संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय २१ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय २१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २१ Translation - भाषांतर श्रीनारायण उवाच ॥ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥एत आश्रमिणः प्रोक्ताश्चत्वारो मुनिसत्तम ॥१॥संस्कारैः संस्कृतो यस्तु शुद्धयोनिर्द्विजातिताम् ॥प्राप्तः स हि ब्रह्मचारी तद्धर्मानादितो ब्रुवे ॥२॥वर्णी वेदमधीयीत वसन्गुरुगृहे शुचिः ॥जितेन्द्रियो जितक्रोधो विनीतस्तथ्यभाषणः ॥३॥सायं प्रातश्चरेद्धोमं भिक्षाचर्यां च संयतः ॥कुर्यात्त्रिकालं संध्यां च विष्णुपूजां तथान्वहम् ॥४॥गुर्वाज्ञयैव भुञ्जीत मितमन्नमनाकुलः ॥गुरुसेवापरो नित्यं भवेद्व्यसनवर्जितः ॥५॥स्नाने च भोजने होमे जपे मौनमुपाश्रयेत् ॥छिन्द्यान्न नखरोमाणि दन्तान्नैवातिधावयेत् ॥६॥नातिधावेच्च वासांसि भवेन्निष्कपटो गुरौ ॥आहूतोध्ययनं कुर्यादादावन्ते च तं नमेत् ॥७॥अस्पृश्यान्न स्पृशेच्चासौ नाऽसंभाष्यांश्च भाषयेत् ॥अभक्ष्यं भक्षयेन्नैव नाऽपेयं च पिबेत्क्वचित् ॥८॥मेखलामजिनं दण्डं बिभृयाच्च कमण्डलुम् ॥सिते द्वे वाससी ब्रह्मसूत्रं च जपमालिकाम् ॥९॥दर्भपाणिश्च जटिलः केशसंस्कारवर्जितः ॥अङ्गरागं पुष्पहारान्भूषणानि च वर्जयेत् ॥१०॥तैलाभ्यङ्गं न कुर्वीत कज्जले नाञ्जनं तथा ॥वर्जयेच्च प्रयत्नेन संसर्गं मद्यमांसयोः ॥११॥स्त्रीणां निरीक्षणं स्पर्शं भाषणं क्रीडनादि च ॥वर्जयेत्सर्वथा वर्णी स्त्रियाश्चाप्यवलेखनम् ॥१२॥विना च देवप्रतिमां काष्ठचित्रादियोषितम् ॥अपि नैव स्पृशेद्धीमान्न च बुद्ध्यावलोकयेत् ॥१३॥प्राणिमात्रं च मिथुनीभूतं नेक्षेत कर्हिचित् ॥स्त्रीणां गुणाश्चाप्यगुणाञ्छृणुयान्नैव नो वदेत् ॥१४॥अस्पृशन्नेव वन्देत गुरुपत्नीमपि स्वकाम् ॥जनन्यापि न तिष्ठेत रहःस्थाने तु कर्हिचित् ॥१५॥एवंवृत्तो वसेत्तत्र यावद्विद्यासमापनम् ॥ततो विरक्तो न्यासी स्याद्वर्णी वा नैष्ठिको भवेत् ॥अनधिकारिता प्रोक्ता नैष्ठिकव्रतिनां कलौ ॥१६॥न संधाविति विज्ञेयं कलीति शब्दसंग्रहात् ॥वनी स्यादथ वा ब्रह्मन्नविरक्तो भवेद्गृही ॥१७॥प्राजापत्यं च सावित्रं ब्राह्मं नैष्ठिकमेव च ॥चतुर्विधं ब्रह्मचर्यं तत्रैकं शक्तितः श्रयेत् ॥१८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ब्रह्मचारिधर्मनिरूपणं नामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP