संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय २५ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय २५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २५ Translation - भाषांतर ॥ श्रीनारायण उवाच ॥वैराग्यस्याथ ते वच्मि लक्षणं मुनिसत्तम ॥क्षयिष्णुवस्तुष्वरुचिः सर्वथेति तदीरितम् ॥१॥आरभ्य मायापुरुषात्सर्वा ह्याकृतयस्तु याः ॥कालशक्त्या भगवतो नाश्यन्ते ताश्च तद्वशाः ॥२॥प्रत्यक्षेणानुमानेन शाब्देन च विवेकिभिः ॥असत्यता कृतीनां च निश्चिता सत्यतात्मनाम् ॥३॥नित्येन प्रलयेनैष कालो नैमित्तिकेन च ॥प्राकृतिकेन रूपेण चरत्यात्यन्तिकेन च ॥४॥देहिदेहा इमे नित्यं क्षीयन्ते परिणामिनः ॥क्रमेण दृश्यते यत्र बाल्यतारुण्यवार्द्धकम् ॥५॥सूक्ष्मत्वान्नेक्ष्यते तत्तु गतिर्दीपार्चिषो यथा ॥फलवृद्धिर्वाऽनुपदं जायमाना द्रुमे यथा ॥६॥तस्यांतस्यामवस्थायां दुःखं च महदीक्ष्यते ॥जाग्रदादिष्ववस्थासु दुःखं चैव पुनःपुनः ॥७॥दुःखमाध्यात्मिकं भूरि दृश्यते चाधिभौतिकम् ॥आधिदैविकमप्यत्र दुःखमेवास्ति देहिनाम् ॥८॥हाहा ममार मत्पुत्रो हा पत्नी म्रियते मम ॥तातं मेऽभक्षयद्व्याघ्रो दष्टा सर्पेण मे वधूः ॥९॥महासौधोग्निना दग्धो हाहा सोपस्करोऽद्य मे ॥स्वकुटुम्बं कथं पोक्ष्ये नावर्षत्पाकशासनः ॥१०॥सस्यैः समृद्धं मत्क्षेत्रं हाहा दग्धं हिमाग्निना ॥ह्रियन्ते तस्करैर्गावः सर्वस्वं मम लुण्ठितम् ॥११॥नृपेण दण्डितोऽत्यर्थं शत्रुणा हाऽतिताडितः ॥किं करोमि च कं ब्रूयां माता मे व्यभिचारिणी ॥१२॥विषं पास्यामि हाहाऽद्य मत्पत्नीं शत्रुराकृषत् ॥हा स्वसा मे हृता म्लेच्छैर्हाहाऽरिः प्राप मर्मभित् ॥१३॥प्रिये ज्वरातिव्यथया यमदूता इमे हहा ॥इत्थं रोरूयमाणा हि दृश्यन्ते सर्वतो जनाः ॥१४॥अवस्थानां शरीरस्य जन्ममृत्यू प्रतिक्षणम् ॥कालेन प्राप्नुवद्भिः स्वं प्रारब्धं दुःखमश्यते ॥१५॥प्रारब्धान्ते मृत्युदुःखं भवत्यप्रतिमं हि तत् ॥मृत्वापि च महद्दुःखं प्राप्यते यमयातनाः ॥१६॥ततो जरायुजोद्भिज्जस्वेदजाण्डजयोनिषु ॥भूत्वाभूत्वा यथाकर्म म्रियते दुःखितैः पुनः ॥१७॥नित्यः प्रलय एवं ते कीर्त्तितः सूक्ष्मया दृशा ॥स ज्ञेयोऽथ मुने वच्मि लयं नैमित्तिकाभिधम् ॥१८॥निमित्तीकृत्य रजनीं भवेद्विश्वसृजस्तु यः ॥नैमित्तिकः स कथितो लयो दैनंदिनश्च सः ॥१९॥चतुर्युगानां साहस्रं दिनं विश्वसृजो मुने ॥निशा च तावती तस्य तद्द्वयं कल्प उच्यते ॥२०॥एकैकस्मिन्दिने तस्य चतुर्दश चतुर्दश ॥भवन्ति मनवो ब्रह्मन्धर्मसेत्वभिरक्षकाः ॥२१॥आद्यः स्वायम्भुवस्तत्र मनुः स्वारोचिषस्ततः ॥उत्तमस्तामसश्चाऽथ रैवतश्चाक्षुषस्ततः ॥२२॥श्राद्धदेवश्च सावर्णि भौत्यो रौच्यस्ततः परम् ॥ब्रह्मसावर्णिनामा च रुद्रसावर्णिरेव च ॥२३॥मेरुसावर्णिसंज्ञोऽथ दक्षसावर्णिरन्तिमः ॥चतुर्दशैते मनवः प्रोक्ता ब्रह्मैकवासरे ॥२४॥एकैकस्य मनोः कालो युगानां चैकसप्ततिः ॥दिव्यैर्द्वादशसाहस्रैर्युगकालश्च वत्सरैः ॥२५॥चतुर्दशस्यैव मनोरन्तरेन्तमुपेयुषि ॥सायंसंध्या विश्वसृजो जायते मुनिसत्तम ॥२६॥दिनावसाने वैराजः शक्तीराकर्षति स्थितेः ॥वैराजात्मा तदा रुद्रस्त्रिलोकीं हर्तुमीहते ॥२७॥आदौ भवत्यनावृष्टिरत्युग्रा शतवार्षिकी ॥तदाल्पसारसत्त्वानि क्षीयन्ते सर्वशो भुवि ॥२८॥सांवर्त्तकस्य चार्कस्य रश्मयोऽत्युल्बणा रसम् ॥आपातालात्पिबन्त्याशु धरण्यां सर्वमेव हि ॥२९॥सारसं चैव नादेयं सामुद्रं चाम्बु सर्वशः ॥शोषयित्वाऽखिलाँल्लोकान्सोऽर्को नयति संक्षयम् ॥३०॥ततो भवति निःस्नेहा नष्टस्थावरजङ्गमा ॥कूर्मपृष्ठोपमा भूमिः शुष्का संकुचिता भृशम् ॥३१॥कालाग्निरुद्रः शेषस्य मुखादुत्पद्यते ततः ॥अधोलोकान्सप्तभूमिं भुवः स्वश्च दहत्यसौ ॥३२॥निर्दग्धलोकदशको ज्वालावर्त्तभयंकरः ॥उद्वासितमहर्लोकः कालाग्निः परिवर्त्तते ॥३३॥गताधिकारास्त्रिदशा भुवःस्वर्गनिवासिनः ॥महर्लोकाज्जनं यान्ति वह्निज्वालाभृशार्दिताः ॥३४॥निवृत्तिधर्मा ऋषयः प्राप्ताः सिद्धदशां तु ये ॥भूतलात्तेपि तर्ह्येव ऋषिलोकं प्रयान्ति च ॥३५॥उत्तिष्ठन्ति ततो घोरा व्योम्नि सांवर्त्तका घनाः ॥महागजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः ॥३६॥धूम्रवर्णाः पीतवर्णा केचित्कुमुदसन्निभाः ॥लाक्षारसनिभाः केचिच्चाषपत्रनिभास्तथा ॥३७॥शमयित्वा महावह्निं शतं वर्षाण्यहर्न्निशम् ॥वर्षमाणाः स्थूलधाराः स्तनन्तस्ते घना घनाः ॥ब्रह्माण्डस्यान्तरालं च पूरयन्ति ध्रुवावधि ॥३८॥एकार्णवजले तस्मिन्वैराजपुरुषः स तु॥अनिरुद्धात्मकः शेते नागेन्द्रशयने प्रभुः ॥३९॥तदा देवाश्च ऋषयो रजःसत्त्वतमोवशाः ॥ये ते सह विरिञ्चेन स्वकीयगुणकर्षिताः ॥प्रविश्य तस्य जठरे शेरते दीर्घनिद्रया ॥४०॥ये तु ब्रह्मात्मैक्यभावा वशीकृतगुणत्रयाः ॥निवृत्तेनैव धर्मेण वासुदेवमुपासते ॥४१॥महरादिषु लोकेषु ते चतुर्षु कृतालयाः ॥तं वैराजं संस्तुवन्तो निवसन्ति यथासुखम् ॥४२॥नारायणः स भगवान्स्वरूपं परमात्मनः ॥चिन्तयन्वासुदेवाख्यं शेते वै योगनिद्रया ॥४३॥निशान्ते ब्रह्मणा साकं सर्वे ते तस्य जाठराः ॥उत्पद्यन्ते यथापूर्वं यथाकर्माधिकारिणः ॥४४॥एवं नैमित्तिको नाम त्रिलोकीक्षयलक्षणः ॥प्रलयः कथितस्तुभ्यं प्राकृतं कीर्त्तयाम्यथ ॥४५॥य एष कल्पः कथितस्तादृशानां शतत्रयम् ॥षष्ट्याधिकं च यः कालो वेधसः स तु वत्सरः ॥४६॥पञ्चाशता तैः परार्द्धो ब्रह्मायुस्तद्द्वयं मतम् ॥पराख्यकाले संपूर्णे महान्भवति संक्षयः ॥४७॥संहाररुद्ररूपेण संहृत्य स्वं विराड्वपुः ॥स्वपरं निर्गुणं रूपं वैराजो यातुमिच्छति ॥४८॥तदा भवत्यनावृष्टिः पूर्ववच्छतवार्षिकी ॥साङ्कर्षणश्च कालाग्निर्दहत्यण्डमशेषतः ॥४९॥सांवर्त्तकास्ततो मेघा वर्षन्त्यति भयानकाः ॥शतं वर्षाणि धाराभिर्मुसलाकृतिभिर्मुने ॥५०॥महदादेर्विकारस्य विशेषान्तस्य संक्षयः ॥सर्वस्यापि भवत्येव वासुदेवेच्छया ततः ॥५१॥आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ॥आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥५२॥ग्रसतेम्बुगुणं तेजो रसं तल्लीयते ततः ॥रूपं तेजोगुणं वायुर्ग्रसते लीयतेऽथ तत् ॥५३॥वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ॥प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥५४॥भूतादिस्तद्गुणं शब्दं ग्रसते लीयते च खम् ॥इन्द्रियाणि विलीयन्ते तैजसाहंकृतौ ततः ॥५५॥अहङ्कारे विलीयन्ते सात्त्विके देवता मनः ॥यद्यद्यस्मात्समुत्पन्नं तत्तत्तस्मिन्हि लीयते ॥५६॥अहंकारो महत्तत्त्वे त्रिविधोपि प्रलीयते ॥तत्प्रधाने च तत्पुंसि स मूलप्रकृतौ ततः ॥५७॥एष प्राकृतिको नाम प्रलयः परिगीयते ॥तिरोभवन्ति जीवेशा यत्राऽव्यक्ते हरीच्छया ॥५८॥यदा च माया पुरुषौ कालोऽत्यक्षरतेजसि ॥तदिच्छया तिरो यान्ति स त्वेको वर्तते प्रभुः ॥तदा स प्रलयो ज्ञेयो नारदात्यन्तिकाभिधः ॥५९॥इत्थं प्रभोः कालशक्त्या लयैरेतैश्चतुर्विधैः ॥असद्बद्ध्वाऽखिलं तत्राऽरुचिर्वैराग्यमुच्यते ॥६०॥वासुदेवेतरान्देवान्कालमायावशीकृतान् ॥विदित्वा तेषु च प्रीतिं हित्वा तस्यैव नित्यदा ॥गाढस्नेहेन या सेवा सा भक्तिरिति गीयते॥६१॥श्रवणं कीर्तनं तस्य स्मृतिश्चरणसेवनम् ॥पूजा प्रणामो दास्यं च सख्यं चात्मनिवेदनम् ॥६२॥इत्येतैर्न्नवभिर्भावैर्यः सेवेत तमादरात्॥अनन्यया धिषणया स हि भक्त इतीर्यते ॥६३॥त्रिभिः स्वधर्मप्रमुखैर्युक्ताभक्तिरियं मुने॥धर्म एकान्तिक इति प्रोक्तो भागवतश्च सः॥६४॥साक्षाद्भगवतः सङ्गात्तद्भक्तानां च वेदृशाम् ॥धर्मो ह्येकान्तिकः पुम्भिः प्राप्यते नान्यथा क्वचित् ॥६५॥नैतादृशं परं किञ्चित्साधनं हि मुमुक्षताम् ॥निःश्रेयसकरं पुंसां सर्वाभद्रविनाशनम् ॥६६॥एकान्तधर्मसिद्ध्यर्थं क्रियायोगपरो भवेत् ॥पुमान्स्याद्येन नैष्कर्म्यं कर्मणां मुनिसत्तम ॥६७॥एतन्मया वेदपुराणगुह्यं तत्त्वं परं प्रोक्तमघौघनाशम् ॥एकाग्रया शुद्धधियावधार्य सच्छ्रद्धया चेतसि ते महर्षे ॥६८॥न वासुदेवात्परमस्ति पावनं न वासुदेवात्परमस्ति मङ्गलम् ॥न वासुदेवात्परमस्ति दैवतं न वासुदेवात्परमस्ति वाञ्छितम् ॥६९॥यन्नामधेयं सकृदप्यबुद्ध्या देहावसानेपि गृणाति योऽत्र ॥स पुष्कसोप्याशु भवप्रवाहाद्विमुच्यते तं भज वासुदेवम् ॥७०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वैराग्यभक्तिनिरूपणं नाम पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP