संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय १७ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय १७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १७ Translation - भाषांतर ॥ स्कन्द उवाच ॥तत्त्वेककालसंभूतकोटिकोट्यर्कसन्निभम् ॥स व्यचष्ट महत्तेजो दिव्यं सिततरं मुने ॥१॥दिशश्च विदिशः सर्वा ऊर्द्ध्वाधो व्याप्नुवच्च यत्॥अक्षरं ब्रह्म कथितं सच्चिदानन्दलक्षणम् ॥२॥प्रकृतिं पुरुषं चोभौ तत्कार्याण्यपि सर्वशः ॥व्याप्तं यद्योगसंसिद्धाः षट्चक्राणि निजान्तरे ॥व्यतीत्य मूर्ध्नि पश्यन्ति वासुदेवप्रसादतः ॥३॥यद्भासा भासितः सूर्यो वह्निरिन्दुश्च तारकाः ॥भासयन्ति जगत्सर्वं स्वप्रकाशं तथामृतम् ॥४॥यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः ॥यस्यान्तिकेषु परितस्तिष्ठन्त्यर्चककोटयः ॥५॥ब्रह्मशंकर वृन्दानि ह्युपर्युपरि संभ्रमात् ॥पतन्ति बलिहस्तानि गोपगोपीव्रजाश्च यत् ॥६॥कृष्णस्यानुग्रहो यस्मिन्स तेजसि तमीक्षते ॥केवलं तेज एवान्ये पश्यन्ति न तु तं मुने ॥७॥तस्मिन्ददर्शाद्भुतदिव्यमन्दिरं विचित्ररत्नेन्द्रमयं मनोज्ञम् ॥रत्नोज्ज्वलस्तम्भसहस्रकान्तं महासभा मण्डपदर्शनीयम् ॥८॥सौधालिभिर्भूरिभिरुज्ज्वलाभिः स्वोपासकानां परितो विराजितम् ॥विचित्रसूक्ष्माम्बररत्नभूषाविभूषितानां हि नृणां च योषिताम् ॥९॥सिंहासनं तत्र मणीन्द्रसारै रत्नेन्द्रसारैश्च विनिर्मितं सः ॥आश्चर्यकृन्प्रेक्षकमानसानां दिव्य मुनिः प्रैक्षत भूरिहर्षः ॥१०॥तत्राऽथ कृष्णं भगवन्तमैक्षन्नारायणं निर्गुणमास्थितं सः ॥सर्वज्ञमीशं पुरुषोत्तमं च यं वासुदेवं च वदन्ति सात्वताः ॥११॥यं केचिदाहुः परमात्मसंज्ञं केचित्परं ब्रह्म परात्परं च ॥ब्रह्मेति केचिद्भगवन्तमेके विष्णुं च भक्ताः परमेश्वरं च॥१२॥कन्दर्पसाहस्रमनोहराङ्गं सदा किशोरं करुणानिधानम् ॥अतिप्रशांताकृतिदर्शनीयं क्षराक्षरेभ्यश्च परं स्वतन्त्रम् ॥१३॥नैकाण्डसर्गस्थितिनाशलीलाविधायकापांगनिरीक्षणं च ॥अनेककोट्यण्डमहाधिराजं विश्वैकवन्द्यं नटवर्यवेषम् ॥१४॥अनर्घ्यदिव्योत्तमपीतवाससमनेकसद्रत्नविभूषणाढ्यम् ॥नवीनजीमूतसमानवर्णं कर्णोल्लसत्सन्मकराभकुण्डलम् ॥१५॥निजांगनिर्यत्सितभूरितेजश्चयावृतत्वात्सितवर्णमुक्तम् ॥सद्रत्नसारोज्ज्वलसत्किरीटं शरत्सरोजच्छदचारुनेत्रम् ॥१६॥सुगन्धिसच्चन्दनचर्चितांगं श्रीवत्सलक्ष्माङ्कितहृत्कपाटम् ॥निनादयन्तं मधुरं च वेणुं कृत्वा मुखाग्रेम्बुजचारुदोर्भ्याम् ॥१७॥जयासुशीलाललितामुखानां वृन्दैः सखीनां सह राधया च ॥समर्च्यमानं रमया च भामा कलिन्दजा जाम्बवतीमुखानाम् ॥१८॥धर्मेण वेदैरखिलैर्भगैश्च ज्ञानादिभिः संयतपाणियुग्मैः ॥निषेव्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः ॥१९॥मसारमाणिक्यसुवर्णवर्णैः सितैश्च कैश्चिन्निजपार्षदाग्र्यैः ॥उपासितं चक्रगदाब्जशङ्खलसद्भुजैर्नन्दसुनन्दमुख्यैः ॥२०॥श्रीदाममुख्यैरथ गोपवेषैर्भक्त्यावनम्रैर्द्विभुजैरनेकैः ॥उपास्यमानं गरुडेन चाग्रतो विभूतिभिश्चाष्टभिरानताभिः ॥२१॥मूर्त्या च शान्त्या दयया च सेवितं पुष्ट्या च तुष्ट्या ह्यथ मेधया च ॥श्रद्धाक्रिया ह्युन्नतिभिश्च मैत्र्या तथा तितिक्षास्मृतिबुद्धिभिश्च ॥२२॥दृष्ट्वा तमत्यद्भुतदिव्यमूर्त्ति तद्रूपसौरभ्यहृताखिलेन्द्रियः ॥आनन्दवारिप्रतिरुद्धदृष्टिः प्रेम्णोर्द्ध्वरोमा सुखसंभृतोऽभूत् ॥२३॥दण्डवत्तं नमस्कृत्य नारदः प्रेमविह्वलः ॥बद्धाञ्जलिपुटस्तस्थौ वीक्षमाणस्तदाननम् ॥२४॥तं मानयामास हरिः पृष्ट्वा स्वागतमादरात् ॥भक्तमेकान्तिकं स्वस्य स्वेनैव च दिदृक्षितम् ॥२५॥भगवद्वाक्यपीयूषास्वादप्राप्तात्मसंस्मृतिः ॥तद्दर्शनमहानन्दो भक्त्या तुष्टाव तं मुनिः ॥२६॥नारद उवाच ॥जय श्रीकृष्ण भगवन्नारायण जगत्प्रभो ॥वासुदेवाऽखिलावास सदैकान्तिकवल्लभ ॥२७॥अप्याश्चर्यार्चनीयाङ्घ्रे राधिकाकमलादिभिः ॥त्वमेवात्यन्तिकं श्रेयोऽभीप्सतां परमा गतिः ॥२८॥ नित्यानामात्मनां नित्य आत्मा चेतनचेतनः ॥क्षराक्षरेभ्यश्च परस्त्वं ब्रह्म परमं हरे ॥२९॥यथा विशुद्धिः सिद्धिश्च भक्त्या परमया तव ॥तथा न स्यान्नृणामन्यैः साधनैस्तप आदिभिः ॥३०॥त्वदङ्घ्रिदिव्यज्योत्स्नैका मुमुक्षूणां हृदि स्थितम् ॥महत्सन्तमसंहर्तुं सद्यः शक्तास्ति सत्पते ॥३१॥सर्वैर्वेदैस्त्वमेवेज्य उपास्यो ज्ञेय एव च ॥निरूपितोसि भगवन्सर्वकारणकारणम् ॥३२॥एकैकस्मिन्रोमकूपे यत्तवास्ति सितं महः ॥शान्तमानंदरूपं च तत्कोटीन्दुप्रभाधिकम् ॥३३॥अस्मिंस्त्वमक्षरे धाम्नि निर्गुणेऽमृतसञ्ज्ञके ॥महःपुञ्जे सदैवास्से निर्गुणः पुरुषोत्तमः ॥३४॥ब्रह्माण्डभयदात्कालान्मायायाश्च महाभयात् ॥मुक्ता भक्ता भवन्त्येव त्वदीयोपासनाबलात् ॥३५॥तं त्वामहमुपेतोस्मि शरणं जगदीश्वरम् ॥सर्वात्मानं विभुं ब्रह्म महापुरुषमच्युतम् ॥३६॥यथा त्वच्चरणाम्भोजे भक्तिर्मे निश्चला सदा ॥भवेत्तथैव देवेश कर्त्तुमर्हस्यनुग्रहम् ॥३७॥॥ स्कन्द उवाच ॥इत्थं देवर्षिणा भक्त्या संस्तुतः परमेश्वरः ॥तमाहानन्दयन्वाचा सुधासंमितया मुनिम् ॥३८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवदर्शनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP