संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय २७ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय २७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २७ Translation - भाषांतर ॥ श्रीनारायण उवाच ॥खननोक्षणलेपाद्यैः शोधिते धरणीतले ॥चतुष्पादं न्यसेत्पीठं नानारङ्गसुशोभिते ॥१॥अर्चकः प्राङ्मुखः पीठपादान्कोणेषु कारयेत् ॥चतुर्षु तेषु धर्मादीन्स्थापयेत्सिंहरूपिणः ॥२॥अग्नौ धर्मं न्यसेच्छ्वेतं ज्ञानं शोणं च नैर्ऋते ॥वायौ तु पीतं वैराग्यं श्याममैश्वर्यमैशके ॥३॥मनोधीचित्ताहङ्कारान्क्रमात्पूर्वादिदिक्ष्वऽथ ॥विन्यसेत्पीठगात्रेषु हरिद्रक्तसितासितान् ॥४॥स्थाप्या रक्तसितश्यामा रजःसत्त्वतमोगुणाः ॥पीठस्य पट्टिकायां तु त्रयोपि मुनिसत्तम॥५॥अन्तःकरणरूपेषु गात्रेष्वथ चतुर्ष्वपि ॥विमलाद्या न्यसेच्छक्तीर्द्वेद्वे एकैकगात्रके ॥६॥विमलोत्कर्षिणीति द्वे गौराङ्ग्यौ पूर्वतो न्यसेत् ॥वादयन्त्यौ शुभां वीणां हरिद्वस्त्रे स्वलंकृते ॥७॥ज्ञानाक्रिये न्यसेद्याम्ये पीतवस्त्रेऽरुणद्युती ॥एका तालं वादयन्ती मृदङ्गमपरा तथा ॥८॥योगाप्रद्ध्यौ न्यसेत्पश्चाच्छ्यामे अरुणवाससौ ॥सहेव मुरली चोभे वादयन्त्यौ पृथक्पृथक् ॥९॥सत्येशाने हेमवर्णे उत्तरस्यां ततो न्यसेत् ॥श्यामांशुके वादयन्त्यावुभे ते परिवादिनीम् ॥१०॥अनुग्रहाख्या पट्टिकायां स्थाप्यैका च कृताञ्जलिः ॥सर्वा एतास्तु कर्तव्या द्विभुजाः सुविभूषणाः ॥११॥पीठोपरि सितद्वीपं कुर्वीत श्वेतवाससा ॥तन्मध्येऽष्टदलं पद्मं कुर्वीतोज्वलकर्णिकम् ॥१२॥द्वादशांशं परित्यज्य पद्मक्षेत्रस्य बाह्यतः ॥वृत्तैस्त्रिभिस्तस्य मध्यं विभजेत्समभागतः ॥१३॥तत्राद्यं कर्णिकास्थानं केसराणां तु मध्यमम् ॥पत्राणां तु तृतीयं स्याद्दलाग्राणि तु बाह्यतः ॥१४॥परितस्तस्य च पुरं चतुर्द्वारं प्रकल्पयेत् ॥रङ्गद्रव्यैर्बहुविधैर्हरिद्राकुंकुमादिभिः ॥१५॥कुर्वीत तण्डुलैर्वापि तत्र पद्मादि शोभनम् ॥पद्मस्य कर्णिकां मध्ये हेमवर्णा सुशोभयेत् ॥१६॥शोणवर्णानि पत्राणि परितस्तस्य चार्चकः ॥ कुर्यादष्टाप्यष्टदिक्षु स्वर्णवर्णानि वा मुने ॥१७॥पूर्वं तु गोपुरं शोणं श्यामं कुर्याच्च दक्षिणम् ॥पीतवर्णं पश्चिमं च स्फटिकाभं तथोत्तरम् ॥१८॥अन्तराले च पुष्पाणि चित्राणि पुरपद्मयोः॥कृत्वा मध्येऽथ श्रीकृष्णं तद्वामे राधिकां न्यसेत्॥१९॥राधाकृष्णस्यास्य ततः पृष्ठे संकर्षणं न्यसेत्॥चतुर्बाहुं धृतच्छत्रं गौराङ्गं नीलवाससम् ॥२०॥दक्षे न्यसेद्भगवतः प्रद्युम्नं पीतवाससम् ॥चतुर्भुजं घनश्यामं धृत्वा चामरमास्थितम् ॥२१॥वामेऽनिरुद्धं च हरेर्न्यसेदरुणवाससम् ॥इन्द्रनीलमणिश्यामं संस्थितं धृतचामरम् ॥२२॥त्रयोप्येते तु कर्तव्या नानालंकारशोभिताः ॥अनर्घ्यरत्नमुकुटास्तारुण्येन मनोहराः ॥२३॥ततोऽवतारांस्तु हरेः केसरेष्वष्टसु क्रमात् ॥एकैकस्मिन्न्यसेद् द्वौद्वावष्टस्वेवं हि षोडश ॥२४॥स्थापयेद्वामनं बुद्धं पूर्वस्मिन्केसरेऽग्रतः ॥घनश्यामावुभौ ह्येतौ करुणौ ब्रह्मचारिणौ ॥२५॥सितांशुकौ करे दक्षे बिभ्रतौ फुल्लपङ्कजम् ॥अभयं वामहस्ते च शान्तौ यज्ञोपवीतिनौ ॥२६॥कल्किनं पर्शुरामं च वह्निकोणेऽथ विन्यसेत् ॥खङ्गपाणिस्तत्र कल्की पर्शुपाणिस्तथाऽपरः ॥२७॥उभौ गौरौ च ताम्राक्षौ जटिलौ सितवाससौ ॥यज्ञोपवीतिनौ कार्यौ त्यक्तक्रोधमहारयौ ॥२८॥हयग्रीववराहौ च स्थापयेद्याम्यकेसरे ॥हयग्रीवो हयास्यः स्यान्नरांगश्च चतुर्भुजः ॥२९॥शङ्खादिभृत्स्वर्णवर्णो धृतदिव्यसिताम्बरः ॥वराहस्तु वराहास्यो नरांगः स्याच्चतुर्भुजः ॥३०॥शङ्खचक्रगदाब्जानि दधत्पीताम्बरं तथा ॥मधुपिंगलवर्णश्च कर्त्तव्यो द्विभुजोऽथ वा ॥३१॥मत्स्यकूर्म्मौ नैर्ऋते च स्थापयेत्केसरे ततः ॥कटेरधस्तदाकारावूर्द्ध्वं तौ तु नराकृती ॥३२॥वामे शंखं गदां दक्षे पाणौ च दधतावुभौ ॥श्यामसुन्दरदेहौ च कर्त्तव्यौ धृतभूषणौ ॥३३॥धन्वन्तरिं नृसिंहं च पश्चिमे केसरे न्यसेत् ॥धन्वन्तरिः शुक्लवासा गौरांगोऽमृतकुम्भधृत् ॥३४॥सिंहवक्त्रो नृसिंहस्तु नृदेहः केसरान्वितः ॥नीलोत्पलाभो द्विभुजो गदाचक्रधरो भवेत ॥३५॥वायौ न्यसेदुभौ हंसदत्तात्रेयौ जटाधरौ ॥योगिवेषौ सितौ दण्डकमण्डलुकरौ तथा ॥३६॥उत्तरे केसरे व्यासं न्यसेद्गणपतिं ततः ॥तत्र व्यासो विशालाक्षः कृष्णवर्णः सिताम्बरः ॥३७॥द्विभुजो धृतवेदश्च सुपिशंगजटाधरः ॥सितयज्ञोपवीतश्च कर्त्तव्यः सपवित्रकः ॥३८॥गजास्य एकदन्तश्च रक्तो गणपतिर्भवेत् ॥रक्ताम्बरधरश्चैव नागयज्ञोपवीतवान् ॥३९॥तुन्दिलश्च चतुर्बाहुः पाशाङ्कुशवरान्दधत् ॥करेणैकेन च दधद्रम्यां पुस्तकलेखिनीम् ॥४०॥न्यसेत्केसर ईशाने कपिलं पूजकस्ततः ॥सनत्कुमारं च मुनिं नैष्ठिकब्रह्मचारिणम् ॥४१॥शुक्लांगः कपिलः कार्यो धृतचारुसिताम्बरः ॥दधत्कराभ्यामम्भोजमभयं शान्तविग्रहम् ॥४२॥पञ्चवार्षिकबालाभो दिग्वस्त्रोऽल्पजटाधरः ॥सनत्कुमारश्च मुनिः कर्त्तव्यः पूजकेन तु ॥४३॥संस्थाप्य केसरेष्वित्थं देवताः पङ्कजस्य तु ॥न्यसेच्च दलमध्येषु पार्षदानर्च्चकोऽष्टसु ॥४४॥विष्वक्सेनं च गरुडं तत्रादौ पूर्वतो न्यसेत् ॥ततो दक्षक्रमेणैव प्रबलं च बलं न्यसेत् ॥४५॥कुमुदं कुमुदाक्षं च सुनन्दं नन्दमेव च ॥श्रुतदेवं जयन्तं च विन्यसेद्विजयं जयम् ॥४६॥ततः प्रचण्डं चण्डं च पुष्पदन्तं च सात्वतम् ॥द्वौद्वावेवं क्रमेणैव स्थानेष्वष्टसु विन्यसेत् ॥४७॥चतुर्भुजाः सर्व एते शङ्खार्यब्जगदाधराः ॥कार्याः किरिटिनः श्यामाः पीतवस्त्राः सुभूषणाः ॥४८॥दलमध्यान्तरालेषु सिद्धीरष्टसु विन्यसेत् ॥नाना मंगलवाद्यानां वादने निपुणाः क्रमात् ॥४९॥अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥ईशिता वशिता चैवाष्टमी कामावसायिता ॥५०॥एताः सुवर्णवर्णाभाः सर्वाभरणभूषिताः ॥वेणुवीणादिहस्ताश्च कर्त्तव्याश्चित्रवाससः ॥५१॥दलाग्रेष्वष्टसु ततो वेदाञ्छास्त्राणि च न्यसेत् ॥तत्र वेदान्न्यसेद्दिक्षु शास्त्राणि तु विदिक्षु सः ॥५२॥पूर्वे न्यसेत्तु ऋग्वेदमक्षमालाधरं सितम् ॥खर्वं लम्बोदरं सौम्यं पद्मनेत्रं सिताम्बरम् ॥५३॥याम्ये न्यसेद्यजुर्वेदं मध्यमांगं कृशोदरम् ॥पिंगाक्षं स्थूलकण्ठं च पीतं चारुणवाससम् ॥५४॥अक्षस्रजं करे वामे दक्षे वज्रं च बिभ्रतम् ॥पश्चिमे सामवेदं च प्रांशुमादित्यवर्चसम् ॥५५॥दक्षेऽक्षमालां वामे च धृतवन्तं करे दरम् ॥स्वर्णवस्त्रं विशालाक्षं विन्यसेद्गायनोद्यतम् ॥५६॥अथर्वाणं न्यसेत्सौम्ये सितांगं नीलवाससम् ॥वामेऽक्षसूत्रं दक्षे च खट्वांगं बिभ्रतं करे ॥वह्न्योजसं च ताम्राक्षं वयसा स्थविरं तथा ॥५७॥अग्निकोणे धर्मशास्त्रं न्यसेच्च कमलासनम् ॥श्वेतं च बिभ्रतं दोर्भ्यां मुक्तामालां तथातुलाम्॥ ५८॥दीर्घकेशनखं सांख्यं नैर्ऋते तुन्दिलं न्यसेत् ३जपमालां च दण्डं च कराभ्यां बिभ्रतं सितम् ॥५९॥न्यसेद्वायौ ततो योगं स्वर्णवर्णं कृशोदरम् ॥ऊरुन्यस्तकरद्वन्द्वं स्वनासाग्रकृतेक्षणम् ॥६०॥पञ्चरात्रं तथेशाने धवलं वनमालिनम्॥न्यसेत्कराभ्यां दधतमक्षमालां च लांगलम् ॥६१॥एषां चतुर्णां वासांसि श्वेतसूक्ष्मघनानि च॥कर्त्तव्यानि तथाक्षीणि पद्मपत्रायतानि च ॥६२॥अग्राणामन्तरालेषु महर्षींश्च सयोषितः ॥विन्यसेत्पठतो वेदान्पूर्वाग्नेयाद्यनुक्रमात् ॥६३॥मरीचिं कलया युक्तमत्रिं चाप्यनसूयया ॥श्रद्धयांगिरसं साकं पुलस्त्यं च हविर्भुवा ॥६४॥गत्या युक्तं च पुलहं क्रियया च सह क्रतुम् ॥ख्यात्या भृगुमरुन्धत्या वशिष्ठं सह विन्यसेत् ॥६५॥द्विभुजाः सर्व एवैते जटाश्मश्रुधराः कृशाः ॥कार्यास्तपस्विनो दण्डान्दधतश्च कमण्डलून्॥ ६६॥पद्माद्बहिर्न्यसेच्चाऽष्टौ दिशासु विदिशासु च ॥दिक्पालानिन्द्रप्रमुखान्सहयानान्यथादिशम् ॥६७॥प्राच्यामैरावतारूढं न्यसेदिन्द्रं चतुर्भुजम्॥वज्रांकुशाम्बुजवरान्दधतं स्वर्णसन्निभम् ॥६८॥कौसुम्भरम्यवसनं नानालंकारशोभितम् ॥शोणापांगं विशालाक्षं सर्वलक्षणलक्षितम् ॥६९॥अग्निकोणे न्यसेदग्निं ताम्रवर्णं चतुर्भुजम् ॥दधानं पाणिभिश्चैव शूलं शक्तिं स्रुचं स्रुवम् ॥७०॥चतुःशुके हैमरथे निषण्णं वायुसारथिम् ॥त्रिनेत्रं धूम्रवसनं पिङ्गश्मश्रुजटेक्षणम् ॥७१॥यमं न्यसेद्दक्षिणतः श्यामं चामीकराम्बरम्॥चतुर्भुजं दण्डखड्गपरशुं पाशधारिणम्॥उन्मत्तमहिषारूढं नानाभूषणभूषितम्॥ ७२॥ऊर्द्ध्वकेशं विरूपाक्षं नैर्ऋतं नैर्ऋते न्यसेत्॥खड्गं पाशं च दधतं द्विभुजं नरवाहनम्॥ ७३॥हरिश्मश्रुं धूम्रवर्णं परिवीतासिताम्बरम् ॥हाटकानेकभूषाढ्यमवैष्णवभयंकरम् ॥७४॥ततः प्रतीच्यां वरुणमिन्द्रनीलमणिप्रभम् ॥श्वेताम्बरं चतुर्बाहुं मुक्ताहार विभूषितम् ॥७५॥सप्तहंसरथारूढं दोर्भ्यां पाशं च बिभ्रतम् ॥अन्याभ्यां रत्नपात्रं च शंखं च दधतं न्यसेत् ॥७६॥वायौ वायुं हरिद्वर्णं द्विभुजं कृष्णवाससम् ॥पृषत्स्थं मुक्तकेशं च व्यात्तास्यं ध्वजिनं न्यसेत् ॥७७॥सौम्ये न्यसेत्कुबेरं च स्वर्णवर्णं चतुर्भुजम् ॥गदाशक्तित्रिशूलानि रत्नपात्रं च बिभ्रतम् ॥७८॥नीलाम्बरं श्मश्रुलं च शिबिकायां समास्थितम् ॥पिशंगवामनयनं नैकभूषं च वर्मिणम् ॥७९॥ईशानेऽथ मूहारुद्रमर्द्धनारीश्वरं न्यसेत् ॥वामार्द्धे पार्वती कार्या दक्षार्द्धे तत्र शंकरः ॥८०॥ईश्वरार्द्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् ॥उमार्द्धे तिलकं कार्यं सीमन्तमलिके तथा ॥८१॥भस्मनोद्धूलितं चार्द्धमर्द्धं कुंकुमभूषितम् ॥नागोपवीतं चाप्यर्द्धमर्द्धं हारविभूषितम् ॥८२॥वामार्द्धे च स्तनः पीनः कर्त्तव्यः कंचुकीवृतः ॥कट्यां च रशना हैमी पादे काञ्चननूपुरम् ॥८३॥कौसुम्भं वसनं चैव करौ कंकणभूषितौ ॥त्रिशूलमक्षसूत्रं च दधतौ रत्नमुद्रिकौ ॥८४॥दक्षार्द्धे रशना सार्पी कार्या वस्त्रं गजाजिनम् ॥करौ च नागवलयौ दर्पणोत्पलधारिणौ ॥८५॥एवंविधं महादेवं न्यसेद्वृषभवाहनम् ॥इत्थमष्टदिगीशानां कुर्यात्स्थापनमर्चकः ॥८६॥पुराद्बहिस्ततश्चाष्टौ स्थापयेदर्चको ग्रहान्॥स्वस्वदिक्षु स्थितान्स्वस्वान्यारूढान्स्यन्दनानि च ॥८७॥प्राच्यां दिशि न्यसेत्तत्र भास्करं पीतवाससम् ॥सिन्दूरवर्णं द्विभुजं पद्महस्तं रथे स्थितम् ॥८८॥एकं चक्रं द्वादशारं रथस्यास्यातितेजसः ॥सप्ताश्वाश्च हरिद्वर्णा वामे सन्ति नियोजिताः ॥८९॥अग्निकोणे ततः स्थाप्यो भृगुः श्वेतः सिताम्बरः ॥दण्डं कमण्डलुं बिभ्रद्द्विबाहुः सौम्यदर्शनः ॥९०॥चित्रवर्णाश्वदशके स्थितो हेममये रथे ॥दक्षिणे च न्यसेद्भौमं रक्तं रक्ताम्बरं तथा ॥९१॥चतुर्भुजं गदाशक्तित्रिशूलवरधारिणम् ॥तस्य हैमं रथं कुर्यादरुणाष्टहयान्वितम् ॥९२॥राहुश्च नैर्ऋते कोणे नीलवासाश्चतुर्भुजः ॥करालास्यस्तमोरूपश्चर्मासिशक्तिशूलधृत् ॥९३॥भृङ्गवर्णाष्टतुरगे स्थितः कार्यस्त्वयोरथे ॥सौरिश्च पश्चिमे स्थाप्य इन्द्रनीलसमद्युतिः ॥९४॥धन्वी त्रिशूली द्विभुजो मन्दाक्षश्चासिताम्बरः ॥शबलाष्टाश्वसंयुक्ते स्थितः कार्ष्णायसे रथे ॥९५॥वायुकोणे ततश्चन्द्रं स्थापयेच्च सिताम्बरम् ॥श्वेतवर्णं गदाहस्तं द्विभुजं च रथे स्थितम् ॥९६॥शतारचक्रत्रितये स्यन्दने तस्य चाम्मये ॥कुन्दाभाः सन्त्युभयतो योजितास्तुरगा दश ॥९७॥उत्तरे द्विभुजः सौम्यो वराभयकरोरुणः ॥हरिद्वासाष्टपिंगाश्वे कार्यो हैमरथे स्थितः ॥९८॥ईशाने च गुरुः स्थाप्यो हेमवर्णः सिताम्बरः ॥द्विभुजः पद्मनयनो धृतदण्डकमण्डलुः ॥पाण्डुराष्टहये हैमे निषण्णः स्यन्दनोत्तमे ॥९९॥अंगदेवान्भगवतः स्थापयेदित्थमर्चकः ॥कर्णिकाद्रिपुरान्तान्तस्थानेषु क्रमशोऽखिलान् ॥१००॥वासुदेवांगदेवानां न्यसेन्मूर्त्तीस्तु वैभवी ॥पूगफलानीतरस्तु न्यसेत्पुष्पाक्षतादि वा ॥१०१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे पूजामण्डलरचनाविधिनिरूपणं नाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP