥६१॥
लज्जाकरमसत्कर्म कथं तत्कथयामि ते । संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥६२॥
अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् । अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥६३॥
न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः । न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥६४॥
धनयौवनसंजातदर्पकालुष्यविप्लवाः । केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥६५॥
देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् । क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥६६॥
अहं पुर रजःस्नाता काले कुसुमुलाञ्छने । एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥६७॥
व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना । उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥६८॥
एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः । सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥६९॥
उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी । व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥७०॥
इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः । नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥७१॥
स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् । पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥७२॥
तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया । अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥७३॥
अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् । गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥७४॥
आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया । संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥७५॥
इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् । जातिमानावपतनान्निर्जीवित इवाभवत् ॥७६॥
अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् । आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥७७॥
तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः । ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥७८॥
पुनः पुनः स तपसा संतापितजगत्त्रयः । सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥७९॥
छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः । प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥८०॥
संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः । शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥८१॥
माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य । यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥८२॥
N/A
References : N/A
Last Updated : October 29, 2025

TOP