व्याससंहिता - प्रथमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.

वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम् । पप्रच्छुर्म्मुनयोऽभ्येत्य धर्म्मान् वर्णव्यवस्थितान् ॥१॥
स पृष्टः स्मृतिमान् स्मृत्वा स्मृतिं वेदार्थगर्भिताम् । उवाचाथ प्रसन्नात्मा मुनयः श्रूयतामिति ॥२॥
यत्र यत्र स्वभावेन कृष्णसारो मृगः सदा । चरते तत्र वेदोक्तो धर्म्मो भवितुमर्हति ॥३॥
श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते । तत्र श्रौतं प्रमाणन्तु तयोर्द्वैधे स्मृतिर्वरा ॥४॥
ब्राह्मणक्षत्रियविशस्त्रयो वर्णाः द्विजातयः । श्रुतिस्मृतिपुराणोक्तधर्म्मयोग्यास्तु नेतरे ॥५॥
शूद्रो वर्णश्चतुर्योऽपि वर्णत्वाद्धर्म्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्‌कारादिभिर्विना ॥६॥
विप्रवद्विप्रविन्नासु क्षत्रविन्नासु विप्रवत् । जातकर्म्माणि कुर्व्वीत ततः शूद्रासु शूद्रवत् ॥७॥
वैश्यास विप्रक्षत्राभ्यां ततः शूद्रासु शूद्रवत् । अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ॥८॥
ब्राह्मण्यां शूद्रजनितश्चाण्डालो धर्म्मवर्ज्जितः । कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ॥९॥
ब्राह्मण्यां शूद्रजनितश्चाण्डालस्त्रिविधः स्मृतः । वर्द्धकी नापितो गोप आशापः कुम्भकारकः ॥१०॥
वणिक्‌किरातकायस्थमालाकारकुटुम्विनः । वरटो मेदचण्डालोदासश्वपचकोलकाः ॥११॥
एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः । एषां सम्भाषणात् स्नानं दर्शनादर्कवीक्षणम् ॥१२॥
गर्भाधानं पुंसवनं सीमन्तो जातकर्म्म च । नामक्रियानिष्क्रमणेऽन्नाशनं वपनक्रिया ॥१३॥
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥१४॥
त्रेताग्निसंग्रहश्चेति संस्काराः षोड़श स्मृताः । नवैताः कर्णवेधान्ता मन्त्रवर्ज्जं क्रियाः स्त्रियाः ॥१५॥
विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश । गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः ॥१६॥
सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत् । एकादशेऽह्नि नामार्कस्येक्षा मासि चतुर्थके ॥१७॥
षष्ठे मास्यन्नमश्रीयाच्चूड़ाकर्म्म कुलोचितम् । कृतचूड़े च बाले च कर्णवेधो विधीयते ॥१८॥
विप्रो गर्भाष्टमे वर्षे क्षत्र एकादशे तथा । द्वादशे वैश्यजातिस्तु व्रतोपनयमर्हति ॥१९॥
तस्य प्राप्तव्रतस्यायं कालः स्याद्दिगुणाधिकः । वेदव्रतच्युतो व्रात्यः स व्रात्यः स्तोममर्हति ॥२०॥
द्वे जन्मनी द्विजातीना मातुः स्यात् प्रथमं तयोः । द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्‌गुरोः ॥२१॥
एवं द्विजातिमापन्नो विमुक्तो वान्यदोषतः । श्रुतिस्मृतिपुराणाना भवेदध्ययनक्षमः ॥२२॥
उपनीतो गुरूकुले वमेन्नित्यं समाहितः । विभृयाद्दण्डकौपीनोपवीताजिनमेखलाः ॥२३॥
पुण्येऽह्नि गुर्व्वनुज्ञातः कृतमन्त्राहुतिक्रियः । स्मृत्वोङ्कारञ्च गायत्रीमारमेद्वेदमादितः ॥२४॥
शौचाचारविचारार्थं धर्म्मशास्त्रमपि द्विजः । पठेत गुरूतः सम्यक् कर्म्म तद्दिष्टमाचरेत् ॥२५॥
ततोऽभिवाद्य स्थविरान् गुरूञ्चैव समाश्रयेत् । स्वाध्यायार्थं तदा यत्नं सर्व्वदा हितमाचरेत् ॥२६॥
नापक्षिप्तोऽपि भाषेत न व्रजेत ताड़ितोऽपि वा । विद्वेषमथ पैशुन्यं हिंसनञ्चार्कवीक्षणम् ॥२७॥
तौर्य्यत्रिकानृतोन्मादपरिवादानलङ्क्रियाम् । अञ्जनोद्वर्त्तनादर्शस्रग्विलेपनयोषितः ॥२८॥
वृथाटनमसन्तोषं ब्रह्मचारी विवर्ज्जयेत् । ईषच्चलितमध्याह्नेऽनुज्ञातो गुरूणा स्वयम् ॥२९॥
अलोलुपश्चरेद्भैक्षं व्रतिपूत्तमवृतिषु । सद्योभिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ॥३०॥
कृतमाध्याह्निकोऽश्रीयादनुज्ञातो यथाविधि । नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाचामितामियात् ॥३१॥
नान्यद्भक्षितमादद्यादापन्नो द्रविणादिकम् । अनिद्न्यामन्त्रितः श्राद्धेपैत्र्येऽद्याद्‌गुरूचोदितः ॥३२॥
एकान्नमप्यविरोधे व्रतानां प्रथमाश्रमी । भुक्त्वा गुरूमुपासीत कृत्वा सन्धुक्षणादिकम् ॥३३॥
समिधोऽग्नावादधीत ततः परिचरेद्‌गुरूम् । शयीत गुर्वनुज्ञातः प्रह्वश्च प्रथमं गुरोः ॥३४॥
एवमन्वहमभ्यासी ब्रह्मचारी व्रतं चरेत् । हितोपवादः प्रियवाक् सम्यग्गुर्वर्थसाधकः ॥३५॥
नित्यमाराधयेदेनमा समाप्तेः श्रुतिग्रहात् । अनेन विधिनाधीतवेदमन्त्रो द्विजो नयेत् ॥३६॥
शापानुग्रहसामर्थ्यमृषीणाञ्च सलोकताम् । पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः ॥३७॥
तस्मादहरहर्वेदमनध्यायमृते पठेत । यदङ्गं तदनध्याये गुरोर्वचनमाचरन् ॥३८॥
व्यतिक्रमादसम्पूर्णमनहङ्कुतिराचरेत् । परत्रेह च तद्‌ब्रह्म अनधीतमपि द्विजम् । यस्तूपनयनादेतदा मृत्योर्व्रतमाचरेत् ॥३९॥
स नैष्ठिको ब्रह्मचारी ब्र्हमसायुज्यमाप्नुयात् । उकरुर्व्वाणको यस्तु द्बिजः षड्‌विंशवार्षिकः ॥४०॥
केशान्तकर्म्मणा तत्र यथोक्तचरितव्रतः । समाप्यवेदान् वेदौ वा वेदं वा प्रसभं द्विजः । म्रायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः ॥४१॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : September 18, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP