संस्कृत सूची|संस्कृत साहित्य|संहिता|व्याससंहिता| तृतीयोऽध्यायः व्याससंहिता प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः व्याससंहिता - तृतीयोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : samhitaसंहिता तृतीयोऽध्यायः Translation - भाषांतर नित्यं नैमित्तिकं काम्यमिति कर्म्म त्रिधा मतम् । त्रिविधं तच्च वक्ष्यामि गृहस्थस्यावधार्य्यताम् ॥१॥ यामिन्याः पश्चिमे यामे त्यक्तनिद्रो हरिं स्मरेत् । आलोक्य मङ्गलद्रव्यं कर्म्मावश्यकमाचरेत् ॥२॥ कृतशौचो निषेव्याग्निं दन्तान् प्रक्षाल्य वारिणा । स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ॥३॥ वेदवेदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत् । अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजोत्तमः ॥४॥ अलव्धं प्रापयेल्लव्धा क्षणमात्रे समापयेत् । समर्थो हि समर्थेन नाविज्ञातः क्वचिद्द्वसेत् ॥५॥ सरित्सरसि वापीषु गर्त्तप्रस्रवणादिषु । स्रायीत यावदुद्धत्य पञ्च पिण्डानि वारिणा ॥६॥ तीर्थाभावेऽप्यशक्त्या वा स्नायात् तोयैः समाहृतैः । गृहाङ्गणगतस्तत्रयावदम्वरपीड़नम् ॥७॥ स्नानमद्वैवतै कुर्य्यात् पावनैश्चापि मार्ज्जनम् । मन्त्रैः प्राणास्त्रिरायम्य सौरैश्चार्कं विलोकयेत् ॥८॥ तिष्ठन् स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् । ऋचाञ्च यजुषां साम्नामथर्वाङ्गिरसामपि ॥९॥ इतिहासपराणानां वेदोपनिषदां द्विजः । शक्त्या यम्यक्पठेन्नित्यमल्पमप्या समापनात् ॥१०॥ स यज्ञदानतपसामखिलं फलमाप्नुयात् । तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ॥११॥ धर्म्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् । कृतस्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः ॥१२॥ जान्वा च दक्षिणं दर्मैः प्रागग्रैः सयवैस्तिलैः । एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः ॥१३॥ समजानुद्धयो ब्रह्मसूत्रहार उदङ्मुखः । तिर्य्यादभंश्च वामाग्रैर्यवैस्तिलविमिश्रितैः ॥१४॥ अम्भोभिरूत्तरक्षिप्तैः कनिष्ठामूलनिर्गतैः । द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः ॥१५॥ दक्षिणाभिमुखः सव्यं जान्वा च द्विगुणैः कुशैः । तिलैर्जलैश्च देशिन्या मूलदर्भाद्विनिः मृतैः ॥१६॥ दक्षिणांसोपवीतः स्यात् क्रमेणाञ्जलिभिस्त्रिभिः । सन्तर्पयेद्दिव्यपितॄंस्तत्परांश्च पितॄन् स्वकान् ॥१७॥ मातृमातामहांस्तद्वत्रीनेवं द्वि त्रिभिस्त्रिभिः । मातामहाश्च येऽप्यन्ये गोत्रिणो दाहवर्ज्जिताः ॥१८॥ तनेकाञ्जलिदानेन तर्पयेच्च पृथक् पृथक् । असंस्कृतप्रमीता ये प्रेतसंस्कारवर्ज्जिताः ॥१९॥ वस्रनिष्पीड़नाम्भोभिस्तेषामाप्यायनं भवेत् । अतर्पितेषु पितृषु वस्रं निष्पीड़येच्च यः ॥२०॥ निराशा पितरस्तस्य भवन्ति सूरमानुषैः । पयोदर्भस्वधाकारगोवनामतिलैर्भवेत् ॥२१॥ सुदत्तं तत् पुनस्तेषामेकेनापि वृथा विना । अन्यचित्तेन यद्दत्तं यद्दत्तं विधिवर्ज्जितम् ॥२२॥ अनासनस्थितेनापि तज्जलं रूधिरायते । एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च ॥२३॥ ब्रह्मविष्णुशिवादित्यमित्रावरूणनामभिः । पूजयेल्लक्षितैर्म्मन्त्रैर्जलमन्त्रोक्तदेवताः ॥२४॥ उपस्थाय रवेः काष्ठां पूजयित्वा च देवताः । ब्रह्माग्नीन्द्रौषधीजीवविष्णुनामहतांहसाम् ॥२५॥ अपां यत्तेति सत्कायं नमस्कारैः अनामभिः । कृत्वा मुखं समालम्य स्नानमेवं समाचरेत् ॥२६॥ ततः प्रविश्य भवनमावसये हुताशने । पाकवज्ञांश्च चतुरो विदध्याद्विधिवद्विजः ॥२७॥ अनाहितावसय्याग्निरादायान्नं घृतप्लुतम् । शाकलेन विधानेन जुहुयाल्लौकिकेऽनले ॥२८॥ व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम् । षड़भिर्द्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् ॥२९॥ प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः । ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः ॥३०॥ बुवि दर्भान् समास्तीर्य्य वलिकर्म्म समाचरेत् । विश्वेभ्यो देवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ॥३१॥ भूतानां पतये चेति नमस्कारेण शास्त्रवित् । दद्याद्वलित्रयञ्चाप्रे पितृभ्यश्च स्वधा नमः ॥३२॥ पात्रनिर्णेजनं वारि वायव्यां दिशि निक्षिपेत् । उद्वृत्य षोड़शग्रासमात्रमन्नं घृतोक्षितम् ॥३३॥ इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत् । गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः ॥३४॥ षड़भ्योऽन्नमन्वहं दद्यात् पितृयज्ञविधानतः । वेदाहीनां पठेत् किञ्चिदल्पं ब्रह्ममथाप्तये ॥३५॥ ततोऽन्यदन्नमादाय निर्गत्य भवनाद्विहिः । काकेभ्यः स्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव च ॥३६॥ उपविश्य गृहद्वारि तिष्ठेद्यावन्मूहूर्त्तकम् । अप्रमुक्तोऽतियिं लिप्स र्भावशुद्धः प्रतीक्षकः ॥३७॥ आगतं दूरतः शान्तं भोक्तुकाममकिञ्चनम् । दृष्ट्वा सन्मुखमभ्यत्य सतकृत्य प्रश्रयार्च्चनैः ॥३८॥ पादधावनसन्मानाभ्यञ्जनादिभिरर्च्चितः । त्रिदिवं प्रापयेत् सद्यो यज्ञस्याभ्यधिकोऽतिथिः ॥३९॥ कालागतोऽतिथिर्दृष्टवेदपारो गृहागतः । द्वावेतौ पूजितौ स्वगं नयतोऽधस्त्वपूजितौ ॥४०॥ विवाह्यस्नातकक्ष्माभृदाचार्य्यसुहृट्टत्विजः । अर्घ्या भवन्ति धर्म्मेण प्रतिवर्षं गृहागताः ॥४१॥ गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि । भक्तोपकल्पयेदेकं महाभागं विसर्ज्जयेत् ॥४२॥ विसर्ज्जयेदनुव्रज्य सुतृप्तश्रोत्रियातिथीन् । मित्रमातुलसम्बन्धिबान्धवान् समुपागतान् ॥४३॥ भोजयेद्गृहिणो भिक्षां सत्कृत भिक्षुकोऽर्हति । स्वाद्वन्नमश्रन्नस्वादु ददद्गच्छत्यधोगतिम् ॥४४॥ गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु । वुभुक्षितेषु भुञ्जानो गृहस्थोऽश्राति किल्विषम् ॥४५॥ नाद्याद्गृध्येन्नपाकाद्यं कदाचिदनिमन्त्रितः । निमन्त्रितोऽपि निद्न्येन्न प्रत्याख्यानं द्विजोऽर्हति ॥४६॥ शूद्राभिशस्तवार्द्धु व्यवागदुष्टक्रुरतस्कराः । रूद्धापविद्धबद्धोप्रबधबन्धनजीविनः ॥४७॥ शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यव्रतच्युताः । नग्नास्तिकनिर्लज्जपिशुनव्यसनान्विताः ॥४८॥ कदर्य्यस्त्रीजितानार्य्यपरवादकृता नराः । अनीशाः कीर्त्तिमन्तोऽपि राजदेवस्वहारकाः ॥४९॥ शयनासनसंसर्गवृत्तकर्म्मादिदूषिताः । अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ॥५०॥ अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात् सतत्समः । नापितान्वयमित्रार्द्धसोरिणो दासगोपकाः ॥५१॥ शूद्राणामप्यमीपान्तु भुक्त्वान्नं नैव दुष्यति । धर्म्मेणान्योन्यबोज्यान्ना द्विजास्तु विदितान्वयाः ॥५२॥ स्ववृत्तोपार्ज्जितं मेध्यमाकरस्थममाक्षिकम् । अखलीढ़मगोघ्रातमस्पृष्टं शूद्रवायसैः ॥५३॥ अनुच्छिष्टमसन्दुष्टमपर्य्युषितमेव च । अन्मानवाह्यमन्नाद्यमाद्यं नित्यं सुसंस्कतम् ॥५४॥ कृशरापूपसंथापवपायसं शष्कुलीति च । नाश्रीयाद्ब्राह्मणो मांसमनियुक्तः कथञ्चन ॥५५॥ क्रतौ श्राद्धे नियुक्तो वा अनश्रन् पतति द्विजः । मृगयोपार्ज्जितं मांसमभ्यर्च्च्य पितृदेवताः ॥५६॥ क्षत्रियो द्वादशोनं तत् क्रीत्वा वैश्योऽपि धर्म्मतः । द्विजो जग्ध्वा वृथामांसमभ्यर्च्च्य पितृदेवताः ॥५७॥ निरयेष्यक्षयं वासमाप्नोत्याचन्द्रतारकम् । सर्वान् कामान् समासाद्य फलमश्वमखस्य च ॥५८॥ मुनिसाम्यमवाप्नोति गृहस्थोऽपि द्बिजोत्तमः । द्विजभोज्यानि गव्यानि महिष्याणि पयांसि च ॥५९॥ निर्द्दशासन्धिसम्बन्धि वत्सवन्ति पयांसि च । पलाण्डूश्वेतवृन्ताकरक्तमूलकमेव च ॥६०॥ गृञ्जनारूणवृक्षासृग् जतुगर्भफलानि च । अकालकुसुमादीनि द्विजो जग्ध्वैन्दवं चरेत् ॥६१॥ वागदूषितमविज्ञातमन्यपीड़िक्तकार्य्यापि । दूतेभ्योऽन्नमदत्त्वा च तदन्नं गृहिणो दहेत् ॥६२॥ हैमराजतकांश्येषु पात्रेष्वद्यात् सदा गृहो । तदभावे साधुगन्धलोध्रद्रुमलतासु च ॥६३॥ पलाशपद्मपत्रेषु गृहस्थो भोक्तुमर्हति । ब्रह्मचारी यतिश्चैव श्रेयो यद्भोक्तुमर्हति ॥६४॥ अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्वलित्रयम् । भूपतये मुवः पतये भूतानां पतये तथा ॥६५॥ अपः प्राश्य ततः पश्चात् पञ्चप्राणाहुतिक्रमात् । स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ॥६६॥ अनन्यचितो भुञ्जीत वागयतोऽन्नमकुत्सयन् । आतृप्तरेन्नमश्रीयादक्षुणं पात्रमुत्मृजेत् ॥६७॥ उच्छिष्टमन्नमुद्धृत्य ग्रासमेकं भुवि क्षिपेत् । आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ॥६८॥ वृत्तवृद्धकथाभिश्च शेषाहमतिवाहयेत् । सायं सन्ध्यामुपासीत हुत्वाग्निं भृत्यसंयुतः ॥६९॥ आपोशानक्रियापूर्वमश्रीयादन्वहं द्विजः । सायमप्यतिथिः पूज्यो होमकालागतोऽनिशम् ॥७०॥ श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः । नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ॥७१॥ अप्रत्यगुत्तरशिराः शयीत शयने शुभे । शक्तिमानुदिते काले स्नानं सन्ध्यां न हापयेत् ॥७२॥ ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः । शक्तिमान् मतिमान् नित्यं वृत्तमेतत् समाचरेत् ॥७३॥ इति श्रीवेदव्यासीये धर्म्मशास्त्रे तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : September 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP