व्याससंहिता - चतुर्थोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.

इति व्यासकृतं शास्त्रं धर्म्मसार समुच्चयेम् । आश्रमे यानि पुण्यानि मोक्षधर्म्माश्रितानि च ॥१॥
गृहाश्रमात् परो धर्म्मो नास्ति नास्ति पुनः पुनः । सर्वतीर्थ फलं तस्य यथोक्तं यस्तु पालयेत् ॥२॥
गुरूभक्तो भृत्यपोषी दयावाननसूयकः । नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥३॥
स्वदारे यस्य सन्तोषः परदारनिवर्त्तनम् । अप्रवादोऽपि नो यस्य तस्य तीर्थफलं गृहे ॥४॥
परदारान् परद्रव्यं हरते यो दिने दिने । सर्वतीर्थाभिषेकेण पापं तस्य न नश्यति ॥५॥
गृहेषु सवनीयेषु सर्वतीर्थफलं ततः । अन्नदस्य त्रयो भागाः कर्त्ता भागेन लिप्यते ॥६॥
प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम् । न पापं संस्पृशेत्तस्य वलिभिक्षां ददाति यः ॥७॥
पादोदकं पादधृतं दीपमन्नं प्रतिश्रयम् । यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ॥८॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिवन्ति पितरोऽमृतम् ॥९॥
यत् फलं कपिलादाने कार्त्तिक्यां ज्येष्ठपुष्करे । तत् फलं ऋषयः श्रेष्ठा विप्राणां पादशौचने ॥१०॥
स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः । पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥११॥
मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः । ब्राह्मणात् परमं तीर्थं न भूतं न भविष्यति ॥१२॥
इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः । तत्र तस्य कुरूक्षेत्रं नैमिषं पुष्कराणि च ॥१३॥
गङ्गाद्वारञ्च केदारं सन्निहत्य तथैव च । एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥१४॥
वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य भो द्विजाः । दानधर्म्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥१५॥
यद्ददाति विशिष्टेभ्यो यच्चाश्राति दिने दिने । तच्च वित्तमहं मन्ये शेषं कस्याभिरक्षति ॥१६॥
यद्ददाति यदश्राति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीड़न्ति दारैरपि धनैरपि ॥१७॥
किं धनेन करिष्यन्ति देहनोऽपि गतायुषः । यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥१८॥
अशाश्वतानि गात्राणि विभवो नैव शाश्वतः । नित्यं सन्निहितोः मृत्युः कर्त्तव्यो धर्म्मसंग्रहः ॥१९॥
यदि नाम न धर्म्माय न कामाय न कीर्त्तये । यत्‌ परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥२०॥
जीवन्ति जीविते यस्य विप्र मित्राणि बान्धवाः । जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥२१॥
पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः । किं कायेन सुगुप्तेन बलिना चिरजीविनः ॥२२॥
ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते । इच्छानुरुपो विभवः कदा कस्य भविष्यति ॥२३॥
अदाता पुरूषस्त्यागी धनं सन्त्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥२४॥
प्राणनाशस्तु कर्त्तव्यो यः कृतार्थो न सो मृतः । अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमो हि सः ॥२५॥
अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥२६॥
मृतवत्‌सा यथा गौश्च कृष्णा लोभेन दुह्यते । परस्परस्य दानानि लोकयात्रा न धर्म्मतः ॥२७॥
अदृष्टे चाशुभे दानं भोक्ता चैव न दृश्यते । पुनरागमनं नास्ति तत्र दानमनन्तकम् ॥२८॥
मातापितृषु यद्दद्याद्‌भ्रातृषु श्वशुरेषु च । जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसंक्रमः ॥२९॥
पितुः शतगुणं दानं सहस्रं मातुरूच्यते । भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥३०॥
अहन्यहनि दातव्यं ब्राह्मनेषु मुनीश्वराः । आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति ॥३१॥
किञ्चिद्वेदभयं पात्रं किञ्चित् पात्रं तपोमयम् । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥३२॥
यस्य चैव गृहे मूर्खो दूरे चापि गुणान्वितः । गुणान्विताय दातव्यं नास्ति मुर्खे व्यतिक्रमः ॥३३॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥३४॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्ज्जिते । ज्वलन्तमग्निमुत्‌मृज्य न हि भस्मनि हूयते ॥३५॥
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात्रिपुरूषं कुलम् ॥३६॥
यथा काष्ठमयो हस्ती यथा चर्म्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥३७॥
ग्रामस्थानं यथा शून्यं यथा कुपश्च निर्ज्जलः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥३८॥
ब्राह्मणेषु च यदृत्तं यच्च वैश्वानरे हुतम् । तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥३९॥
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्य्ये ह्यनन्तं वेदपारगे ॥४०॥
ब्रह्मबीजसमुत्‌पन्नो मन्त्रसंस्कारवर्ज्जितः । जातिमात्रोपजीवी च स भवेद्‌ब्राह्मणः समः ॥४१॥
गर्भाधानादिभिर्म्मन्त्रैर्वेदोपनयनेन च । नाध्यापयति नाधीते स भवेद्‌ब्राह्मणब्रुवः ॥४२॥
अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः । सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते ॥४३॥
इष्टिभिः पशुबन्धश्चै चातुर्म्मास्यैस्तथैव च । अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान् ॥४४॥
मीमांसते च यो वेदान् षड़्‌भिरङ्गैः सविस्तरैः । इतिहासपुराणानि स भवेद्वेदपारगः ॥४५॥
ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन । ईदृक्‌पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्‌सहेत् ॥४६॥
ब्राह्मणः स भवेच्चैव देवानामपि दैवतम् । प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥४७॥
ब्राह्मणस्य मुखं क्षेत्रं निष्कर्करमकण्टकम् । वापयेत् तत्र वीजानि सा कृषिः सार्वकामिकी ॥४८॥
सुक्षेत्रे वापयेद्वीजं सुपात्रेदापयेद्धनम् । सुक्षेत्रेच सुपात्रेच क्षिप्तं नैव विदुष्यति ॥४९॥
विद्याविनयसम्पन्ने ब्राह्मणे गृहमागते । क्रीड़न्त्योषधयः सर्वायास्यामः परमां गतिम् ॥५०॥
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्ज्जिते । दीयमानं रूदत्यन्नं भयाद्वै दुष्कृतं कृतम् ॥५१॥
प्रीतिपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् । न च मूर्ख निराहारं षड़्‌रात्रमुपवासिनम् ॥५२॥
यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो द्विजाः । तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥५३॥
यस्य देहे सदाश्रन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥५४॥
यद्‌भुङ्‌क्तेः वेदविद्विप्रः स्वकर्म्मनिरतः शुचिः । दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥५५॥
हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः । अहं नेच्छामि मुनयः कस्यैताः शस्यसम्पदः ॥५६॥
वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च । यत् पुरा पातितं बीजं तस्यैताः शस्यसम्पदः ॥५७॥
शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु दाता भवति वा न वा ॥५८॥
नरणे विजयाच्छुरोऽध्ययनान्न च पण्डितः । न वक्ता वाक्‌पटुत्वेन न दाता चार्थदानतः ॥५९॥
इन्द्रियाणां जये शूरो धर्म्मं चरति पण्डितः । हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ॥६०॥
यद्येकपङक्त्यां विषमंददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । वेदेषु दृष्टं ऋषिभिश्च गीतं तद्‌ब्रह्महत्यां मुनयो वदन्ति ॥६१॥
उसरे वापितं बीजं भिन्नभाणडेषु गोदुहम् । हुतं भस्मनि हव्यञ्च मूर्खे दानमशाश्वतम् ॥६२॥
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने । अहमेवं न जनामि कां योनि स गमिष्यति ॥६३॥
शूद्रान्नेनोदरस्थेन यदि कश्चिन्‌म्रियेत यः । स भवेत् शूकरो नूनं तस्य वा जायते कुलम् ॥६४॥
गृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः । श्वानश्च सप्त जन्मानि इत्येवं मनुरव्रवीत् ॥६५॥
अमृतं ब्राह्मणान्नेन दारिद्रं क्षत्रियस्य च । वैश्यान्नेन तु शूद्रान्नं शूद्रान्नान्नरकं व्रजेत् ॥६६॥
यश्च भुङ्‌क्तेऽथ शूद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते ॥६७॥
यस्य शूद्रा पचेन्नित्यं शूद्रा वा गृहमेधिनी । वर्ज्जितः पितृदेवैस्तु रौरवं याति स द्विजः ॥६८॥
भाणडसङ्करसङ्कीर्णा नानासङ्करसङ्कराः । येनि सङ्करसङ्कीर्णा निरयं यान्ति मानवाः ॥६९॥
पङ्‌क्तिमेधी वृथापाकी नित्यं ब्राह्मणनिन्दकः । आदेशी वेद वेकेता पञ्चैते ब्रह्मघातकाः ॥७०॥
इदं व्यासकृतं नित्यमध्येतव्यं प्रयत्नतः । एतदुक्ताचारवतः पतनं नैव विद्यते ॥७१॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : September 18, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP