संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ३९ कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ३९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ३९ Translation - भाषांतर ॥ नारद उवाच ॥सहस्रसप्तत्युच्छ्राये पातालानि परस्परम् ॥अतलं वितलं चैव नितलं च रसातलम् ॥१॥तलातलं च सुतलं पातालं चापि सप्तमम् ॥कृष्णशुक्लारुणाः पीताः शर्कराशैलकांचनाः ॥२॥भूमयो यत्र कौरव्य वरप्रासादशोभिताः ॥तेषु दानवदैतेयनागाश्चैव सहस्रसः ॥३॥स्वर्लोकादपि रम्याणि दृष्टानि बहुशो मया ॥आह्लादकारिणो नानामण्यो यत्र पन्नगः ॥४॥दैत्यदानवकन्याभिर्महारूपाभिरन्विते ॥पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥५॥यत्र नोष्णं न वा शीतं न वर्षं दुःखमेव च ॥भक्ष्यभोज्यमहाभोगकालो यत्रापि जायते ॥६॥पाताले सप्तमे चास्ति लिंगं श्रीहाटकेश्वरम् ॥ब्रह्मणा स्थापितं पार्थ सहस्रयोजनोच्छ्रितम् ॥७॥हाटकस्य तु लिंगस्य प्रासादो योजनायुतः ॥सर्वरत्नमयो दिव्यो नानाश्चयविभूषितः ॥८॥तच्चार्यंति तल्लिंगं नानानागेन्द्रसत्तमाः ॥तदधस्ताज्जलं भूरि तस्याधो नरकाः स्मृताः ॥९॥पापिनो येषु पात्यंते ताञ्छृणुष्व महामते ॥कोटयः पंचपंचाशद्राजानश्चैकविंशति ॥१०॥रौरवः शूकरो रोधस्तालो विशसनस्तथा ॥महाज्वालस्तप्तकुम्भो लवणोथ विमोहकः ॥११॥रुधिरांधो वैतरणी कृमिशः कृमिभोजनः ॥असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुमः ॥१२॥तथा पूयवहः पापो वह्निज्वालोऽप्यधःशिराः ॥संदंशः कृष्णसूत्रश्च तमश्चावीचिरेवच ॥१३॥श्वभोजनो विसूचिश्चाप्यवीचिश्च तथाऽपरः ॥कूटसाक्षी रौरवं च रोधं गोविप्ररोधकः ॥१४॥सुरापः सूकरं याति तालं मिथ्याम नुष्यहा ॥गुरुतल्पी तप्तकुम्भं तप्तलोहं च भक्तहा ॥१५॥गुरूणामवमंता यचो महाज्वाले निपात्यते ॥लवणं शास्त्रहंता च निर्मर्यादो विमोहके ॥१६॥कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत् ॥पितृदेवात्पूर्वमश्रल्लाँलाभक्ष्ये प्रयाति च ॥१७॥मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत् ॥अधोमुखे ह्यसद्ग्राही एकाशी पूयवाहके ॥१८॥मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च ॥बधिरांधगृहक्षेत्रतृणधान्यादिज्वालकः ॥१९॥नक्षत्ररंगजीवी च याति वैतरणीं नरः ॥धनयौवनमत्तो यो धनहा कृष्णमेति सः ॥२०॥असिपत्रवनं याति वृक्षच्छेदी वृथैव यत् ॥कुहकाजीविनः सर्वे वह्निज्वाले पतंति ते ॥२१॥परस्त्रीं च परान्नं च गच्छन्संदंशमेति च ॥दिवास्वप्नपरा ये व्रतलोपपराश्च ये ॥२२॥शरीरमदमत्ताश्च यांति चैते श्वभोजनम् ॥शिवं हरिं न मन्यंते यांत्यवीचिनमेव च ॥२३॥इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः ॥पतंत्येव महाघोरनरकेषु सहस्रशः ॥२४॥तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः ॥श्रुतिमार्गेण तेनार्च्यौ देवौ हरिहरावुभौ ॥२५॥नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः ॥तदधो हट्टकश्चैव अनंतस्तदधः स्मृतः ॥२६॥यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते ॥इत्यनंतप्रभावात्स ह्यनंत इति कीर्त्यते ॥२७॥दिशां गजास्तत्र पद्मकुमुदांजनवामनाः ॥तदधोंऽडकटाहश्च एकवीरास्ति तत्र च ॥२८॥चतुर्लक्षसहस्राणि नवतिश्च शतानि च ॥एतनैव प्रमाणेन उदकं च ततः स्मृतम् ॥२९॥तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान् ॥चत्वारिंशत्सहस्रैश्च तदधस्तम उच्यते ॥३०॥चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः ॥एकोननवतिर्लक्षाः सहस्राशीतिरेव च ॥३१॥तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः ॥देवी युक्ता कपालीशा दंडहस्तेन चापि सा ॥३२॥देवीनां कोटिकोटीभिः संवृता तत्र पालिनी ॥संकर्षणस्य निःश्वासप्रेरितो दाहकोऽनलः ॥३३॥कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत् ॥एवंविधमधःसूत्रं निर्मितं चात्र भारत ॥३४॥मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे ॥वसुधामा स्थितः पूर्वे शंखपालश्च दक्षिणे ॥३५॥तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति ॥हरसिद्धिः सुपर्णाक्षी भास्करा योगनंदिनी ॥३६॥कोटिकोटी युता देवी देवीनां पालयत्यदः ॥एवमेतन्महाश्चर्यं ब्रह्मांडं स्थापितं च यैः ॥३७॥नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान् ॥विष्णुलोको रुद्रलोको बहिश्चास्मात्प्रकीर्त्यते ॥३८॥तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः ॥विमुक्ता यत्र संयांति नित्यं हरिहरव्रताः ॥३९॥ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः ॥कपित्थस्य यथा बीजं कटाहेन सुसंवृतम् ॥४०॥दशोत्तरेण पयसा वृतं तच्चापि तेजसा ॥तेजश्च वायुना वायुर्नभ साहंतया च तत् ॥४१॥अहंकारश्च महता तं चापि प्रकृतिः परा ॥दशोत्तराणि सर्वाणि षडाहुः सप्तमं च तत् ॥४२॥प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम् ॥अंडानां तु सहस्राणां सहस्राण्ययुतानि च ॥४३॥ईदृशानां तथा चात्र कोटिकोटिशतानि च ॥सर्वाण्येवंविधान्येव यादृशं कीर्तितंत्विदम् ॥४४॥यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम् ॥अहो मंदः स पापात्मा को वा तस्मादचेतनः ॥४५॥य एवंविधसंमोहतारकं न शिवं भजेत् ॥अथ ते कीर्थयिष्यामि कालमानं निबोध तत् ॥४६॥काष्ठा निमेषा दश पंच चाहुस्त्रिंशच्च काष्ठा गणयेत्कला हि ॥त्रिंशत्कलाश्चापि भवेन्मुहुर्त्तं तत्त्रिंशता रात्र्यहनी उभे च ॥४७॥दिवसे पंच कालाः स्युस्त्रिमुहूर्ताः श्रृणुष्व तान् ॥प्रातस्ततः संगवश्च मध्याह्नश्चापराह्णकः ॥४८॥सायाह्नः पंचमश्चापि मुहूर्ता दश पंच च ॥अहोरात्राः पंचदश पक्ष इत्यभिधीयते ॥४९॥मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ॥ऋतुत्रयं चाप्ययनं द्वेयने वर्षमुच्यते ॥५०॥चतुर्भेदं मासमाहुः पंचभेदं च वत्सरम् ॥संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥५१॥इद्वत्सरस्तृतीयोऽसौ चतुर्थश्चानुवत्सरः ॥पंचमश्च युगोनाम गणनानिश्चयो हि सः ॥५२॥मासेन च मनुष्याणामहोरात्रं च पैतृकम् ॥कृष्णपक्षस्त्वहः प्रोक्तः शुक्लपक्षश्च शर्वरी ॥५३॥मानुषेण च वर्षेण दैविको दिवसः स्मृतः ॥अहस्तत्रो दगयनं रात्रिः स्याद्दक्षिणायनम् ॥५४॥वर्षेण चैव देवानां मतः सप्तर्षिवासरः ॥सप्तर्षीणां च वर्षेण ध्रौवश्च दिवसः स्मृतः ॥५५॥मनुष्याणां च वर्षाणि लक्षासप्तदशैव तु ॥अष्टाविंशतिसहस्राणि कृतं त्रेतायुगं ततः ॥५६॥लक्षद्वादशसाहस्रषण्नवत्यधिकाः पराः ॥अष्टौ लक्षाश्चतुःषष्टिसहस्राणि च द्वापरः ॥५७॥चतुर्लक्षं तु द्वात्रिंशत्सहस्राणि कलिः स्मृतः ॥चतुर्भिरेतैर्देवानां युगामित्यभिधीयते ॥५८॥आयुर्मनोर्युगानां च साधिका ह्येकसप्ततिः ॥चतुर्दशमनूनां च कालेन ब्रह्मणो दिनम् ॥५९॥युगानां च सहस्रेण स च कल्पः श्रृणुष्व तान् ॥भवोद्भवस्तपभव्य ऋतुर्वह्निर्वराहकः ॥६०॥सावित्र आसिकश्चापि गांधारः कुशिकस्तथा ॥ऋषभश्च तथा खड्गो गांधारीयश्च मध्यमः ॥६१॥वैराजश्च निषादश्च मेघवाहनपंचमौ ॥चित्रको ज्ञान आकूतिर्मोनो दंशश्च बृंहकः ॥६२॥श्वेतो लोहितरक्तौ च पीतवासाः शिवः प्रभुः ॥सर्वरूपश्च मासोऽयमेवं वर्षशतावधिः ॥६३॥पूर्वार्धमपरार्धं च ब्रह्ममानमिदं स्मृतम् ॥विष्णोश्च शंकरस्यापि नाहं शक्तश्च वर्णने ॥६४॥क्वाहमल्पमतिः पार्थ क्वापरौ हरित्र्यंबकौ ॥देविकेनैव मानेन पातालेष्वपि गण्यते ॥६५॥इति ते सूचितं बुद्ध्या श्रृणु तत्प्राकृतं पुनः ॥६६॥इति वैधात्रव्यवस्थितिः ॥ ॥श्रीनारद उवाच ॥ऋषभोनाम यन्नाम्ना नानापाषंड कल्पनाः ॥कलौ पार्थ भविष्यंति लोकानां मोहनात्मिकाः ॥६७॥तस्य पुत्रस्तु भरतः शतश्रृंगस्तु तत्सुतः ॥तस्य पुत्राष्टकं जातं तथैकाच कुमारिका ॥६८॥इंद्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान् ॥नागः सौम्यश्च गांधर्वो वरुणश्च कुमारिका ॥६९॥वदनं चापि कन्यायाः पार्थ बर्करिकाकृति ॥श्रृणु तत्कारणं सर्वं महाश्चर्यसमन्वितम् ॥७०॥महीसागरपर्यंतं वृक्षराजिविराजिते ॥जालीगुल्मलताकीर्णे स्तंभतीर्थस्य संनिधौ ॥७१॥अजासमजतो मध्यात्काचिदेका च बर्करी ॥भ्रांता सती समायाता प्रदेशे तत्र दुश्चरे ॥७२॥इतस्ततो भ्रमंति सा जालिमध्ये समंततः ॥निर्गंतुं नैव शक्नोति क्षुत्पिपासार्दिता शुभा ॥७३॥विलग्ना जालिमध्ये तु ततः पंचत्वमागता ॥कालेन कियता तस्य त्रुटित्वा शिरसो ह्यधः ॥७४॥पपात शनिदर्शे च महीसागरसंगमे ॥सर्वतीर्थमये तत्र सर्वपापप्रमोचने ॥७५॥शिरस्तु तदवस्थं हि समग्रं तत्र संस्थितम् ॥जालिगुल्मावलग्नं च तस्या नैवापतज्जले ॥७६॥शेषकायप्रपातेन महीसागरसंगमे ॥तत्तीर्थस्य प्रभावेन बर्करीसा कुरूद्वह ॥७७॥शकश्रृंगस्य वै राज्ञः सिंहलेष्वभवत्सुता ॥मुखं बर्करिकातुल्यं व्यक्तं तस्या व्यजायत ॥७८॥दिव्यनारी शुभाकारा शेषकाये बभौ शुभा ॥पूर्वं तस्याप्यपुत्रस्य राज्ञः पुत्रशतोपमा ॥७९॥पुत्री जाता प्रमोदेन स्वजनानंदवर्धिनी ॥ततस्तस्या विलोक्याथ मुखं वर्करिकाकृति ॥८०॥विस्मयं समनुप्राप्ताः सर्वे ते राजपूरुषाः ॥विषादं परमापन्नो राजा सांतःपुरस्तदा ॥८१॥खिन्नाः प्रकृतयः सर्वास्तादृग्रूपविलोकनात् ॥तत्किमित्येतदाश्चर्यमूचुः पौराः सुविस्मिताः ॥८२॥ततः सा यौवनं प्राप्ता साक्षाद्देवसुतोपमा ॥स्वमुखं दर्पणे वीक्ष्यस्मृतः पूर्वो भवस्तया ॥८३॥तत्तीर्थस्य प्रभावेण मातृपित्रोर्निवेदितम् ॥विषादो नैव कर्तव्यो मदर्थे तात निश्चितम् ॥८४॥मा शोकं कुरु मे मातः पूर्वजन्मार्जितं फलम् ॥ततः पूर्वं स्ववृत्तांतमुक्त्वा सा च कुमारिका ॥८५॥पूर्वजन्मोद्भवः कायस्यस्या यत्रापतत्तथा ॥गमनाय तमुद्देशं विज्ञप्तौ पितरौ तया ॥८६॥अहं तात गमिष्यामि महीसागरसंगमम् ॥भवामि तत्र संप्राप्ता यथा कुरु तथा नृप ॥८७॥ततः पित्रा प्रतिज्ञातं शतश्रृंगेण तत्तथा ॥तस्याः संवाहनं चक्रे राजा पोतैः सरत्नकैः ॥८८॥स्तंभतीर्थं ततः साऽपि प्राप्य पोतार्यसंयुता ॥भूरिदानं ततश्चक्रे दानं सर्वस्वलक्षणम् ॥८९॥जालिगुल्मांतरेऽन्विष्य ततो दृष्टं निजं शिरः ॥अस्थिचर्मावशेषं च तदादाय प्रयत्नतः ॥९०॥दग्ध्वा संगमसांनिध्ये क्षिप्तान्यस्थीनि संगमे ॥ततस्तीर्थप्रभावेण मुखं जातं शशिप्रभम् ॥९१॥न तादृग्देवकन्यानां न तादृङनागयोषिताम् ॥न तादृङमर्त्यनारीणां तस्या यादृङमुखं मुखम् ॥९२॥सुरासुरनराः सर्वे तस्या रूपेण मोहिताः ॥बहुधा प्रार्थयंत्येनां न सा वरमभीप्सति ॥९३॥कष्टं तया मुदा तत्र प्रारब्धं दुश्चरं तपः ॥ततः संवत्सरे पूर्णे देवदेवो महेश्वरः ॥९४॥प्रत्यक्षतां गतस्तस्यै वरदोऽस्मीति चाब्रवीत् ॥ततस्तं पूजयित्वा च कुमारी वाक्यमब्रवीत् ॥९५॥यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥सांनिध्यं क्रियतामत्र सर्वकालं हि शंकर ॥९६॥एवमस्त्विति शर्वेण प्रोक्ते हृष्टा कुमारिका ॥यत्र दग्धं शिरस्तस्या बर्कर्याः कुरुसत्तम ॥९७॥बर्करेशः शिवस्तत्र तया संस्थापितस्तदा ॥मन्मुखान्महादाश्चर्यं श्रुत्वेदं च तलातलात् ॥९८॥स्वस्तिकोनाम नागेंद्रः कुमारीं द्रष्टुमागतः ॥शिरसा गच्छता तेन यत्रोत्क्षिप्ता च भूरभूत् ॥९९॥ईशाने बर्करेशस्य कूपोऽभूत्स्वस्तिकाभिधः ॥पूरितो गंगया पार्थसर्वतीर्थफलप्रदः ॥१००॥दृष्ट्वा च स्थापितं लिंगं शिवस्तुष्टो वरं ददौ ॥येषां मृतशरीराणामत्र दाहः प्रजायते ॥१०१॥क्षिप्यंतेब्धौ तथा स्थीनि तेषां स्यादक्षया गतिः ॥ते स्वर्गे सुचिरं कालं वसित्वात्र समागताः ॥१०२॥राजानः सर्वसंपूर्णाः सप्रतापा भवंति ते ॥बर्करेशं च यो भक्त्या संपूजयति मानवः ॥१०३॥स्नात्वार्णवमहीतोये तस्य स्यान्मनसेप्सितम् ॥कार्तिके च चतुर्द्देश्यां कृष्णायां श्रद्धयान्वितः ॥१०४॥कूपे स्नानं नरः कृत्वा संतर्प्य च पितॄन्निजान् ॥पूजयेद्बर्करेशं यः सर्पपापैः स मुच्यते ॥१०५॥एवं लब्ध्वा वरान्सर्वान्सा पुनः सिंहलं ययौ ॥शतश्रृङ्गाय पित्रे च वृत्तांतं स्वं न्यवेदयत् ॥१०६॥तच्छ्रुत्वा विस्मितो राजा लोकाः सर्वे च फाल्गुन ॥प्रशशंसुर्महीतीर्थमाजग्मुश्च कृतादराः ॥१०७॥स्नात्वा दत्त्वा च दानानि विविधानि च ते ततः ॥सिंहलं च ययुर्भूयस्तीर्थमाहात्म्यहर्षिताः ॥१०८॥अनिच्छंत्यां कुमार्यां च वरं द्रव्यं च पार्थिवः ॥तथान्यदपि प्रीत्यासौ यद्ददौ नृपतिः श्रृणु ॥१०९॥इदं भारतखंडं च नवधैव विभज्य सः ॥ददावष्टौ स्वपुत्राणां कुमार्यै नवमं तथा ॥११०॥तेषां विभेदान्वक्ष्यामि पर्वतैरुपशोभितान् ॥पुत्रनामानि वर्षाणि पर्वतांश्च श्रृणुष्व मे ॥१११॥महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥११२॥महेन्द्रपरतश्चैव इन्द्रद्वीपो निगद्यते ॥पारियात्रस्य चैवार्वाक्खण्डं कौमारिकं स्मृतम् ॥११३॥सहस्रमेकमेकं च सर्वखण्डान्यमूनि च ॥नदीनां संभवं चापि संक्षेपाच्छृणु फाल्गुन ॥११४॥वेदस्मृतिमुखा नद्यः पारियात्रोद्भवा मताः ॥नर्मदासरसाद्याश्च नद्यो विंध्याद्विनिर्गताः ॥११५॥शतद्रूचन्द्रभागाद्या ऋक्षपर्वतसंभवाः ॥ऋषिकुल्याकुमार्याद्याः शुक्तिमत्पादसंभवाः ॥११६॥तापी पयोष्णी निर्विध्या कावेरी च महीनदी ॥कृष्णा वेणी भीमरथी सह्यपादोद्भवाः स्मृताः ॥११७॥कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥त्रिसामऋष्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥११८॥एवं विभज्य पुत्रेभ्यः कुमार्यै च महीपतिः ॥शतशृंगो गिरं गत्वा उदीच्यां तप्तवांस्तपः ॥११९॥तत्र तप्त्वा तपो घोरं ब्रह्मलोकं जगाम सः ॥शतश्रृंगो नृपश्रेष्ठः शतश्रृंगे नगोत्तमे ॥१२०॥यत्र जातोऽसि कौतेय पांडोस्त्वं सोदरैः सह ॥कुमारी च महाभागा स्तंभतीर्थस्थिता सती ॥१२१॥खंडोद्भवेन द्रव्येण तेपे दानानि यच्छती ॥ततः केनापि कालेन भ्रातृभ्योऽष्टभ्य एव च ॥१२२॥महावीर्यबलोत्साहा जाता नव नवात्मजाः ॥ते समेत्य समागम्य कुमारीं प्रोचिरे ततः ॥१२३॥कुलदेवी त्वमस्माकं प्रसादं कुरु नः शुभे ॥अष्टौ खण्डानि चास्माकं विभज्य स्वयमेव च ॥देही द्वासप्ततीनां नो विभेदः स्याद्यथा न नः ॥१२४॥इत्युक्ता सर्वधर्मज्ञा विज्ञाने ब्रह्मणा समा ॥द्वासप्ततिविभेदैः सा नव खंडान्यचीकरत् ॥१२५॥तेषां नामानि ग्रामांश्च पत्तनानि च फाल्गुन ॥वेलाकूलानि संख्यां च वक्ष्यामि तव तत्त्वतः ॥१२६॥कोटिश्चतस्रो ग्रामाणां नीवृदासीच्च मंडले ॥सार्धकोटिद्वयग्रामैर्देशो बालाक जच्यते ॥१२७॥सपादकोटिर्ग्रामाणां पुरसाहणके विदुः ॥लक्षाश्चत्वार एवापि ग्रामाणामंधके स्मृताः ॥१२८॥एको लक्षश्च नेपाले ग्रामाणां परिकीर्तितः ॥षट्त्रींशल्लक्षमानं तु कान्यकुब्जे प्रकीर्तितम् ॥१२९॥द्वासप्ततिस्तथा लक्षा ग्रामा गाजणके स्मृताः ॥अष्टादश तथा लक्षा ग्रामाणां गौडदेशके ॥१३०॥कामरूपे च ग्रामाणां नवलक्षाः प्रकीर्तिताः ॥डाहले वेदसंज्ञे तु ग्रामाणां नवलक्षकम् ॥१३१॥नवैव लक्षा ग्रामाणां कांतिपुरे प्रकीर्तिताः ॥नवलक्षास्तथा चैव माचिपुरे प्रकीर्तिताः ॥१३२॥ओड्डियाणे तथा देशे नवलक्षाः प्रकीर्तिताः ॥जालंधरे तथा देशे नवलक्षाः प्रकीर्तिताः ॥१३३॥लोहपूरे तथा देशे लक्षाः प्रोक्ता नवैव च ॥ग्रामाणां सप्तलक्षं च पांबीपुरे प्रकीर्तितम् ॥१३४॥ग्रामाणां सप्तलक्षं च रटराजे प्रकीर्तितम् ॥हरीआले च ग्रामाणां लक्षपंचकसंमितम् ॥१३५॥सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा ॥सार्धलक्षत्रयं प्रोक्तं तथावंभणवाहके ॥१३६॥एकविंशतिसाहस्रं ग्रामणां नीलपूरके ॥तथामलविषये पार्थ ग्राममाणामेकलक्षकम् ॥१३७॥नरेंदुनामदेशे तु लक्षमेकं सपादकम् ॥अतिलांगलदेशे च लक्षः प्रोक्तः सपादकः ॥१३८॥लक्षाष्टादशसाहस्रं नवती द्वे च मालवे ॥सयंभरे तथा देशे लक्षः प्रोक्तः सपादकः ॥१३९॥मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः ॥अशीतिश्च सहस्राणि वागुरिः परिकीर्तितः ॥१४०॥ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः ॥तथा सप्ततिसाहस्रः पांडर्विषय एव च ॥१४१॥जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च ॥अष्टषाष्टसहस्राणि प्रोक्तं काश्मीरमंडलम् ॥१४२॥षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः ॥चतुर्दशशतं द्वे च विंशतीलघुकौंकणम् ॥१४३॥सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः ॥१४४॥चतुर्दशशते द्वे च विंशतिः कच्छमंडलम् ॥पंचपंचाशत्सहस्रं ग्रामाः सौराष्ट्रमुच्यते ॥१४५॥एकविंशतिसहस्रो लाडदेशः प्रकीर्तितः ॥अतिसिंधुश्च ग्रामाणां दशसहस्र उच्यते ॥तथा चाश्वमुखं पार्थ दशसाहस्रमुच्यते ॥१४६॥सहस्रदशकं चापि एकपादः प्रकीर्तितः ॥१४७॥तथैव दशसाहस्रो देशः सूर्यमुखः स्मृतः ॥एकबाहुस्तथा देशो दशसाहस्रमुच्यते ॥१४८॥सहस्रदशकं चैव संजायुरिति देशकः ॥शिवनामा तथा देशः सहस्रदशकः स्मृतः ॥सहस्राणि दश ख्यातं तथा कालहयंजयः ॥१४९॥लिंगोद्भवस्तथा देशः सहस्राणि दशैव च ॥भद्रश्च देवभद्रश्च प्रत्येकं दशकौ स्मृतौ ॥१५०॥षट्त्रिंशच्च सहस्राणि स्मृतौ चटविराटकौ ॥षट्त्रिंशच्च सहस्राणि यमकोटिः प्रकीर्तिता ॥१५१॥अष्टादश तथा कोट्यो रामको देश उच्यते ॥तोमरश्चापि कर्णाटो युगलश्च त्रयस्त्विमे ॥१५२॥सपादलक्षग्रामाणां प्रत्येकं परिकीर्तितः ॥पंचलक्षाश्च ग्रामाणां स्त्रीराज्यं परिकीर्तितम् ॥१५३॥पुलस्त्यविषयश्चापि दशलक्षक उच्यते ॥प्रत्येकं लक्षदशकौ देशौ कांबोजकोशलौ ॥१५४॥ग्रामाणां च चतुर्लक्षो बाल्हिकः परिकीर्त्यते ॥षट्त्रिंशच्च सहस्राणि लंकादेशः प्रकीर्तितः ॥१५५॥चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः ॥सार्धलक्षस्तथा प्रोक्तः किरातविजयो जयः ॥१५६॥पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान् ॥चतुर्दशसहस्राणि वर्धमानं प्रकीर्तितम् ॥१५७॥सहस्रदशकं चापि सिंहलद्वीपमुच्यते ॥षट्त्रिंशच्च सहस्राणि ग्रामाणां पांडुदेशकः ॥१५८॥लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम् ॥षट्षष्टिं च सहस्राणि देशो मागध उच्यते ॥१५९॥षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः ॥त्रिंशत्साहस्र उक्तश्च ग्रामाणां च वरेंदुकः ॥१६०॥पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम् ॥चत्वारिंशत्सहस्राणि ग्रामाणां यावनः स्मृतः ॥१६१॥चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते ॥द्वासप्ततिरमी देशाः ग्रामसंख्याः प्रकीर्तिताः ॥१६२॥एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः ॥द्वासप्ततिस्तथा लक्षाः पत्तनानां प्रकीर्तिताः ॥१६३॥षट्त्रिंशच्च सहस्राणि वेलाकूलानि भारत ॥एवं विभज्य खंडानि भ्रातृव्याणां ददौ नव ॥१६४॥आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च ॥यतो मान्येति भगिनी प्रति क्रुध्यंति भ्रातरः ॥१६५॥भ्रातॄन्प्रति भगिनी च विचार्यैव ददौ शुभा ॥तत्कृत्वा सानुमान्यैतान्स्तंभतीर्थमुपागता ॥१६६॥तदा तेषु च देशेषु चतुर्वर्गस्य साधनम् ॥सर्वेषां प्रवरं प्रोक्तं कुमारीश्वरमेव च ॥१६७॥तत्रापि गुप्तक्षेत्रं च वेदैतत्सा कुमारिका ॥गुप्तक्षेत्रे कुमारेशं पूजयंति महाव्रता ॥१६८॥तस्थौ स्नायंती षट्सु चैवापि संगमे ॥ततः कालप्रकर्षाच् प्रासादे स्कंदनिर्मिते ॥१६९॥जीर्णे नव्यं स्वर्णमयं प्रासादं साप्यकारयत् ॥ततस्तुष्टो महादेवस्तस्या भक्त्यातितोषितः ॥१७०॥कुमारलिंगादुत्थाय प्रत्यक्षस्तामवोचत ॥भद्रे तवाहं भक्त्या च विज्ञानेन च तोषितः ॥१७१॥जीर्णः पुनरुद्धृतोऽयं प्रासादस्तेन तोषितः ॥तव नाम्ना च विख्यातो भविष्यामि कुमारिके ॥१७२॥कर्ता चापि तथोद्धर्ता द्वौ वै समफलौ स्मृतौ ॥कुमारेशः कुमारीश इति वक्ष्यंति मां ततः ॥१७३॥बर्करेशे च ये दत्त वरा दत्ताः सदैव ते ॥तवापि प्राप्तः कालश्च समीपे वरवर्णिनि ॥१७४॥अभर्तृकाया नार्याश्च न स्वर्गो मोक्ष एव च ॥यथैव वृद्धकन्यायाः सरस्वत्यास्तटे शुभे ॥१७५॥तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम् ॥सिद्धिं गतं वृणु भद्रे पतित्वे वरवर्णिनि ॥१७६॥ततः सा रुद्रवाक्येन वरयामास तं पतिम् ॥रुद्रलोकं ययौ चापि महाकालसन्विता ॥१७७॥तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता ॥यस्मात्त्वया चित्रवच्च लिखिता पृथिवी शुभे ॥१७८॥चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम ॥ततः सखी समभवच्चित्रलेखेति सा शुभा ॥१७९॥ययानिरुद्धः कथित उषायाः पतिरुत्तमः ॥योगिनीनां वरिष्ठा या महाकालस्य वल्लभा ॥१८०॥अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ ॥तपश्चरंती तस्मात्सा प्रोच्यते चाप्सरा दिवि ॥१८१॥एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन ॥स्थापयामास शिवदं बर्करेश्वरसंज्ञितम् ॥१८२॥तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत ॥प्रयागादधिकौ प्रोक्तौ महेशस्य वचो यथा ॥१८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्करेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP