संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दर्पदलनम्| चतुर्थो विचारः दर्पदलनम् प्रथमो विचारः द्वितीयो विचारः तृतीयो विचारः चतुर्थो विचारः पञ्चमो विचारः षष्ठो विचारः सप्तमो विचारः दर्पदलनम् - चतुर्थो विचारः "दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"। Tags : darpadalamsanskritदर्पदलनम्संस्कृत दर्पदलनम् - चतुर्थो विचारः Translation - भाषांतर पद्मोपमानां दिनसुन्दराणां कोऽयं नृणामस्थिररूपदर्पः । रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥१॥ पर्यन्तरेखाङ्गविभागहीनचित्रोपमं बालवपुः प्रकृत्या । तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥२॥ अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि । जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥३॥ धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षेण सुधांशुबिम्बम् । शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥४॥ रूपं क्षणस्वीकृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा । केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥५॥ पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः । करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः ॥६॥ न लक्ष्यते कालगतिः सवेगचक्रभ्रमभ्रान्तिविधायिनीयम् । ह्यो यः शिशुः स स्फुटयौवनोऽद्य प्रातर्जराजीर्णतनुः स एव ॥७॥ पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् । तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते क्व रूपम् ॥८॥ यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः शोकविवर्णवक्त्रः । न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥९॥ यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः । प्रकीर्णयूकामलकालकायस्तदा क्व रूपस्य गतोऽभिमानः ॥१०॥ यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन विनष्टकायः । नित्यप्रवासभ्रमभग्नजानुर्न रूपलब्धस्य तदास्ति रुपम् ॥११॥ यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः । युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥१२॥ यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः । तदा सुरूपादविचाररम्याद्वरं विरूपः स्पृहणीयरूपः ॥१३॥ यदा दरिद्रः परिधानहीनस्त्रपानिलीनः कुरुतेऽतियाञ्चाम् । कपोलसंजातवलीविकारस्तदा सुरूपोऽपि परं विरूपः ॥१४॥ विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते । विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः । पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥१५॥ कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् । रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥१६॥ रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभावं विभवं वपुश्च । अश्नाति कालभ्रमरः समन्तात्पुंसां नि किंजल्कमिवाम्बुजानाम् ॥१७॥ कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् । नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥१८॥ तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी । उर्वशी स्वमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥१९॥ शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः । मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥२०॥ नृत्यन्ती सा बभौ हारमध्यरत्नेषु बिम्बिता । युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥२१॥ लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः । तत्कटाक्षजितश्चक्रे निद्रां चन्द्रे मृगः क्षणम् ॥२२॥ तस्याः सेर्ष्याप्सरोनेत्रमालेव पतिता बभौ । स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ॥२३॥ उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः । वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥२४॥ तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम् । उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं व्यधात् ॥२५॥ विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् । तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥२६॥ देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः । मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः ॥२७॥ एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः । निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः ॥२८॥ अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः । स्मरसंभोगसंवादलज्जाकुटिलिता दृशः ॥२९॥ वृत्तसंगमयोरेव परस्परविलोकने । न्यासं शृङ्गारसर्वस्वमनङ्गेनार्पितं रहः ॥३०॥ रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् । कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥३१॥ इति ब्रुवाणमपरः सस्मितस्तमभाषत । अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥३२॥ विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः । उर्वशीभोगसुभगं यस्यैतद्गीयते यशः ॥३३॥ तेन रूपगुणोत्साहैरुर्वशीयं वशीकृता । पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥३४॥ रूपसाम्येन शीतांशुवंशे जातः स लज्जते । न करोति रतेरग्रे तत्कथां मत्सरी स्मरः ॥३५॥ न जाने बत हेवाकः कोऽयं कुसुमधन्वनः । नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥३६॥ भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम् । लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥३७॥ द्रष्टव्यः स नृपस्तावदप्रस्तावेऽपि यत्नतः । को वेत्ति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥३८॥ इयुक्त्वा तौ कृतक्षोणीपतिदर्शननिश्चयौ । नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥३९॥ राजधानीं समासाद्य तौ पुरूरवसः क्षणात् । अवारितौ विविशतुर्वेत्रिभिः सुरगौरवात् ॥४०॥ तौ तं ददृशतुः स्नानविहिताभ्यङ्गसंगमम् । पीयूषनवनीतेन लग्नस्नेहमिवोडुपम् ॥४१॥ स्नातोत्तारितकेयूरमहार्हमणिकंकणम् । लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥४२॥ शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ । निर्भूषणनिवेशोऽपि विशेषरमणीय़ताम् ॥४३॥ विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ । प्रशशंसतुराश्चर्यनिर्माणातिशयं विधेः ॥४४॥ स तौ कृताञ्जलिः प्रीत्या कृतासनपरिग्रहौ । पप्रच्छ स्वच्छहृदयस्त्वरागमनकारणम् ॥४५॥ तावूचतुः क्षितिपते महीकुसुमधन्वनः । त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥४६॥ निसर्गेण जगत्सर्गनिरर्गलगुणादरात् । कौतुकालोकसारेव दृष्ट्वा सृष्टिः प्रजापतेः ॥४७ ॥ विलोकितस्त्वं वसुधासुधांशुः पूर्णमण्डलः । रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥४८॥ इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः । तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः ॥४९॥ भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम् । द्रष्टव्या द्रष्टुमायान्ति पुण्यपुण्येन केवलम् ॥५०॥ तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः । अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥५१॥ स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः । पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः ॥५२॥ अग्न्यागारान्तरे तावन्मुहूर्तं क्रियतां स्थितिः । कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम् ॥५३॥ इयुक्तौ तेन ययतुस्तौ हुताशनमन्दिरम् । स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ॥५४॥ अथ राजा कृतस्नानः सर्वाभरणभूषितः । पुरोहितेन सहितस्तत्समीपमुपाययौ ॥५५॥ तौ दृष्ट्वा पृथिवीपालं तारहारं किरीटिनम् । क्षणं नैवोचतुः किंचिद्विषण्णौ विनताननौ ॥५६॥ कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः । अकस्माद्युवयोः कस्मादप्रसाद इवेक्ष्यते ॥५७॥ विनयातिक्रमोऽस्माकं यातः कचिन्न हेतुताम् । पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥५८॥ आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः । किं तु कालगलत्सर्वभावालोकनविस्मयः ॥५९॥ अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि यादृशः । क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥६०॥ दिनेन्धनवने नित्यं दह्यमानेऽर्कवह्निना । नीयते कालधूमेन रूपचित्रमचित्रताम् ॥६१॥ निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् । रूपेऽभिमानं कः कुर्यात्स्वप्नचित्रपटोपमे ॥६२॥ जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च । आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥६३॥ योऽयं विकोक्यते लोकः स्फाराकारविकारवान् । उच्छूनतामुपगतास्त एते शुक्रबिन्दवः ॥६४॥ अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः । यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥६५॥ राज्ञः स्नानक्षणे याभूल्लावण्यलहरी तनोः । पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ॥६६॥ संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च । होरायात्राम्बुधारेव गलत्येवानिशं नृणाम् ॥६७ ॥ कलाकाष्ठामुहुर्तानां कालस्य व्रजतां जवात् । न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥६८॥ बालः प्रभाते मध्याह्ने तरुणः स्थविरोऽस्तगः । दिने दिने दिनेशोऽपि क्रियते काललीलया ॥६९॥ शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् । भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यद्वशा- त्सर्वाशी सततं प्रधावति महाकालः स कोऽप्याकुलः ॥७०॥ इत्युक्त्वा नृपमामन्त्र्य दिवं जग्मतुरश्विनौ । नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत् ॥७१॥ तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासदर्पः । संसारमोहप्रसरे घनेऽस्मिन्विद्युल्लताविस्फुरितं हि रूपम् ॥७२॥ प्रातर्बालतरोऽथ कुद्मलतया कान्ताकुचाभः शनै- र्हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः । पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णेऽनिलै- स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥७३॥ वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः । सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥७४॥ तस्मादस्थिररूपं विचार्य रूपं भवस्वरूपं च । अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥७५॥ N/A References : N/A Last Updated : October 29, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP