व्याससंहिता - द्वितीयोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
एवं स्नातकतां प्राप्तो द्वितीयाश्रमकाङ्क्षया । प्रतीक्षेत विवाहार्थमनिद्न्यान्वयसम्भवाम् ॥१॥
अरोगादुष्टवंशोत्थामशुल्कदानदूषिताम् । सवर्णामसमानार्षाममातृपितृगोत्रजाम् ॥२॥
अनन्यपूर्विकां लघीं शुभलक्षणसंयुताम् । धृताधोवसनां गौरों विख्यातदशपूरूषाम् ॥३॥
ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः । दातुमिच्छोर्द्दुहितरं प्राप्य धर्म्मेण चोद्वहेत् ॥४॥
ब्रह्मोद्वाहविधानेन तदभावे परो विधिः । दातव्यैषा सट्टक्षाय वयोविद्यान्वयादिभिः ॥५॥
पितृवत् पितृभ्रातृषु पितृव्यज्ञातिमातृषु । पूर्व्वाभावे परो दद्यात् सर्व्वाभावे स्वयं व्रजेत् ॥६॥
यदि सा दातृवैकल्याद्रजः पश्येत् कुमारिका । भ्रूण हत्याश्च यावत्यः पतितः स्यात् तदप्रदः ॥७॥
तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति यस्तयोः । कृत्वा समयमन्योन्यं भजते न स दण्डभाक् ॥८॥
त्यजन्नदुष्टां दण्ड्यः स्याद्दूषयंश्चाप्यदूषिताम् ॥९॥
ऊढ़ायां हि सवर्णायामन्यां वा काममुद्वहेत् । तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते ॥१०॥ उद्वहेत् क्षत्रियां विप्रो वैश्याञ्च क्षत्रियो विशाम् । स तु शूद्रो द्विजः कश्चिन्नाधमः पूर्व्ववर्णजाम् ॥११॥
नानावर्णासु भार्य्यासु सवर्णा सहचारिणी । धर्म्म्या धर्म्मषु धर्म्मिष्ठा ज्येष्ठा तस्य स्वजातिषु ॥१२॥
पाटितोऽयं द्विजाः पूर्व्वमेकदेहः स्वयम्भूवा । पतयोऽर्द्धेन चार्द्धेन पत्र्योऽभूवन्निति श्रुतिः ॥१३॥
यावन्न विन्दते जायां तावदर्द्धो भवेत् पुमान् । नार्द्धं प्रजायते सर्व्वं प्रजायतेत्यपि श्रुतिः ॥१४॥
गुर्व्याता भूस्त्रिवर्गस्य वोढ़ं नान्येन शक्यते । यतस्ततोऽन्वहं भूत्वा स्ववशो विभृयाच्च ताम् ॥१५॥
कृतदारोऽग्निपत्रीभ्यां कृतवेश्मा गृहं वसेत् । स्वकृत्यं वित्तमासाद्य वैतानाग्निं न हापयेन् ॥१६॥
स्मार्त्तं वैवाहिके वह्नौ श्रौतं वैतानिकाग्निषु । कर्म्म कुर्य्यात् प्रतिदिनं विधिवत् प्रीतिपूर्व्वतः ॥१७॥
सम्यग्धर्म्मार्थकामेषु दम्पतिभ्यामहर्निशम् । एकचित्ततया भाव्यं समानव्रतवृत्तितः ॥१८॥
न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम् । भावतो ह्यतिदेशाद्वा इति शास्त्रविधिः परः ॥१९॥
पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय च । उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् ॥२०॥
मार्ज्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गनम् । शोधयेदग्निकार्य्याणि स्निग्धान्युष्णेन वारिणा ॥२१॥
प्रोक्षणैरिति तान्येव यथास्थानं प्रकल्पयेत् । द्वन्द्वपात्राणि सर्वाणि न कदाचिद्वियोजयेत् ॥२२॥
शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् । महानसस्य पात्राणि वहिः प्रक्षाल्य सर्वथा ॥२३॥
मृद्भिश्च शोधयेच्चुल्लों तत्राग्निं विन्यसेत्ततः । स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च ॥२४॥
कृतपूर्वाह्णकार्य्या च स्वगुरुनभिवादयेत । ताभ्यां भर्त्तृपितृभ्यां वा भ्रातृमातुलवान्धवैः ॥२५॥
वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् । मनोवाक्कर्म्मभिः शुद्धा पतिदेशानुवर्त्तिनी ॥२६॥
छायेवानुगता स्वच्छा सखीव हितकर्म्मसु । दासीवादिष्टकार्य्येषु भार्य्या भर्त्तुः सदा भवेत् ॥२७॥
ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत् । वैश्वदेककृतैरन्नैर्भाजनीयाश्च बोजयेत् ॥२८॥
पतिञ्चैतदनुज्ञातः शिष्टमन्वाद्यमात्मना । भुक्त्वा नयेदहः शेषमायव्ययविचिन्तया ॥२९॥
पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च । कृतान्नसाधना साध्वी सुभृशं भोजयेत् पतिम् ॥३०॥
नातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च । आस्तीर्य्य साधु शयनं ततः परिचरेत् पतिम् ॥३१॥
सुप्तेपतौ तदभ्यासे स्वपेतद्गतमानसा । अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ॥३२॥
नौच्चैर्वदेन्न परूषं नबहून् पत्युरप्रियम् । न केनचित् विवदेच्च अप्रलापविलापिनी ॥३३॥
न चातिव्ययशीला स्यान्न धर्म्मार्थविरोधिनी । प्रमादोन्मादरोषेर्षावञ्चनञ्चाभिमानिताम् ॥३४॥
पैशुन्यहिंसाविद्वेषमहाहङ्कारधूर्त्तताः । नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्ज्जयेत् ॥३५॥
एवं परिचरन्ती सा पतिं परमदैवतम् । यशः शमिह यात्येव परत्र च सलोकताम् ॥३६॥
योषितो नित्यकर्म्मोक्तं नैमित्तिकमथोच्यते । रजोदर्शनतो दोषात् सर्वमेव परित्यजेत् ॥३७॥
सर्वेरलक्षित्य शीघ्रं लज्जितान्तर्गृहे वसेत् । एकाम्बरावृता दीना स्नानालङ्कारवर्ज्जिता ॥३८॥
मौनिन्यधोमुखी चक्षुः पाणिपद्भिरचञ्चला । अश्रीयात् केवलं भक्तं नक्तं मृन्मयभाजने ॥३९॥
स्वपेद्भूमावप्रमत्ता क्षपेदेवमहत्रयम् । स्नायीत च त्रिरात्रान्ते सवैलमुदिते रवौ ॥४०॥
विलोक्य भर्त्तुवंदनं शुद्धा भवति धर्म्मतः । कृतशौचा पुनः कर्म्म पूर्ववच्च समाचरेत् ॥४१॥
रजोदर्शनतो याः स्यूरात्रयः षोड़शर्त्तवः । ततः पुंवीजमक्लिष्टं शुद्धे क्षेत्रे प्ररोहति ॥४२॥
चतस्रश्चादिमा रात्रीः पर्ववच्च विवर्ज्जयेत् । गच्चेद्युग्मासु रात्रीषु पौष्णपित्रर्क्षराक्षसान् ॥४३॥
प्रच्छादितादित्यपथे पुमान् गच्छेत् सुयोषितः । क्षौमालङ्कृदवाप्नोति पुत्रं पूजितलक्षणम् ॥४४॥
ऋतुकालेऽभिगम्यैवं ब्रह्मचर्य्ये व्यवस्थितः । गच्छन्नपि यथाकामं न दुष्टः स्यादनन्यकृत् ॥४५॥
भ्रूणहत्यामवाप्नोति ऋतौ भार्य्यापराङ्मुखः । सा त्ववाप्याऽन्यतो गर्भं त्याज्या भवति पापिनी ॥४६॥
महापातकदुष्टा च पतिगर्भविनाशिनी । सद्वृत्तचारिणीं पत्नीं त्यक्त्वा पतति धर्म्मतः ॥४७॥
महापातक दुष्टोऽपि नाप्रतीक्ष्यस्तया पतिः । अशुद्धे क्षयमादूरं स्थितायामनु चिन्तया ॥४८॥
व्यभिचारेण दुष्टानां पतीनां दर्शनादृते । धिक्कृतायामवाच्यायामन्यत्र वासयेत् पतिः ॥४९॥
पुनस्तामार्त्तवस्नाता पूर्ववद्व्यवहारयेत् । धूर्त्ताञ्च धर्म्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ॥५०॥
सुदुष्टां व्यसनासक्तामहितामधिवासयेत् । अदिविन्नामपि विभुः स्त्रीणान्तु समतामियात् ॥५१॥
विवर्णा दीनवदना देहसंस्कारवर्ज्जिता । पतिव्रता निराहारा शोच्यते प्रोषिते पतौ ॥५२॥
मृतं भर्त्तारमादाय ब्राह्मणी वह्निमाविशेत् । जीवन्ती चेत्यक्तकेशा तपसा शोधयेद्वपुः ॥५३॥
सर्वावस्थासु नारीणां न युक्तः स्यादरक्षणम् । तदेवानुक्रमात् कार्य्यं पितृभर्त्तृसुतादिभिः ॥५४॥
जाताः सुरक्षिता या ये पुत्रपौत्रप्रपौत्रकाः । ये यजन्ति पितृन् यज्ञैर्मोक्षप्राप्तिमहोदयैः ॥५५॥
दाहयेदविलम्बेन भार्य्याञ्चात्र व्रजेत सा ॥५६॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : September 18, 2025

TOP