संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दर्पदलनम्| तृतीयो विचारः दर्पदलनम् प्रथमो विचारः द्वितीयो विचारः तृतीयो विचारः चतुर्थो विचारः पञ्चमो विचारः षष्ठो विचारः सप्तमो विचारः दर्पदलनम् - तृतीयो विचारः "दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"। Tags : darpadalamsanskritदर्पदलनम्संस्कृत दर्पदलनम् - तृतीयो विचारः Translation - भाषांतर संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् । तदन्दकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंशुमाला ॥१॥ शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः । क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥२॥ सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति । धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥३॥ यो विद्यागुरुरायाति लघुतां शीलविप्लवात् । तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥४॥ विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः । तेनात्मा हन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥५॥ विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् । भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥६॥ स्पृहणीय़ा सतां तावद्विद्या संतोषशालिनी । यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥७॥ सद्गुणाः शुचयस्तावद्यावद्वादेन शोधकैः । प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥८॥ अश्माप्यहृदयो यस्य गुणसारं परीक्षते । उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥९॥ कविभिर्नृपसेवासु चित्रालंकारहारिणी । वाणी वेश्येव लोभेन परोपकरणीकृता ॥१०॥ वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा । वाणी क्रकचधारेव धर्ममूले निपातिता ॥११॥ साधुतेजोवधायैव तार्किकैः कर्कशीकृता । वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥१२॥ शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा ॥ तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ॥१३॥ ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः । कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् । तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥१४॥ शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम् । दर्पशापहता विद्या नश्यत्येव सहायुषा ॥१५॥ तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् । पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥१६॥ पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ । स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥१७॥ भरद्वाजस्य पुत्रोऽभूद्यवक्रीताभिधः सुताः । भवन्तविद्याः प्रायेण पितृप्रणयलालिताः ॥१८॥ स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ । पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ॥१९॥ स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् । चचार निश्चलतनुस्तीव्रं विद्याप्तये तपः ॥२०॥ तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः । उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ॥२१॥ अनधीता गुरुमुखात्कथं विद्याधिगम्यते । अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥२२॥ अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् । यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ॥२३॥ शीलं परहितासक्तिरनुत्सेकः क्षमा धृतिः । अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥२४॥ विवेकरहिता विद्या द्वेषरोषोष्मशोषिता । दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥२५॥ एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः । यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥२६॥ त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् । नानाविपर्ययपथैर्गच्छन्त्यर्थफलार्थिनः ॥२७॥ उपकाराय या पुंसां न परस्य न चात्मनः । पत्रसंचयसंभारैः किं तया भारविद्यया ॥२८॥ अन्यायः प्रौढवादेन नीयते न्यायतां यया । न्यायश्चान्यायतां लोभत्किं तया क्षद्रविद्यया ॥२९॥ स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका । क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥३०॥ अनुष्ठानेन रहिता पाठमात्रेण केवलम् । रञ्जत्येव या लोकं किं तया शुकविद्यया ॥३१॥ गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते । न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥३२॥ परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते । या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥३३॥ न तीर्यते यया घोरः संसारमकराकरः । नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥३४॥ नित्याभ्यासप्रयासेन जीवितं क्षीयते यया । त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥३५॥ न विवेकोचितां बुद्धिं न वैराग्यमयं मनः । संपादयति या पुंसां किं तया जडविद्यया ॥३६॥ शौचाशौचविवादेन त्यक्ता (?) श्रोत्रियता यया । मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥३७॥ परमात्सर्यशल्येन व्यथा संजायते यया । सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥३८॥ परसूक्तापहारेण स्वसृभाषितवादिना । उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥३९॥ अनभ्यासहतोत्साहा परेण परिभूयते । या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥४०॥ लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च । न यया शान्तिमायाति किं तयालीकविद्यया ॥४१॥ यया भूपतिमाश्रित्य परेषां गुणनिन्दकः । दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥४२॥ गृहे धाराधिरुढापि सभायां न प्रवर्तते । प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥४३॥ चण्डं पिण्डार्थिनां द्वेषपिशुनानां शुनामिव । यया संजायते युद्धं किं तया वधविद्यया ॥४४॥ विस्मृता यावलिप्तस्य कण्ठे कृतगतागता । जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥४५॥ रसायनी जराजीर्णश्चिररोगी यया भिषक् । धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥४६॥ यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः । आशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥४७॥ परोपतापः क्रियते वश्यादिकुहकैर्यया । यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥४८॥ गुरुर्गर्वात्कविर्द्वेषाद्यतिर्भोगपरिग्रहात् । नृपः पापाद्द्विजः क्रोधात्सा विद्या वार्यते यया ॥४९॥ विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् । स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥५०॥ वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः । व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥५१॥ द्वेषदर्पहता विद्या कामक्रोधहता मतिः । लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥५२॥ दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः । न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै- स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥५३॥ इत्युक्तः सुरराजेन निश्चयान्न चचाल सः । अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥५४॥ अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः । शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥५५॥ तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् । मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥५६॥ ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे । निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥५७॥ अस्मिन्कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि । हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥५८॥ इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत । अहो परोपदेशेषु सर्वो भवति पण्डितः ॥५९॥ अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि । यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ॥६०॥ एतद्द्विजवचः श्रुत्वा यथार्थं स्थगितोत्तरः । तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥६१॥ अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् । सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥६२॥ प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा स्वमाश्रमम् । निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥६३॥ तं मदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् । भरद्वाजः प्रमोदेऽपि स्वेदाकुल इवावदत् ॥६४॥ पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते । किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥६५॥ इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् । विद्यामदान्धौ तत्पुत्रावर्वावसुपरावसू ॥६६॥ तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः । तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥६७॥ ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः । अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥६८॥ तव तत्र प्रयातस्य युक्तायुक्तविवादिनः । भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥६९॥ शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः । उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥७०॥ एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया । रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥७१॥ इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः । व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥७२॥ तं दर्पमत्तं साकोपभीमभ्रूभङ्गदुर्मुखौ । तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ॥७३॥ कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च । करोषि वादैराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥७४॥ इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः । न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥७५॥ अत्रान्तरे भ्रमद्भृङ्गमालाभ्रूभङ्गविभ्रमः । कालः प्रोषितकान्तानां पुष्पकालः समाययौ ॥७६॥ क्षिप्तपत्त्राः सुमनसां रजःकलुषितेक्षणाः । सद्वेषा इव विद्वांसश्चेरुर्मलयमारुताः ॥७७॥ माधुर्यललितोदारवाणीविलसितैर्मुहुः । कवीनामिव संघर्षः कोकिलानामजायत ॥७८॥ रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् । भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ॥७९॥ तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं पुरावसोः । सोऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥८०॥ उटजाङ्गनसक्तानां हरिणीनां विलोकने । विलासदीक्षां कुर्वाणां तरलापाङ्गमङ्गिभिः ॥८१॥ तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् । बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥८२॥ स ब्रह्मचारी कामेन नवेन तरलीकृतः । अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ॥८३॥ उन्मादनमिदं रूपमनुरूपं मनोभुवः । समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥८४॥ विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् । त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ॥८५॥ जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् । तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥८६॥ न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा । प्रवृत्तं शक्यते रोद्धुं मनोभवपथे मनः ॥८७॥ इत्युक्त्वा तां भयोद्भ्रान्तनयनामाश्रमोन्मुखीम् । गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ॥८८॥ कदली कुञ्जरेणेव तरसा तेन निर्जने । कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥८९॥ मा मा मलिनय स्वच्छं शीलं मम तथात्मनः । विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥९०॥ शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव् । गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥९१॥ किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः । उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥९२॥ बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् । जटावल्कलभारस्ते तरोरिव न शान्तये ॥९३॥ पापसंकल्पमात्रेण त्रपयाधोमुखी तव । पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥९४॥ आसनाब्जे सरस्वत्या जपलोलरदच्छदे । दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ॥९५॥ इयं तपोवनमही विवेकजननी कथम् । जनयत्यभिलाषं ते जननीवाजितात्मनः ॥९६॥ दुर्मदो (दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः । सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥९७॥ धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् । धार्यते यैर्न संसारविकारस्खलितं मनः ॥९८॥ क्व विद्या विदिताशेषकार्याकार्यविमर्शधीः । मूढता क्व च दुष्कर्ममहापापकुटुम्बिनी ॥९९॥ इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् । शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥१००॥ किं करोम्यजने लब्धा विवशाहं प्रमादिना । उत्सृष्टधर्मनिमयाः किं न कुर्वन्त्यवारिताः ॥१०१॥ अयं स्मरातुरस्तावद्वचसा न निवर्तते । वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धता ॥१०२॥ इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी । गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥१०३॥ स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम । ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥१०४॥ इत्युक्तः स तया प्रायात्सत्यं विज्ञाय तद्वचः । दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥१० ५॥ रैभ्यं ततः समायातमग्न्यागाराग्रतः स्थितम् । स्नुषा प्रोवाच कोपाग्निधूमेनेवाश्रुवर्षिणी ॥१०६॥ भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः । ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥१०७॥ स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः । विमुच्ये नान्यथा हस्तात्तस्य स्वस्तिमती सती ॥१०८॥ एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः । बभूव दुर्निमित्तोल्कापातक्रूरे इवांशुमान् ॥१०९॥ विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम् । विकारकाले संमोहश्चित्ते विद्या च पुस्तके ॥११०॥ स निःश्वसन्नथ क्रोधज्वरारम्भारुणेक्षणः । अभिचारजपेनेव कम्पमानाधरोऽभ्यधात् ॥१११॥ अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् । धर्मोपदेशं यत्नेन नग्नीकर्तुं पराङ्गनः ॥११२॥ इत्युक्त्वामर्षसंरम्भादपरं वक्तुमक्षमः । स प्रविश्याग्निसदनं प्रतीकारपरोऽभवत् ॥११३॥ उत्पाट्य विकटाटोपकोपः प्रौढाग्निपिङ्गलम् । स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ॥११४॥ द्वितीयायां हुतायां च शूलभृद्घोरराक्षसः । कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥११५॥ किं करोमि मुने कस्य विनाशायास्मि निर्मितः । त्रैलोक्यमपि निर्दग्धुं संनद्धोऽहं त्वदाज्ञया ॥११६॥ इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत । भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥११७॥ इति तेन समादिष्टः स व्रजन्कम्पितावनिः । अर्धशौचं मुनिसुतं दृष्ट्वा दुरात्समाद्रवत् ॥११८॥ तस्मिन्नभिद्रुते वेगाद्दीप्तशूले निशाचरे । भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥११९॥ पलायमानः संप्राप्तः स जवात्पितुराश्रमत् । अग्न्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥१२०॥ दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ । रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ॥१२१॥ अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् । विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥१२२॥ मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः । सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥१२३॥ इति संचिन्त्य दृष्ट्वाग्रे भस्मभीतं सुतं मुनिः । श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥१२४॥ स लब्धसंज्ञः शनकैरवदद्बाष्पगद्गदम् । रैभ्योऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥१२५॥ हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना । न जीवामि सदोषेण कायेनेव त्वया विना ॥१२६॥ इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः । महत्स्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥१२७॥ अथ याते शनैः काले बृहद्युम्नस्य भूपतेः । याजकौ जग्मतुर्गेहमर्वावसुपरावसू ॥१२८॥ प्रवृत्ते विधिवत्तस्य दीर्घसत्त्रे पृथुश्रियः । दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ॥१२९॥ कदाचिद्दिनपर्यन्तसंध्यायां निजमाश्रमम् । परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ॥१३०॥ कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया । जघान शापविवशः स तेनाभूद्विचेतनः ॥१३१॥ जनकं हतमालोक्य ब्रह्महत्याभयाकुलः । गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥१३२॥ अर्वावसुस्तमवदद्भ्रातः किं क्रियते विधेः । भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥१३३॥ धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् । विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥१३४॥ ब्रह्महत्याव्रतं तीव्रं भवतोऽर्थे चराम्यहम् । त्वमस्य कुरु भूभर्तुः संपूर्णां याजनक्रियाम् ॥१३५॥ उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतव्रतः । चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥१३६॥ तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् । दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥१३७॥ अयं मे दक्षिणाकाले भागहर्ता समागतः । मदभाग्यैश्चिरं तीव्रव्रतक्लिष्टोऽपि जीवति ॥१३८॥ इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् । लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥१३९॥ राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया । प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥१४०॥ इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् । तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ॥१४१॥ अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् । पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥१४२॥ मिथ्यापवाददानेन नैव भ्रात्रे चुकोप सः । निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥१४३॥ तेन तस्यानृशंस्येन निर्विकारतया तया । तुष्टाः क्रतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥१४४॥ प्रशमेन तवानेन प्रसन्नास्ते वयं मुने । वरार्होऽपि वराचार गृह्यतां प्रवरो वरः ॥१४५॥ इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः । यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ॥१४६॥ मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः । स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥१४७॥ अस्मत्पिता मृगधिया यः परावसुना हतः । सोऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥१४८॥ इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः । यवक्रीतभरद्वाजरैभ्याः प्रापुः स्वजीवितम् ॥१४९॥ इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यतां क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते । शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥१५०॥ चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन । विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥१५१॥ अलोभः परमं वित्तमहिंसा परमं तपः । अमाया परमा विद्या निरवद्या मनीषिणाम् ॥१५२॥ शुक्रस्य विद्या धनदार्थहर्तुमार्याप्रपञ्चोपचितस्य शोच्या । कचस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ॥१५३॥ स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः । यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ॥१५४॥ N/A References : N/A Last Updated : October 29, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP